भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.134

3.134.1

यः कथ्यते मन्त्रविदग्र्यबुद्धि- रौद्दालकिः श्वेतकेतुः पृथिव्याम् ।
तस्याश्रमं पश्यत पाण्डवेया सदाफलैरुपपन्नं महीजैः ॥

3.134.2

साक्षादत्र श्वेतकेतुर्ददर्श सरस्वतीं मानुषदेहरूपाम् ।
वेत्स्यामि वाणीमिति सम्प्रवृत्तां सरस्वतीं श्वेतकेतुर्बभाषे ॥

3.134.3

अस्मिन्युगे ब्रह्मकृतां वरिष्ठा- वास्तां मुनी मातुलभागिनेयौ ।
अष्टावक्रश्चैव कहोलसूनु- रौद्दालकिः श्वेतकेतुः पृथिव्याम् ॥

3.134.4

विदेहराजस् समीपतस्तौ घीरावुभौ मातुलभागिनेयौ ।
प्रविश्य यज्ञायतनं विवादे वन्दिं निजग्राहतुरप्रमेयौ ॥

3.134.5

उपास्स्व कौन्तेय सहानुजस्त्वं तस्याश्रमं पुण्यतमं प्रविश्य ।
अष्टावक्रं यस्य दौहित्रमाहु- र्योऽसौ वन्दिं जनकस्याथ यज्ञे । वादि विप्राग्न्यो बाल एवाभिगम्य वादे भङ्क्त्वा मज्जयामास नद्याम् ॥
युधिष्ठिर उवाच ।

3.134.6

कथम्प्रभावः स बभूव विप्र- स्तथाभूतं यो निजग्राह वन्दिम् ।
किञ्चाधिकृत्याथ तयोर्विवादो विदेहराजस् समीप आसीत् ॥

3.134.7

अष्टावक्रः केन चासौ बभूव तत्सर्वं मे लोमश शंस तत्त्वम् ॥
लोमश उवाच ।

3.134.8

उद्दालकस्य नियतः शिष्य एको नाम्ना कहोळेति बभूव राजन् ।
शुश्रूषुराचार्यवशानुवर्ती दीर्घ कालं सोऽध्ययनं चकार ॥

3.134.9

तं वै विप्राः पर्यभवंस्तु शिखा- स्तं च ज्ञात्वा विप्रकारं गुरुः सः ।
तस्मै प्रादात्सद्य एव श्रुतं च भार्यां च वै दुहितरं स्वां सुजाताम् ॥

3.134.10

तस्यां गर्भः समभवदग्निकल्पः सोऽधीयानं पितरमथाभ्युवाच ।
सर्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपवर्तते ॥

3.134.11

उपालब्धः शिष्यमध्ये महर्षिः स तं कोपादुदरस्थं शशाप ।
यस्माद्वक्रं वर्तमानो ब्रवीषि तस्माद्वक्रो भवितास्यष्टधैव ॥

3.134.12

स वै तथा वक्र एवाभ्यजाय- दष्टावक्रः प्रथितो मानवेषु ।
अस्यासीद्वै मातुलः श्वेतकेतुः स तेन तुल्यो वयसा बभूव ॥

3.134.13

सम्पीड्यमाना तु तदा सुजाता विवर्धमानेन सुतेन कुक्षौ ।
उवाच भर्तारमिदं रहोगता प्रसाद्य हीना वसुना धनार्थिनी ॥

3.134.14

कथं करिष्याम्यधुना महर्षे मासश्चायं दशमो वर्तते मे ।
नैवास्ति मे वसु किञ्चित्प्रदाता येन्नाहमेतामापदं निस्तरेयम् ॥

3.134.15

उक्तस्त्वेवं भार्यया वै कहोळो वित्तस्यार्थे जनकमथाभ्यगच्छत् ।
स वै तदा वादविदा निगृह्य निमज्जितो वन्दिनेहाप्सु विप्रः ॥

3.134.16

उद्दालकस्तं तु तदा निशम्य सूतेन वादेऽप्सु निमज्जितं तथा ।
उवाच तां तत्रततः सुजात- मष्टवक्रे गूहितव्योऽयमर्थः ॥

3.134.17

ररक्ष सा चापि तमस् मन्त्रं जातोऽप्यसौ नैव शुश्राव विप्रः ।
उद्दालकं पितरं सोऽभिमेने तथाऽष्टावक्रो भ्रातरं श्वेतकेतुम् ॥

3.134.18

ततो वर्षे द्वादशे श्वेतकेतु- रष्टावक्रं पितुरङ्के निषण्णम् ।
अपाकर्षद्गृह्यपाणौ रुदन्तं नायं तवाङ्कः पितुरित्युक्तवांश्च ॥

3.134.19

यत्तेनोकतं दुरुक्तं तत्तदानीं हृदि स्थितं तस्य सुदुःखमासीत् ।
गृहं गत्वा मातरं सोऽथ विग्रः पप्रच्छेदं क्व नु तातो ममेति ॥

3.134.20

ततः सुजाता परमार्तरूपा शापाद्भीता तत्त्वमस्याचचक्षे ।
तद्वै तत्त्वंसर्वमाज्ञाय रात्रा- वित्यब्रवीच्छ्वेतकेतुं स विप्रः ॥

3.134.21

गच्छाव यज्ञं जनकस्य राज्ञो बह्वाश्चर्यः श्रूयते तस्य यज्ञः ।
श्रोष्यावोऽत्र ब्राह्मणानां विवाद- मन्नं चाग्र्यं तत्रभोक्ष्यावहे च ॥

3.134.22

विचक्षणत्वं च भविष्यते नौ शिवश्च सौम्यश्च हि ब्रह्मघोषः ॥

3.134.23

तौ जग्मतुर्मातुलभागिनेयौ यज्ञं समृद्धं जमकस्य राज्ञः ।
अष्टावक्रः पथि राज्ञा समेत्य प्रोत्सार्यमाणो वाक्यमिदं जगाद ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc