भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.70

2.70.1

ततो विष्फारयन्राजा महच्चैदिपतिर्धनुः ।
अभियास्यन्हृषीकेशमुवाच मधुसूदनम् ॥

2.70.2

एकस्त्वमसि मे शत्रुस्तत्त्वां हत्वाऽद्य माधव ।
ततः सागरपर्यन्तां पालयिष्यामि मेदिनीम् ॥

2.70.3

द्वैरथं काङ्क्षितं यद्वै तदिदं पर्युपस्थितम् । चिरस्य वत मे ----वासुदेव सह त्वया ।
अद्य त्वां निहनिष्यामि भीष्मं च सह पाण्डवैः ॥
वैशम्पायन उवाच ।

2.70.4

--- --

2.70.5

-- --

2.70.6

---- ---

2.70.7

---- ---

2.70.8

------ सुनीयं परवीरहा ॥ -----

2.70.9

अयं त्वं भामकस्तीक्ष्णश्चेदिराज महाशरः ।
भेत्तुमर्हति वेगेन महाशनिरिवाचलम् ॥
वैशम्पायन उवाच ।

2.70.10

एवं ब्रुवति गोविन्दे ततश्चेदिपतिः पुनः ।
मुमोच निशितानन्यान्कृष्णं प्रति शरान्बहून् ॥

2.70.11

अथ बाणार्दितः कृष्णः शार्ङ्गमायम्य दीप्तिमान् ।
मुमोच निशितान्बाणाञ्छतशोथ सहस्रशः ॥

2.70.12

ताञ्छरांस्तु स चिच्छेद शरवर्षैस्तु चेदिराट् ।
षड्भिश्चान्यैर्जघानाशु केशवं चेदिपुङ्गवः ॥

2.70.13

ततोऽस्रं सहसा कृष्णः प्रमुमोच जगद्गुरुः ।
अस्त्रेण तन्महाबाहुर्वारयामास चेदिराट् ॥

2.70.14

ततः शतसहस्रेण शराणां नतपर्वणाम् ।
सर्वतः समवाकीर्य शौरिं दामोदरं तदा ॥

2.70.15

ननाद बलवान्क्रुद्धः शिशुपालः प्रतापवान् ।
इदं चोवाच संरब्धः केशवं परवीरहा ॥
शिशुपाल उवाच ॥

2.70.16

अद्याङ्गं मामका बाणा भेत्स्यन्ति तव संयुगे ।
हत्वा त्वां समुतामात्यं पाण्डवांश्च तरस्विनः ॥

2.70.17

अनृण्यमद्यय यास्यामि जरासन्धस्य धीमतः ।
कंसस्य केशिनश्चैव नरकस्य तथैव ह ॥
वैशम्पायन उवाच ॥

2.70.18

इत्युक्त्वा क्रोधताम्राक्षः शिशुपालो जनार्दनम् ।
अदृश्यं शरवर्षेण सर्वतः स चकार ह ॥

2.70.19

ततोऽस्त्रेणैव चान्योन्यं निकृत्य च शरान्बहून् ।
शरवर्षैस्तदा चैद्यमन्तर्धातुं प्रचक्रमे ॥

2.70.20

अन्तर्धानगतौ वीरौ शुशुभाते महारथौ ।
तौ दृष्ट्वा सर्वभूतानि साधुसाध्वित्यपूजयन् ॥

2.70.21

न दृष्टपूर्वमस्माभिर्युद्धमीदृशकं पुरा ।
ततः कृष्णं जघानाशु शुशुपालस्त्रिभिः शरैः ॥

2.70.22

कृष्णोऽपि बाणैर्विव्याध सुनीथं पञ्चभिर्युधि । ततः सुनीथं सप्तत्या नाराचैर्दयद्बली ।

2.70.23

ततोऽतिविद्धः कृष्णेन सुनीथः क्रोधमूर्छितः ।
विव्याध निशितैर्बाणैर्वासुदेवं स्तनान्तरे ॥

2.70.24

पुनः कृष्णं त्रिभिर्विद्ध्वा ननादावसरे नृपः ।
ततोऽतिदारुणं युद्धं सहसा चक्रतुस्तदा ॥

2.70.25

नौ नखैरिव शार्दूलौ दन्तैरिव महागजौ ।
दंष्ट्राभिरिव पञ्चास्यौ चरणैरिव कुक्कुटौ ॥

2.70.26

दारयेतां शरैस्तीक्ष्णैरन्योन्यं युधि तावुभौ ।
ततो मुमुचतुः क्रुद्धौ शरवर्षमनुत्तमम् ॥

2.70.27

शरैरेव शराञ्छित्वा तावुभौ पुरुषर्षभौ ।
चक्रातेऽस्त्रमयं युद्धं घोरं तदतिमानुषम् ॥

2.70.28

आग्नेयमस्त्रं मुमुचे शिशुपालः प्रतापवान् ।
वारुणास्त्रेण तच्छ्रीघ्रं नाशयामास केशवः ॥

2.70.29

कौबेरमस्त्रं सहसा चेदिराट् प्रमुमोच ह । 2-70-29 कौबेरणैव सहसाऽनाशयत्तं जगत्प्रभुः ॥

2.70.30

याम्यमस्त्रं ततः क्रुद्धो मुमुचे कालमोहितः ।
याम्येनैवास्त्रयोगेन याम्यमस्त्रं व्यनाशयत् ॥

2.70.31

गान्धर्वेण च गान्धर्वं मानवं मानवेन च ।
वायव्येन च वायव्यं रौद्रं रौद्रेण चाभिभूः ॥

2.70.32

ऐन्द्रमैन्द्रेण भगवान्वैष्णवेन च वैष्णवम् ।
एवमस्त्राणि कुर्वाणौ युयुधाते महाबलौ ॥

2.70.33

ततो मायां विकुर्वाणो दमगोषसुतो बली ।
गदामुसलसंयुक्ताञ्छक्तितोमरसायकान् ॥

2.70.34

परश्वथमुसण्डीश्च ववर्ष युधि केशवम् ।
अमोघास्त्रेण भगवान्नाशयामास केशिहा ॥

2.70.35

शिलावर्षं महाघोरं ववर्ष युधि चेदिराट् ।
वज्रास्त्रेणाभिसङ्क्रुद्धश्चूर्णं तदकरोत्प्रभुः ॥

2.70.36

जलवर्षं ततो घोरं व्यस्̤अजच्चेदिपुङ्गवः ।
वायव्यास्त्रेण भगवान्व्याक्षिपच्छतशो हि तत् ॥

2.70.37

निहत्य सर्वमायां वै सुनीतस्य जनार्दनः ।
स मुहूर्तं चकाराशु द्वन्द्वयुद्धं महारथः ॥

2.70.38

स बाणयुद्धं कुर्वाणो भर्त्सयामास चेदिराट् ।
दमघोषसुतो धृष्टमुवाच यदुपुङ्गवम् ॥

2.70.39

अद्य कृष्णमकृष्णं तु कुर्वन्तु मम सायकाः ।
इत्येवमुक्त्वा दुष्टात्मा शरवर्षं जनार्दने ॥

2.70.40

मुमोच पुरुषव्याघ्रो घोरं वै चेदिपुङ्गवः ।
शरसन्ङ्कृत्तगात्रस्तु क्षणेन यदुनन्दनः ॥

2.70.41

रुधिरं परिसुस्राव मदं मत्त इव द्विपः ।
न यन्ता न रथो वापि न चाश्वाः पर्वतोपमाः ॥

2.70.42

दृश्यन्ते शरसञ्छन्नाः केशवस्य महात्मनः ।
केशवं तदवस्थं तु दृष्ट्वा भूतानि चक्रुशुः ॥

2.70.43

दारुकस्तु तदा प्राह कृष्णं यादवनन्दनम् ।
नेदृशो दृष्टपूर्वो हि सङ्ग्रामो वै पुरा मया ॥

2.70.44

स्थातव्यमिति तिष्ठामि त्वत्प्रभावेण माधव ।
अन्यथा न च मे प्राणा धरायेयुर्जनार्दन ॥

2.70.45

अतः सञ्चिन्त्य गोविन्द क्षिप्रमस्य वधं कुरु ।
एवमुक्तस्तु सूतेन केशवो वाक्यमब्रवीत् ॥

2.70.46

एष ह्यतिबलो दैत्यो हिरण्यकशिपुः पुरा ।
रिपुः सुराणामभवद्वरदानेन गर्वितः ॥

2.70.47

तथाऽसीद्रावणो नाम राक्षसो ह्यतिवीर्यवान् ।
तेनैव बलवीर्येण बलं नागणयन्मम ॥

2.70.48

अहं मृत्युश्च भविता काले काले दुरात्मनः ।
न भेतव्यं तथा सूत नैष कश्चिन्मयि स्थिते ॥

2.70.49

इत्येवमुक्त्वा भगवान्ननर्द गरुडध्वजः ।
पाञ्चजन्यं महाशङ्खं पूरयामास केशवः ॥

2.70.50

सम्मोहयित्वा भगवांश्चक्रं दिव्यं समाददे ।
चिच्छेद च सुनीथस्य शिरश्चक्रेण संयुगे ॥

2.70.51

स पपात महाबाहुर्वज्राहत इवाचलः ।
ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः ॥

2.70.52

उत्पतन्तं महाराज गगनादिव भास्करम् । ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् ।
ववन्दे तत्तदा तेजो विवेश च नराधिप ॥

2.70.53

तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः ।
यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् ॥

2.70.54

अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः ।
कृष्णेन निहते चैद्ये चचाल न वसुन्धरा ॥

2.70.55

ततः केचिन्महीपाला नाब्रुवंस्तत्र किञ्चन ।
अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् ॥

2.70.56

हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नमर्षिताः ।
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ॥

2.70.57

रहश्च केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः ।
केचिदेव सुसंरब्धा मध्यस्थास्त्वपरेऽभवन् ॥

2.70.58

प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः । ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः ।
शशंसुर्निर्वृताः सर्वे दृष्ट्वा कृष्णस्य विक्रमम् ॥

2.70.59

सदेवगन्धर्वगणा राजानो भुवि विश्रुताः ।
प्रणामं हि हृषीकेशे प्राकुर्वत महात्मनि ॥

2.70.60

ये त्वासुरगणाः पक्षाः सम्भूताः क्षत्रिया इह ।
ते निन्दन्ति हृषीकेशं दुरात्मानो गतायुषः ॥

2.70.61

प्रजापतिगणा ये तु मध्यस्थाश्च महात्मनि ।
ब्रह्मर्षयश्च सिद्धाश्च गन्धर्वोरगचारणाः ॥

2.70.62

ते वै स्तुवन्ति गोविन्दं दिव्यैर्मङ्गलसंयुतैः । परस्परं च नृत्यन्ति गीतेन विविधेन च ।
उपतिष्ठन्ति गोविन्दं प्रीतियुक्ता महात्मनि ॥

2.70.63

प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः ।
ब्राह्मणाश्चापि सुप्रीताः पाण्डवाश्च महाबलाः ॥

2.70.64

पाण्डवस्त्वब्रवीद्भातॄन्सत्कारेण महीपतिम् ।
दमघोषात्मजं शूरं संस्कारयत मा चिरम् ॥

2.70.65

कुरुराजवचः श्रुत्वा भ्रातरस्ते त्वरान्विताः ।
तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा ॥

2.70.66

चेदीनामाधिपत्ये च पुत्रं तस्याज्ञया हरेः ।
अभ्यषिञ्चत तं पार्थः सहितैर्वसुधाधिपैः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc