भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.128

3.128.1

कथंवीर्यः स राजाऽभूत्सोमको ददतांवरः ।
कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः ॥
लोमश उवाच ।

3.128.2

युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः ।
तस्य भार्याशतं राजन्सदृशीनामभूत्तदा ॥

3.128.3

स वै यत्नेन महता तासु पुत्रं महीपतिः ।
कञ्चिन्नासादयामास कालेन महता ह्यपि ॥

3.128.4

कदाचित्तस् वृद्धस्य यतमानस्य धीमतः ।
जन्तुर्नाम सुतस्तस्य ज्येष्ठायां समजायत ॥

3.128.5

तं जातं मातरः सर्वाः परिवार्य समासते ।
सततं पृष्ठतः कृत्वा कामभोगान्विशाम्पते ॥

3.128.6

ततः पिपीलिका जन्तुं कदाचिददशत्स्फिचि ।
स दष्टो ह्यरुदद्राजंस्तेन दुःखेन बालकः ॥

3.128.7

ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः ।
प्रवार्य जनतुं सहसा स शब्दस्तुमुलोऽभवत् ॥

3.128.8

तमार्तनादं सहसा शुश्राव स महीपतिः ।
अमात्यपर्षदो मध्ये उपविष्टः सहर्त्विजा ॥

3.128.9

ततः प्रस्थापयामास किमेतदिति पार्थिवः ।
तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति ॥

3.128.10

त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः ।
प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिन्दमः ॥

3.128.11

सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः ।
ऋत्विजा सहितो राजन्सहामात्य उपाविशत् ॥
सोमक उवाच ।

3.128.12

धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् ।
नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता ॥

3.128.13

इदं भार्याशतं ब्रह्मन्परीक्ष्यसदृशं प्रभो ।
पुत्रार्थिना मया वोढं न तासां विद्यते प्रजा ॥

3.128.14

एकः कथञ्चिदुत्पन्नः पुत्रो जन्तुरयं मम ।
यतमानासु सर्वासु किन्नु दुःखमतः परम् ॥

3.128.15

वयश्च समतीतं मे सभार्यस्यं द्विजोत्तम ।
आसां प्राणाः समायत्ता मम चात्रैकपुत्रके ॥

3.128.16

स्यात्तु कर्म तथा युक्तं येन पुत्रशतं भवेत् ।
महता लघुना वाऽपि कर्मणा दुष्करेण वा ॥
ऋत्विगुवाच ।

3.128.17

अस्ति चैतादृशं कर्म येन पुत्रशतं भवेत् ।
यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक ॥
सोमक उवाच ।

3.128.18

कार्यं वा यदि वाऽकार्यं येन पुत्रशतं भवेत् ।
कृतमेवेति तद्विद्धि भगवान्प्रब्रवीतु मे ॥
ऋत्विगुवाच ।

3.128.19

यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ ।
ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते ॥

3.128.20

वपार्या हूयमानायां धूममाघ्राय मातरः ।
ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् ॥

3.128.21

तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः । उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc