महाभारत · अध्याय 3.126
तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः ।
आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ॥
भयात्संस्तम्भितभुजः सृक्विणी लेलिहन्मुहुः ।
ततोऽव्रवीद्देवराजश्च्यवनं भयपीडितः ॥
सोमार्हावश्विनावेतावद्य प्रभृति भार्गव ।
भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे ॥
न ते मिथ्या समारम्भो भवत्वेष परो विधिः ।
जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ॥
सोमपावश्विनावेतौ यथा वाद्य कृतौ त्वया ।
तथैव मामपि ब्रह्मञ्श्रेयसा योक्तुमर्हसि ॥
भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव ।
सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति ॥
अतो मयैतद्विहितं तव वीर्यप्रकाशनम् ।
तस्मान्प्रसादं कुरु मे भवत्वेवं यथेच्छसि ॥
एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः ।
स मन्युर्व्यगमच्छीघ्रं सुमोच च पुरन्दरम् ॥
मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान् ।
अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ॥
तदा मदं विनिक्षिप्य शक्रं सन्तर्प्य चेन्दुना ।
अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् ॥
विख्याप्य वीर्यं लोकेषु सर्वेषु वदतांवरः ।
सुकन्यया सहारण्ये विजहारानुकूलया ॥
तस्यैतद्द्विजसन्घुष्टं सरो राजन्प्रकाशते ।
अत्रत्वं सह सोदर्यैः पितृडन्देवांश्च तर्पय ॥
एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत ।
सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् ॥
पुष्करेषु महाराज सर्वेषु च जलं स्पृश ।
स्थाणोर्मन्त्राणि च जपन्सिद्धिं प्राप्स्यसि भारत ॥
सन्धिर्द्वयोर्नरश्रेष्ठ त्रेताया द्वापरस्य च । अयं हि दृश्यते पार्थ सर्वपापप्रणाशनः ।
अत्रोपस्पृश चैव त्वं सर्वपापप्रणाशने ॥
आर्चीकपर्वतश्चैव निवासौ वै मनीषिणाम् ।
सदाफलः सदास्रोतो मरुतां स्तानमुत्तमम् ॥
चैत्याश्चैते बहुविधास्त्रिदशानां युधिष्ठिर । एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते ।
वैखानसप्रभृतयो वालखिल्यास्तथैव च ॥
शृङ्गाणि त्रीणि पुण्यानि त्रीणि प्रसर्वणानि च ।
सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश ॥
शान्तनुश्चात्र राजेन्द्र शुनकश्च नराधिपः । नरनारायणौ चोभौ तपस्तप्त्वा चिरं नृप ।
स्थानं सनातनं प्राप्तावीश्वरध्यानतत्परौ ॥
इह नित्याश्रया देवाः पितरश्च महर्षिभिः ।
आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर ॥
इह ते वै चरून्प्राश्नन्नृषयश्च विशाम्पते ।
यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः ॥
यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन ।
सर्वे चात्र गमिष्यामस्त्वयैव सह पाण्डव ॥
एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजेश्वर ।
यत्रधाता विधाता च वपरुणश्चोर्ध्वमागताः ॥
इह तेऽप्यवसन्राजञ्शान्ताः परमधर्मिणः ।
मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ॥
एषा सा यमुना राजन्महर्षिगणसेविता ।
नानायज्ञचिता राजन्पुण्या पापभयापहा ॥
अत्रराजा महेष्वासो मान्धाताऽयजत स्वयम् । साहदेविश्च कौन्तेय सोमको ददतांवरः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0