भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.76

2.76.1

अनुभूय तु राज्ञस्तं राजसूयं सुदुर्मतिः ।
युधिष्ठिरस्य शकुनिर्दुर्योधसुसंयुतः ॥

2.76.2

विवेश हास्तिनपुरं दुर्योधनमतेन सः ।
वाढमित्येव शकुनिर्दृढं हृदि चकार ह ॥

2.76.3

अस्वस्थतां चतां दृष्ट्वा धार्तराष्ट्रस्य पापकृत् ।
भारतानां च दुष्टात्मा क्षयाय हि नृपक्षयः ॥

2.76.4

प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत् ।
प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा ॥

2.76.5

दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् ।
उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् ॥
शकुनिरुवाच ।

2.76.6

दुर्योधनो महाराज विवर्णो हरिणः कृशः ।
दीनश्चिन्तापरश्चैव तं विद्धि मनुजाधिप ॥

2.76.7

न वै परीक्षसे सम्यगसह्यं शत्रुसम्भवम् ।
ज्येष्ठपुत्रस्य हृच्छोकं किमर्थं नावबुध्यसे ॥

2.76.8

एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः ।
दुर्योधनं समाहूयं इदं वचनमब्रवीत् ॥
धृतराष्ट्र उवाच ।

2.76.9

दुर्योधन कृतोमूलं भृशमार्तोऽसि पुत्रक ।
श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन ॥

2.76.10

अयं त्वां शकुनिः प्राह विवर्णं हरिमं कृशम् ।
चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम् ॥

2.76.11

ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं प्रतिष्ठितम् ।
भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् ॥

2.76.12

आच्छादयसि प्रावारानश्नासि पिशितौदनम् ।
आजानेया वहन्त्यश्वाः केनासि हरिणः कृशः ॥

2.76.13

शयनानि महार्हाणि योषितश्च मनोरमाः ।
गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् ॥

2.76.14

देवनामिव ते सर्वं वाचि बद्धं न संशयः ।
स दीन इव दुर्धर्ष कस्माच्छोचसि पुत्रक ॥

2.76.15

मात्रा पित्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् ।
प्राप्तस्त्वमसि तत्तात निखिलां नः कुलश्रियम् ॥

2.76.16

उपस्थितः सर्वकामैस्त्रिदिवे वासवो यथा ।
विविधैरन्नपानैश्च प्रवरैः किं नु शोचसि ॥

2.76.17

निरुक्तं निगमं छन्दः षडङ्गान्यस्त्रशास्त्रवान् ।
अधीती कृतविद्यस्त्वं दशव्याकरणैः कृपात् ॥

2.76.18

हलायुधात्कृपाद्द्रोणादस्त्रविद्यामधीतवान् ।
भ्राताज्येष्ठः स्थितो राज्ये किमु शोचसि पुत्रक ॥

2.76.19

पृथग्जनैरलभ्यं यदशनाच्छादनं बहु ।
प्रभुः सन्भुञ्जसे पुत्र संस्तुतः सूतमागधैः ॥

2.76.20

तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् ।
लोकेस्मिञ्ज्येष्ठभागन्यस्तन्ममाचक्ष्व पृच्छतः ॥
वैशम्पायन उवाच ॥

2.76.21

तस्य तद्वचनं श्रुत्वा मन्दः क्रोधवशानुगः ।
पितरं प्रत्युवाचेदं स्वमतिं सम्प्रकाशयन् ॥
दुर्योधन उवाच ॥

2.76.22

अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा ।
अमर्षं धारये चोग्रं निनीषुः कालपर्ययम् ॥

2.76.23

अमर्षणः स्वाः प्रकृतीरभिभूय परं स्थितः ।
क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते ॥

2.76.24

सन्तोषो वै श्रियं हन्ति ह्यभिमानं च भारत ।
अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ॥

2.76.25

न मां प्रीणाति मद्भुक्तं श्रियं दृष्ट्वा युधिष्ठेरे ।
अतिज्वलन्तीं कौन्तेये विवर्णकरणीं मम ॥

2.76.26

सपत्नानृद्व्यतोत्मानं हीयमानं निशाम्य च ।
अदृश्यामपि कौन्तेय श्रियं पश्यन्निवोद्यताम् ॥

2.76.27

तस्मादहं विवर्णश्च दीनश्च हरिमः कृशः ।
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ॥

2.76.28

त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः । दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् ।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥

2.76.29

कदलीमृगमोकानि कृष्णश्यामारुणानि च । काम्भोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् ।
गजयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः ॥

2.76.30

त्रिशतं चोष्ट्रवामीनां शतानि विचरन्त्युत ।
राजन्या बलिमादाय समेता हि नृपक्षये ॥

2.76.31

पृथग्विधानि रत्नान पार्थिवाः पृथिवीपते ।
आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः ॥

2.76.32

न क्वचिद्धि मया तादृग्दृष्टपूर्वो न च श्रुतः ।
यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः ॥

2.76.33

असत्यं चेदिदं सर्वं सञ्जयं प्रष्टुमर्हसि । अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप ।
शर्म नैवाभिगच्छामि चिन्तयानो विशाम्पते ॥

2.76.34

ब्रह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः ।
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥

2.76.35

कमण्डलूनुपादाय जातरूपमयाञ्शुभान् ।
त्रैखर्वाः प्रतिवेद्यास्मै लेभिरेऽथ प्रवेशनम् ॥

2.76.36

यथैव मधु शक्राय धारयन्त्यमरस्त्रियटः ।
तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः ॥

2.76.37

शङ्खप्रवरमादाय वासुदेवोऽभिषिक्तवान् ।
शक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् ॥

2.76.38

दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् ।
गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ ॥

2.76.39

तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ । उत्तरं तु न गच्छन्ति विना तात पतत्रिणः ।
तत्र गत्वाऽर्जुनो दण्डमाजहारामितं धनम् ॥

2.76.40

कृतां बैन्दुसरै रत्नैर्मयेन स्फाटिकच्छदाम् ।
अपश्यं नलिनीं पूर्णामुदकस्येव भारत ॥

2.76.41

उत्कर्षन्तं च वासश्च प्राहसन्मां वृकोदरः ।
किङ्कराश्च सभापाला जहसुर्भरतर्षभ ॥

2.76.42

पित्रोरर्थे विशेषेण प्रावृण्वं तत्र जीवितम् ।
तत्र त्म यदि शक्तः स्यां घातयेयं वृकोदरम् ॥

2.76.43

सपत्नेनापहासो हि स मां दहति भारत ॥

2.76.44

तत्र स्फाटिकतोयां हि स्फाटिकाम्बुजशोभिताम् ।
सभां पुष्करिणीं मत्वा पतितोऽस्मि नराधिप ॥

2.76.45

तत्र मामहसद्भीमः सह पार्थेन सस्वरम् ।
द्रौपदी चसह स्त्रीभिः पातयन्ती मनो मम ॥

2.76.46

क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः ।
ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम ॥

2.76.47

अस्तम्भा इव तिष्ठन्ति स्तम्भा इव सहस्रशः ।
सोहं तत्राहतो राजन्स्फटिकाभ्यन्तरे विभो ॥

2.76.48

अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा ।
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥

2.76.49

आमृशन्निव तां दृष्ट्वा मार्गान्तरमुपाविशम् । इदं द्वारमिदं राजन्नद्वारमिति मां प्रति ।
अद्भुतं प्रहसन्वाक्यं बभाषे स वृकोदरः ॥

2.76.50

स्त्रियश्च तत्र मां दृष्ट्वा जहसुस्तादृशं नृप ।
सर्वं हासकरं तेषां सदस्यानां नरर्षभ ॥

2.76.51

न श्रुतानि न दृष्टानि यानि रत्नान मे क्वचित् ।
तानि मे तत्र दृष्टानि तेन तप्तोस्मि दुःखितः ॥

2.76.52

हुताशनं प्रवेक्ष्यामि प्रवेक्ष्यामि महोदधिम् ।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥

2.76.53

इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु ॥

2.76.54

पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां सदा ।
स्थापितस्तत्र सञ्ज्ञार्थं शङ्खो ध्मायति नित्यसः ॥

2.76.55

मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत ।
अनिशं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् ॥

2.76.56

पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः ।
अशोभत महाराज नक्षत्रैर्द्यैरिवामला ॥

2.76.57

सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर ।
यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः ॥

2.76.58

वैश्या इव महीपाला द्विजातिपरिवेषकाः । न सा श्रीर्देवराजस्य यमस्य वरुणस्य च ।
गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे ॥

2.76.59

तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिक्रामहम् ।
शान्तिं न परिगच्छामि दह्यमानेन चेतसा ॥

2.76.60

अप्राप्य पाण्डवैश्वर्यं शमो मम न विद्यते ।
अरीन्बाणैः शाययिष्ये शयिष्ये वा हतः परैः ॥

2.76.61

एतादृशस्य मे किं तु जीवितेन परन्तप ।
वर्धन्ते पाण्डवा राजन्वयं हि स्थितवृद्धयः ॥
शकुनिरुवाच ॥

2.76.62

यामेतामतुलां लक्ष्मीं दृष्टवानसि पाण्डवे ।
तस्याटः प्राप्तावुपायं मे शृणु सत्यपराक्रम ॥

2.76.63

अहमक्षेष्वभिज्ञोऽस्मि पृथिव्यामपि भारत ।
हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने ॥

2.76.64

द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् ।
आहूतश्चैष्यति व्यक्तं नित्यमेवाह्वयत्स्वयम् ॥

2.76.65

नियतं तं विजेष्यामि कृत्वा तु कपटं विभो ।
आनयामि समृद्धिं तां दिव्यां चोपाह्वयस्व तम् ॥
वैशम्पायन उवाच ॥

2.76.66

एवमुक्तः शकुनिना राजा दुर्योधनस्ततः ।
धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् ॥

2.76.67

अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् ।
द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि ॥
धृतराष्ट्र उवाच ॥

2.76.68

क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने ।
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥

2.76.69

स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् ।
उभयोटः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् ॥
दुर्योधन उवाच ।

2.76.70

निवर्तयिष्यति त्वाऽसौ यदि क्षत्ता समेष्यति ।
निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् ॥

2.76.71

स त्वं मयि मृते राजन्विदुरेण सुखी भव ।
भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि ॥
वैशम्पायन उवाच ॥

2.76.72

आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः ।
धृतराष्ट्रोऽब्रवीत्प्रेष्यन्दुर्योधनमते स्थितः ॥

2.76.73

स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम ।
मनोरमां दर्शनीयामाशु कुर्वन्तुं शिल्पिनः ॥

2.76.74

ततः संस्तीर्य रत्नैस्तां तक्ष्ण आनाय्य सर्वशः ।
सुकृतां सुप्रवेशां च निवेदयत मेऽशनैः ॥

2.76.75

दूर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः ।
धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै ॥

2.76.76

अपृष्ट्वा विदुरं स्वस्यन नासीत्कश्चिद्विनिश्चयः ।
द्यूते दोषांश्च जानन्स पुत्रस्नेहादकृष्यत ॥

2.76.77

तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम् ।
विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् ॥

2.76.78

सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम् ।
मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् ॥
विदुर उवाच ।

2.76.79

नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो ।
पुत्रैर्भेदो यथा न स्थाद््द्यूतहेतोस्तथा कुरु ॥
धृतराष्ट्र उवाच ।

2.76.80

क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति ।
यदि देवाः प्रसादं नः करिष्यन्ति न संशयः ॥

2.76.81

अशुभं वा शुभं वापि हितं वा यदि वाऽहितम् ।

2.76.82

मयि सन्निहिते द्रोणे भीष्मे त्वयि च भारत ।
अनयो दैवविहितो न कथञ्चिद्भविष्यति ॥

2.76.83

गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे ।
खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् ॥

2.76.84

न वाच्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते ।
दैवमेव परं मन्ये येनैतदुपपद्यते ॥

2.76.85

इत्युक्तो विदुरो धीमान्नेदमस्तीति चिन्तयन् ।
आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुः खितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc