भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.101

3.101.1

समुद्रं ते समाश्रित्य वरुणं निधमम्भसः ।
कालेयाः सम्प्रवर्तन्त त्रैलोक्यस्य विनाशने ॥

3.101.2

ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् ।
आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च ॥

3.101.3

वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः ।
अशीतिः शतमष्टौ च नव चान्ये तपस्विनः ॥

3.101.4

च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् ।
फलमूलाशनानां हि मुनीनां भक्षितं शतम् ॥

3.101.5

एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा ।
कालेयास्ते दुरात्मानो भक्षयन्तस्तपोधनान् ॥

3.101.6

भरद्वाजाश्रमे चैव नियता ब्र्हमचारिणः ।
वाय्वाहाराम्बुभक्षाश्च विंशतिः सन्निषूदिताः ॥

3.101.7

एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा । निशायां परिबाधन्ते समुद्राम्बुबलाश्रयात् ।
कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् ॥

3.101.8

न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम ।
एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु ॥

3.101.9

क्षयाय जगतः क्रूराः पर्यटन्ति स्म मेदिनीम् ॥

3.101.10

प्रभाते समदृश्यन्त नियताहारकर्शिताः ।
महीतलस्था मुनयः शरीरैर्गतजीवितैः ॥

3.101.11

क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसन्धिभिः ।
आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः ॥

3.101.12

लशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च ।
विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता ॥

3.101.13

निःस्वाध्यायवपट्कारं नष्टयज्ञोत्सवक्रियम् ।
जगदासीन्निरुत्साहं कालेयभयपीडितम् ॥

3.101.14

एवं सन्क्षीयमाणाश्च मानवा मनुजेश्वर ।
आत्मत्राणपपा भीताः प्राद्रवन्त दिशो भयात् ॥

3.101.15

केचिद्गुहाः प्रविविशुर्निर्भरांश्चापरे श्रिताः ।
अपरे मरणोद्विग्ना भयात्प्राणान्समुत्सृजन् ॥

3.101.16

केचिदत्रमहेष्वासाः शूराः परमहर्षिताः ।
मार्गमाणआः परं यत्नं दानवानां प्रचक्रिरे ॥

3.101.17

न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् ।
श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च ॥

3.101.18

जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये ।
आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर ॥

3.101.19

समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे ॥

3.101.20

शरण्यं शरणं देवं नारायणमजं विभुम् । तेऽभिगम्य नमस्कृत्य वैकुण्ठमपराजितम् ।
ततो देवाः समस्तास्ते तदोचुर्मधुसूदनम् ॥

3.101.21

त्वन्नः स्रष्टा च भर्ता च हर्ता च जगतः प्रभो । त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति ।
त्वय्येव पुण्डरीकाक्ष पुनस्तत्प्रविलीयते ॥

3.101.22

त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण ।
वाराहं वपुराश्रित्यजगदर्थे समुद्धृता ॥

3.101.23

आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा ।
नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम ॥

3.101.24

अवध्यः सर्वभूतानां बलिश्चापि महासुरः ।
वामनं वपुराश्रित्य त्रैलोक्याद्धंशितस्त्वया ॥

3.101.25

असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः ।
यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः ॥

3.101.26

एवमादीनि कर्माणि येषां संख्या न विद्यते ।
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन ॥

3.101.27

तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे । रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् ।
शरणागतसन्त्राणे त्वमेकोऽसि दृढव्रतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc