भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.1

3.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
जनमेजय उवाच
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः । धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ॥

3.1.2

श्राविताः परुषा वाचः सृजन्तीर्वैरमुत्तमम् ।
किमकुर्वत कौरव्या मम पूर्वपितामहाः ॥

3.1.3

कथं चैश्वर्यभूयिष्ठाः सहसा दुःखमेयुषः ।
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ॥

3.1.4

के चैतानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् ।
किमाचाराः किमाहाराः क्वच वासो महात्मनाम् ॥

3.1.5

कथं द्वादश वर्षाणि वने तेषां महात्मनाम् ।
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामनिवर्तिनाम् ॥

3.1.6

कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् ।
पतिव्रता महाभागा सततं प्रियवादिनी ॥

3.1.7

वनवासमदुःखार्हा दारुणं प्रत्यपद्यत ।
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन ॥

3.1.8

श्रोतुमिच्छामि तत्सर्वं भूरिद्रविणतेजसाम् ।
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ॥
वैशम्पायन उवाच ।

3.1.9

एवं द्यूतजिताः पार्थाः कोयिताश्च दुरात्मभिः ।
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥

3.1.10

वर्धमानपुरद्वारादभिनिष्क्रम्य ते तदा ।
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ॥

3.1.11

इन्द्रसेनादयश्चैतान्भृत्याः परिचतुर्दश ।
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ॥

3.1.12

ततस्ते पुरुषव्याघ्रा रथानास्थाय भारत । ददृशुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥

3.1.13

व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः । गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् ।
ऊचुर्वै समयं कृत्वा समागम्य परस्परम् ॥
पौरा ऊचुः ।

3.1.14

नेदमस्ति कुलं सर्वं न वयं नच नो गृहाः । यत्रदुर्योधनः पापः सौबलेयेन पालितः ।
कर्णदुःशासनाद्यैश्च राज्यमेतच्चिकीर्षति ॥

3.1.15

न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् ।
यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति ॥

3.1.16

दुर्योधनो गुरुद्वेषी त्यक्तधर्मः प्रियानृतः ।
अर्तलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ॥

3.1.17

नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः ।
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ॥

3.1.18

सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः ।
हीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ॥
वैशम्पायन उवाच ।

3.1.19

एवमुक्त्वाऽनुजग्मुस्ते पाण्डवांस्तान्समेत्य च ।
ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ॥

3.1.20

क्वगमिष्यथ भद्रंवस्त्यक्त्वाऽस्मान्दुःखभागिनः ।
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ॥

3.1.21

अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः ।
उद्विग्नाः स्मो भृशं सर्वे नास्मान्हातुमिहार्हथ ॥

3.1.22

भक्तानुरक्तान्सुहृदः सदा प्रियहिते रतान् ।
कुराजाघिष्ठिते राज्ये न विनश्येम सर्वशः ॥

3.1.23

श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः ।
शुभाशुभाधिवासेन संसर्गः कुरुते यथा ॥

3.1.24

वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा ।
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥

3.1.25

मोहजालस्य योनिर्हि मूढैरेव समागमः ।
अहन्यहनि धर्मस्य योनिः साधुसमागमः ॥

3.1.26

तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः ।
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ॥

3.1.27

येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च ।
ते सेव्यास्तैः समास्याहि शास्त्रेभ्योपि गरीयसी ॥

3.1.28

निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु ।
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ॥

3.1.29

असतां दर्शनात्स्पर्शात्सञ्जल्पाच्च सहासवात् ।
धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः ॥

3.1.30

बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ।
मध्यमैर्मध्यतां याति श्रेष्ठैः श्रेष्ठत्वमाप्नुयुः ॥

3.1.31

अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः । ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः ।
लोकाचारेषु सम्भूता वेदोक्ताः शिष्टसम्मताः ॥

3.1.32

ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः ।
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोभिकाङ्क्षिणः ॥
युधिष्ठिर उवाच ।

3.1.33

धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः ।
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ॥

3.1.34

तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः ।
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ॥

3.1.35

भीष्मः पितामहो राजा विदुरो जननी च मे ।
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ॥

3.1.36

ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः ।
युष्माभिः सहिताः सर्वे शोकसन्तापविह्वलाः ॥

3.1.37

निवर्ततागता दूरं ममागमनकाङ्क्षिणः ।
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ॥

3.1.38

एतद्धि मम कार्याणां परमं हृदि संस्थितम् ।
कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति ॥
वैशम्पायन उवाच ।

3.1.39

तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः ।
चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ॥

3.1.40

गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः ।
अकामाः सन्न्यवर्तन्त समागम्याथ पाण्डवान् ॥

3.1.41

निवृत्तेषु तुं पौरेषु रथानास्थाय पाण्डवाः ।
आजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥

3.1.42

ते तं दिषसशेषेण वटं गत्वा तु पाण्डवाः ।
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ॥

3.1.43

उदकेनैव तां रात्रिमृषुस्ते दुःखकर्शिताः ।
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः ॥

3.1.44

साग्रयोऽनग्नयश्चैव सशिष्यगणबान्धवाः ।
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ॥

3.1.45

तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे ।
ब्रह्मघोषपुरस्कारः सञ्जल्पः समजायत ॥

3.1.46

राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः ।
आश्वासयन्तो विप्राग्र्याः क्षयां सर्वां व्यनोदयत् ॥

3.1.47

राजा तु भ्रातृभिः सार्धं तथा सर्वैः सुहृद्गणैः । अशेत तां निशांराजन्दुःखशोकसमाहितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc