भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.96

2.96.1

अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्जयान् ।
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा ॥
वैशम्पायन उवाच ॥

2.96.2

अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता ।
राजन्दुः शासनः क्षिप्रं जगाम भ्रातरं प्रति ॥

2.96.3

दुर्योधनं समासाद्य सामात्यं भरतर्षभ ।
दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् ॥
दुःशासन उवाच ॥

2.96.4

दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ ।
शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ॥

2.96.5

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
मिथः सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः ॥

2.96.6

वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् ।
अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् ॥
दुर्योधन उवाच ॥

2.96.7

न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः ।
शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः ॥

2.96.8

सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुसूदन ।
पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् ॥

2.96.9

ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान् ।
यदि तान्योधयिष्यामः किं वै निः परिहास्यति ॥

2.96.10

अहीनाशीविषान्क्रुद्धान्नाशाय समुपस्थितान् ।
कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति ॥

2.96.11

आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः ।
निःशेषान्नः करिष्यन्ति क्रुद्धा ह्याशीविषा इव ॥

2.96.12

सन्नद्धो ह्यर्जुनो याति विधृत्य परमेषुधी ।
गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते ॥

2.96.13

गदां गुर्वी समुद्यम्य त्वरितश्च वृकोदरः ।
स्वरथं योजयित्वाऽशु निर्यात इति नः श्रुतम् ॥

2.96.14

नकुलः खह्गमादाय चर्म चाप्यर्धचन्द्रवत् ।
सहदेवश्च राजा च चक्रुराकारमिङ्गितैः ॥

2.96.15

ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् ।
अभिघ्नान्तो रथव्रातान्सेनायोगाय निर्ययुः ॥

2.96.16

न क्षंस्यन्ते तथाऽस्माभिर्जातु विप्रकृता हि ते ।
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ॥

2.96.17

न पश्यामि रणे क्रद्धुं बीभत्सुं प्रतिवारणम् ।
भीष्मो द्रोणश्च कर्णश्च द्रौणिश्च रथिनां वरः ॥

2.96.18

कृपश्च वृषसेनश्च विकर्णश्च जयद्रथः ।
वाह्लीकः सोमदत्तश्च भूरिर्भूरिश्रवाः शलः ॥

2.96.19

शकुनिः ससुतश्चैव नृपाश्चान्ये च कौरवाः ।
नैते सर्वे रणोद्युक्ताः पार्थं सोढुमशक्नुवन् ॥

2.96.20

अर्जुनेन समो लोके नास्ति वीर्ये धनुर्धरः ।
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ॥
धृतराष्ट्र उवाच ॥

2.96.21

कस्त्वयोक्तः पुमान्वीरो बीभत्सुसमविक्रमः ।
तं ये व्रूहि महावीर्यं श्रोतुमिच्छामि पुत्रक ॥
दुर्योधन उवाच ॥

2.96.22

कार्तवीर्यस्य चरितं शृणु राजन्महात्मनः ।
अव्यक्तप्रभवो ब्रह्मा सर्वलोकपितामहः ॥

2.96.23

ब्रह्मणोऽत्रिः सुतो विद्वानत्रेः पुत्रो निशाकरः ।
सोमस्य तदु बुधः पुत्रो बुधस्य तु पुरूरवाः ॥

2.96.24

तस्याप्यध सुतोऽप्यायुरायोस्तु नहुषः सुतः ।

2.96.30

स चार्जुनोऽथ तेजस्वी तपः परमदुश्चरम् ।
------ सोऽर्जुनोऽत्रिसुतं मुनिम् ॥

2.96.31

तस्य दत्तो वरान्प्रादाच्चतुरः पार्थिवस्य वै ।
पूर्वं बाहुसहस्रं तु प्रार्थितः परमो वरः ॥

2.96.32

अधर्मे प्रीयमाणस्य सद्भिस्तत्र निवारणम् ।
धर्मेण पृथिवीं जित्वा धर्मेणैव हि रञ्जनम् ॥

2.96.33

सङ्ग्रामान्सुबहून्कृत्वा हत्वा चारीन्सहस्रशः ।
सङ्ग्रामे यतमानस्य वधश्चैवाधिकाद्रणै ॥

2.96.34

तस्य बाहुसहस्रं तु युध्यतः किल भारत ।
रथो ध्वजश्च सञ्जज्ञ इत्येवं मे श्रुतं परा ॥

2.96.35

तथेयं पृथिवी राजन्त्सप्तद्वीपा सपत्तना ।
ससमुद्राकरा तात विधिनोग्रेण वै जिता ॥

2.96.36

चार्जुनोऽथ तेजस्वी सप्तद्वीपेश्वरोऽभवत् । च राजा महायज्ञानाजहार महाबलः ।
प्रशशास महाबाहुर्महीं स च समा बहूः ॥

2.96.37

ततोऽर्जुनः कदाचिद्वै राजन्माहिष्मतीपतिः ।
नर्मदां भरतश्रेष्ठं तां तु दारैर्ययौ सह ॥

2.96.38

ततस्तां स नदीं गत्वा प्रविश्यन्तर्जले तदा ।
कर्तुं राजञ्जलक्रीडां ततो राजोपचक्रमे ॥

2.96.39

तस्मिन्नेव ततः काले रावमो राक्षसैः सह ।
लङ्काया ईश्वरस्तात तं देशं प्रययौ बली ॥

2.96.40

ततस्तमर्जुनं दृष्ट्वा नर्मदायां दशाननः ।
नित्यं क्रोधपरो धीरो वरदानेन मोहितः ॥

2.96.41

अभ्यघावत्सुसङ्क्रुद्धो महेन्द्रं शम्बरो यथा ।
अर्जुनोऽप्यथ तं दृष्ट्वा रावणं प्रत्यवारयत् ॥

2.96.42

ततस्तौ चक्रतुर्युद्धं रावणश्चार्जुनश्च वै ।
ततस्तु दुर्जयं वीरं वरदानेन दर्पितम् ॥

2.96.43

राक्षसेन्द्रं मनुष्येन्द्रो जित्वा बध्वा रणे बलात् ।
बध्वा धनुर्ज्यया राजन्विवेशाथ पुरीं स्वकाम् ॥

2.96.44

स तु तं बन्धितं श्रुत्वा पुलस्त्यो रावणं तदा ।
मोक्षयाणास बन्धाद्वै पुरे दृष्ट्वाऽर्जुनं तदा ॥

2.96.45

ततः कदाचित्तेजस्वी कार्तवीर्योर्जुनो बली ।
समुद्रतीरं गत्वाथ विरचन्दर्पमोहितः ॥

2.96.46

अवाकिरच्छितशरैः समुद्रं स तु भारत ।
तं समुद्रो नमस्कृत्य कृताञ्जलिरभाषत ॥

2.96.47

आशुगान्वीर मा मुञ्च ब्रूहि किं करवाणि ते । मदाश्रयाणि सत्वानि त्वद्विसृष्टैर्महेषुभिः ।
बाध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥
अर्जुन उवाच ॥

2.96.48

देहि सिन्धुपते युद्धमद्यैव त्वरया मम ।
अथवा पीडयामि त्वां तस्मात्त्वं कुरु माचिरम् ॥
समुद्र उवाच ॥

2.96.49

लोके राजन्महावीर्या बहवो निवसन्ति ये ।
तेषामेकेन राजेन्द्र कुरु युद्धं महाबल ॥
अर्जुन उवाच ॥

2.96.50

मत्समो यदि सङ्ग्रामे वरायुधधरः क्वचित् ।
विद्यते तं ममाचक्ष्व यः समासेत मा मृधे ॥
समुद्र उवाच ॥

2.96.51

महर्षिर्जमदग्निस्तु यदि राजन्परिश्रुतः ।
तस्य पुत्रो रणं दातुं यथावद्वै तवार्हति ॥
दुर्योधन उवाच ॥

2.96.52

समुद्रस्य वचः श्रुत्वा राजा माहिष्मतीपतिः ।
नारदस्य च वै पूर्वं क्रोधेन महता वृतः ॥

2.96.53

ततः प्रतिययौ शीघ्रं क्रोधेन सह भारत ।
स तमाश्रममागत्य काममेवान्वपद्यत ॥

2.96.54

स कामं प्रतिकूलानि चकार सह बन्धुभिः ।
आयासं जनयामास रामस्य स महात्मनः ॥

2.96.55

ततस्तेजः प्रजज्वाल रामस्यामिततेजसः ।
प्रदहन्निव सैन्यानि रश्मिमानिव तेजसा ॥

2.96.56

अथ तौ चक्रतुर्युद्धं वृत्रवासवयोरिव ॥

2.96.57

ततः परशुमादाय नृपं बाहुसहस्रिणम् ।
चिच्छेद सहसा रामो बहुशाखमिव द्रुमम् ॥

2.96.58

तं हतं पतितं दृष्ट्वा समेतास्तस्य बान्धवाः ।
असीनादाय शक्तीश्च रामं ते प्रत्यवारयन् ॥

2.96.59

रामोऽपि रथमास्थाय धनुरायम्य सत्वरः ।
विसृजन्परमास्त्राणि व्यधमत्पार्थिवान्बली ॥

2.96.60

ततस्तु क्षत्रिया राजञ्जामदग्न्यभयार्दिताः ।
विविशुर्गिरिदुर्गाणि मृगाः सिंहभयादिव ॥

2.96.61

तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठति ।
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥

2.96.62

तथा च द्रविडाः काचाः पुण्डाश्च शबरैः सह ।
वृषलत्वं परिगता विच्छिन्नाः क्षत्रधर्मिणः ॥

2.96.63

ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः ।
द्विजैरभ्युदितं क्षत्रं तानि रामो निहत्य च ॥

2.96.64

ततस्त्रिस्मप्तमे याते रामं वागशरीरिणी ।
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥

2.96.65

रामराम निवर्तस्व स्वगुणं नात्र पश्यसि ।
क्षत्रबन्धूनिमान्प्रामैर्विप्रयुज्य पुनः पुनः ॥

2.96.66

तथैव तं महात्मानमृचीकप्रमुखास्तथा ।
रामराम महावीर्य निवर्तस्वेत्यथाब्रुवन् ॥

2.96.67

पितुर्वधमसमृष्यंस्तु रामः प्रोवाच तानृषीन् ।
नार्हा हन्त भवन्तो मां निवारयितुमित्युत ॥
पितर ऊचुः ।

2.96.68

नार्हसि क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर ।
न हि युक्तं त्वया तात ब्राह्मणेनसता नृपान् ॥
दुर्योधन उवाच ॥

2.96.69

पितॄणां वचनं श्रुत्वा क्रोधं त्यक्त्वा स भार्गवः ।
अश्वमेधसहस्राणि नरमेधशतानि च ॥

2.96.70

इष्ट्वा सागरपर्यन्तां काश्यपाय ददौ महीम् ।
तेन रामेण सङ््ग्रामे तुल्यस्तात दयञ्जयः ॥

2.96.71

कार्तवीर्येण च रणे तुल्यः पार्थो न संशयः ।
रणे विक्रम्य राजेन्द्र पार्थं जेतुं न शक्यते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc