भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.100

3.100.1

ततः स वज्री बलभिद्दैवतैरभिरक्षितः ।
आससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥

3.100.2

कालकेयैर्महाकायै समन्तादभिरक्षितम् ।
समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ॥

3.100.3

ततो युद्धं समभवद्देवानां दानवैः सह ।
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ॥

3.100.4

उद्यतप्रतिविद्धानां स्वङ्गानां वीरबाहुभिः ।
आसीत्सुतुमुः शब्दः शरीरेष्वभिपात्यताम् ॥

3.100.5

शिरोभिः प्रपतद्भिश्चाप्यन्तरिक्षान्महीतलम् ।
तालैरिव महाराज वृन्ताद्भ्रष्टैरदृश्यत ॥

3.100.6

ते हेमकवचा भूत्वा कालेयाः परिघायुधाः ।
त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ॥

3.100.7

तेषां वेगवतां वेगं सहितानां प्रधावताम् ।
न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ॥

3.100.8

तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरन्दरः ।
वृत्रे विवर्धमाने च कश्मलं महदाविशत् ॥

3.100.9

तं शक्तं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः ।
जगाम शरणं शीघ्रं तं तु नारायणं प्रभुम् ॥

3.100.10

तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः ।
स्वतेजो व्यदधच्छक्रे बलमस्य विवर्धयन् ॥

3.100.11

विष्णुना गोपितं शक्रं दृष्ट्वादेवगणास्ततः ।
स्वं स्वन्तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥

3.100.12

स समाप्यायितः शक्रो विष्णुना दैवतैः सह ।
ऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥

3.100.13

ज्ञात्वा बलस्थं त्रिदशाधिपं तु ननाद वृत्रो महतो निनादान् ।
तस् प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चापि चचाल सर्वम् ॥

3.100.14

ततो महेन्द्रः परमाभितप्तः श्रुत्वा रवं घोररूपं महान्तम् ।
भये निमग्नस्त्वरितो मुमोच वज्रं महत्तस्य वधाय राजन् ॥

3.100.15

स चक्रवज्राभिहतः पपात महासुरः काञ्चनमाल्यधारी ।
यथा महाशैलवरः पुरस्ता- त्स मन्दरो विष्णुकराद्विमुक्तः ॥

3.100.16

तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुम् ।
वज्रं न मेने स्वकराद्विमुक्तं वृत्रं भयाच्चापि हतं न मेने ॥

3.100.17

सर्वे च देवा मुदिताः प्रहृष्टा महर्षयश्चन्द्रमभिष्टुवन्तः ।
वृत्रं हतं सन्ददृशुः पृथिव्यां वज्राहतं शैलमिवावदीर्णम् ॥

3.100.18

सर्वांश्च दैत्यांस्त्वरिताः समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान् ।
ते वध्यमानास्त्रिदशैः समेतैः समुद्रमेवाविविशुर्भयार्ताः ॥

3.100.19

प्रविश्य चैवोदधिमप्रमेयं झषाकुलं नक्रसमाकुलं च ।
तदा स्म मन्त्रं सहिताः प्रचक्रु- स्त्रैलोक्यनाशार्थमभिप्रयत्नात् ॥

3.100.20

तत्रस्म केचिन्मतिनिश्चयज्ञा- स्तांस्तानुपयानुपवर्णयन्ति ।
तेषां तु तत्रक्रमकालयोगा- द्धोरा मतिश्चिन्तयतां बभूव ॥

3.100.21

ये सन्ति विद्यातपसोपपन्ना- स्तेषां विनाशः प्रथमं तु कार्यः ।
लोका हि सर्वे तपसा ध्रियन्ते तस्मात्त्वरध्वं तपसः क्षयाय ॥

3.100.22

येसन्ति केचिच्च वसुन्धरायां तपस्विनो धर्मविदश् तज्ज्ञाः ।
तेषां वधः क्रियतां क्षिप्रमेव तेषु प्रनष्टेषु जगत्प्रनष्टम् ॥

3.100.23

एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः ।
दुर्गं समाश्रित्य महोर्मिमन्तं रत्नाकरं वरुणस्यालयं स्म ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc