भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.52

2.52.1

यच्चके भगवान्विष्णुर्वसुदेवसुतस्तदा ।
तत्तेऽहं सम्प्रवक्ष्यामि शृणु स्रवमशेषतः ॥

2.52.2

वासुदेवस्य महात्म्यं चरितं च महात्मनः ।
हितार्थं सुरसर्त्यानां लोकानां च हिताय च ॥

2.52.3

यदा दिवि विभुस्तात न रेमे भगवानसौ ।
ततो व्यादिशय भूतानि विभुर्भूमिसुखावहः ॥

2.52.4

निग्रहार्थाय दैत्यानां चोदयामास वै तदा ।
मुरुतश्च वसूंश्चैव सूर्याचन्द्रमसावुभौ ॥

2.52.5

गन्धर्वाप्सरसश्चैव रुद्रादित्यांस्तथाऽश्विनौ ।
जायध्वं मानुषे लोके सर्वलोकमहेश्वराः ॥

2.52.6

जङ्गमानि विशालाक्षो ह्यात्मार्थमसृजत्प्रभुः ।
जायन्तामिति गोविन्दस्तिर्यग्योनिगतैः सह ॥

2.52.7

तानि सर्वाणि सर्वज्ञो व्यजायत यदोः कुले । आत्मानमात्मना तात कृत्वा बहुविधं हरिः ।
रत्यर्थमिह गास्तत्र ररक्ष पुरुषोत्तमः ।

2.52.8

अजातशत्रो जातस्तु यथेष्ट भुवि भूमिप ।
कीर्त्यमानं मया तात निबोध भरतर्षभ ॥

2.52.9

सागराः समकम्पन्त मुदा चेलुश्च पर्वताः ।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥

2.52.10

शिवाः सम्प्रववुर्वाताः प्रशान्तमभवद्रजः ।
ज्योतींषि सम्प्रकाशन्त जायमाने जनार्दने ॥

2.52.11

देवदुन्दुभयश्चापि सस्वनुर्भृशमम्बरे ।
अभ्यवर्षंस्तदाऽगम्य देवताः पुष्पवृष्टिभिः ॥

2.52.12

गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्वै मधुसदनम् ।
उपतस्थुस्तदा प्रीताः प्रादुर्भावे महर्षयः ॥

2.52.13

ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन् ।
उपानृत्यन्नुपजगुर्गन्धर्वाप्सरसां गणाः ॥

2.52.14

उपतस्थे च गोविन्दं सहस्राक्षः शचीपतिः ।
अभ्यभाषत तेजस्वी महर्षीन्पूजयंस्तदा ॥

2.52.15

कृत्वा च देवकार्याणि कृत्वा देवहितानि च ।
खं लोकं लोककृद्देवः पुनर्गच्छति तेजसा ॥

2.52.16

इत्युक्त्वा ऋषिभिः सार्घं जगाम त्रिदिवं पुनः ।
अभ्यनुज्ञाय तान्सर्वाञ्छादयन्प्रकृतिं पराम् ॥

2.52.17

नन्दगोपकुले कृष्ण उवास बहुलाः समाः ।
ततः कदाचित्सुप्तं तं शकटस्य त्वधः शिशुम् ॥

2.52.18

यशोदा सम्परित्यज्य जगाम यमुनां नदीम् ।
शिशुलीलां ततः कुर्वन्स्वहस्तचरणौ क्षिपन् ॥

2.52.19

रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन् ।
पादाङ्गुष्ठेन शकटं दारयन्नथ केशवः ॥

2.52.20

तत्र एकेन पादेन पातयित्वा तथा शिशुः ।
न्युब्जं पयोधराकाङ्क्षी ससार च रुरोद च ॥

2.52.21

पाटितं शकटं दृष्ट्वा भिन्नभाण्डपुटीकटम् ।
जनास्ते शिशुना तेन विस्मयं परमं ययुः ॥

2.52.22

प्रत्यक्षं शूरसेनानां दृश्यते महदद्भुतम् ।
शयानेन हतः कंसपक्षवांस्तिग्मतेजसा ॥

2.52.23

पूतना चापि निहता महाकाया महास्तनी ।
ततः काले महाराज संसक्तौ रामकेशवौ ॥

2.52.24

कृष्णः सङ्कर्षणश्चोभौ रिङ्खिणौ च बभूवतुः ।
अन्योन्यकिरणाक्रान्तौ चन्द्रसूर्याविवाम्बरे ॥

2.52.25

विसर्पन्तौ च सर्वत्र महासर्पभुजौ तदा ।
रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप ॥

2.52.26

क्वचिच्च जानुभिः स्पृष्टौ क्रीडमानौ क्वचिद्वने ।
पिबन्तौ दधिकुल्यांश्च मथ्यमाने च भारत ॥

2.52.27

ततः स बालो गोविन्दो नवनीतं तदा क्षयम् ।
ग्रासमानस्तु तत्रायं गोपीभिर्ददृशे तथा ॥

2.52.28

दाम्नाऽथोलूखले कृष्णो गोपीभिश्च निबन्धितः ।
तत्तथा शिशुना तेन कर्षता चार्जुनावृभौ ॥

2.52.29

समूलविटपौ भग्नौ तदद्भुतमिवाभवत् ।
ततस्तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ ॥

2.52.30

तस्मिन्नेव व्रजस्थाने सप्तवर्षै बभूवतुः ।
नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ ॥

2.52.31

बभुवतुर्वत्सपालौ काकपक्षधरावुभौ ।
पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ ॥

2.52.32

शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ ।
मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ ॥

2.52.33

वनमालापरिक्षिप्तौ सालपोताविवोद्गतौ ।
अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ ॥

2.52.34

सशिक्यतुम्बुरुकरौ गोपवेणुप्रवादकौ ।
क्वचिद्वसन्तावन्योन्यं क्रडमानौ क्वचिद्वने ॥

2.52.35

पर्णशय्यासु तौ सुप्तौ क्वचिन्निद्रान्तरैषिणौ ।
तौ वत्सान्पालयन्तौ हि शोभयन्तौ महद्वनम् ॥

2.52.36

चञ्चूर्यन्तौ रमन्तौ च राजन्नेवं तदा शुभम् । ततो बृन्दावनं गत्वा वसुदेवसुतावुभौ ।
गोकुलं तत्र कौन्येय चारयन्तौ विजह्रतुः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc