भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.50

2.50.1

शृणु राजंस्ततो विष्णोः प्रादुर्भावं महात्मनः ।
अष्टाविंशे युगे चापि मार्कण्डेयपुरः सरः ॥

2.50.2

तिथौ नावमिके जज्ञे तथा दशरथादपि ।
कृत्वाऽत्मानं महाबाहुश्चतुर्धा विष्णुरव्ययः ॥

2.50.3

लोके राम इति ख्यातस्तेजसा भास्करोपमः ।
प्रसादनार्थं लोकस्य विष्णुस्तत्र सनातनः ॥

2.50.4

धर्मार्थमेव कौन्तेय जज्ञे तत्र महायशाः ।
तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् ॥

2.50.5

यज्ञविघ्नकरस्तत्र विश्वामित्रस्य भारत ।
सुबाहुर्निहतस्तेन मारीचस्ताडितो भृशम् ॥

2.50.6

तस्मै दत्तानि चास्राणि विश्वमित्रेण धीमता ।
वधार्थं सर्वशत्रूणां दुर्वाराणि सुरैरपि ॥

2.50.7

वर्तमाने महायज्ञे जनकस्य महात्मनः ।
भग्नं माहेश्वरं चापं क्रीडता लीलया भृशम् ॥

2.50.8

ततस्तु सीतां जग्राह भार्यार्थे जानकीं विभुः ।
नगरीं पुनरासाद्य मुमुदे तत्र सीतया ॥

2.50.9

कस्यचित्त्वथ कालस्य पित्रा तत्राभिचोदितः ।
कैकेय्याः प्रियमन्विच्छन्वनमभ्यवपद्यत ॥

2.50.10

यः समाः सर्वधर्मज्ञश्चतुर्दश वने वसन ।
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ॥

2.50.11

चतुर्दश वने तीर्त्वा तदा वर्षाणि भारत ।
रूपिणी यस्य पार्श्वस्था सीतेत्यभिहिता जनैः ॥

2.50.12

पूर्वोचितत्वात्सा लक्ष्मीर्भर्तारमनुशोचति ।
जनस्थाने वसन्कार्यं त्रिदशानां चकार सः ॥

2.50.13

मारीचं दूषणं हुत्वा खरं त्रिशिरसं तथा ।
चतुर्दश सहस्राणि रक्षसां घोरकर्मणाम् ॥

2.50.14

जघान रामो धर्मात्मा प्रजानां हितकाम्यय ।
विराधं च कबन्धं च राक्षसौ घोरकर्मिणौ ॥

2.50.15

जघान च तदा रामो गन्धर्वौ शाषविक्षतौ ।
स रावणस्य भगिनीनासाच्छेदमकारयत् ॥

2.50.16

भार्यावियोगं तं प्राप्य मृगयन्व्यचरद्वनम् ।
स तस्मादृश्यमूकं तु गत्वा पम्पामतीत्य च ॥

2.50.17

सुग्रीवं मारुतिं दृष्ट्वा चक्रे मैत्रीं तयोः स वै ।
अथ गत्वा स किष्किन्धां सुग्रीवेण तदा सह ॥

2.50.18

निहत्य वालिनं युद्धे वानरेद्रं महाबलम् ।
अभ्यपिञ्चत्तदा रामः सुग्रीवं वानरेश्वरम् ॥

2.50.19

ततः स वीर्यवान्राजंस्त्वरया वै समुत्सुकः ।
विचित्य वायुपुत्रेण लङ्कादेशं निवेदितः ॥

2.50.20

मेतुं वद्ध्वा समुद्रस्य वानरैः स समुत्सुकः ।
सीतायाः पदमन्विच्छन्रामो लङ्कां विवेश वै ॥

2.50.21

देवोरगगणानां हि यक्षराक्षसपक्षिणाम् ।
तत्रावद्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् ॥

2.50.22

युक्तं राक्षसकोटीभिर्भिन्नाञ्जनचयोपमम् ।
दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ॥

2.50.23

जघान सचिवैः सार्धं सान्वयं रावणं रणे ॥

2.50.24

त्रैलोक्यकण्टकं वीरं महाकायं महाबलम् ।
रावमं सगणं हत्वा रामो भूतपतिः पुरा ॥

2.50.25

लङ्कायां तं महात्मानं राक्षसेन्द्रं विभीषणम् ।
अभिषिच्य ततो राम अमरत्वं ददौ तदा ॥

2.50.26

आरुह्य पुष्पकं रामः सीतामादाय पाण्डव ।
सबलं स्वपुरं गत्वा धर्मराज्यमपालयत् ॥

2.50.27

दानवो लवणो नाम मधोः पुत्रो महाबलः ।
शत्रुघ्नेन हतो राजंस्तदा रामस्य शासनात् ॥

2.50.28

एवं बहूनि कर्माणि कृत्वा लोकहिताय सः ।
राजं चकार विधिवद्रामो धर्मभृतां वरः ॥

2.50.29

शताश्वमेधानाजह्रे ज्योतिरुक्थ्यान्निरर्गलान् । नाश्रूयन्ताशुभा वाचो नात्ययः प्राणिनां तदा ।

2.50.30

न दस्युजं भयं चासीद्रामे राज्यं प्रशसति ।
ऋषीणां देवतानां च मनुष्याणां तथैव च ॥

2.50.31

पृथिव्यां धार्मिकाः सर्वे रामे राज्यं प्रशासति ।
नाधर्मिष्ठो नरः कश्चिद्बभूव प्राणिनां क्वचित् ॥

2.50.32

प्राणापानौ समौ ह्यास्तां रामे राज्यं प्रशासति ।
गाधामप्यत्र गायन्ति ये पुराणविदो जनाः ॥

2.50.33

श्यामो युवा लोहिताक्षो मातङ्गानामिवर्षभः ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाबलः ॥

2.50.34

दशवर्षसहस्राणि दशवर्षशतानि च ।
राज्यं भोगं च सम्प्राप्य शशास पृथिवीमिमाम् ॥

2.50.35

रामो रामो राम इति प्राजानामभवन्कथाः ।
रामभूतं जगदिदं रामे राज्यं प्रशासति ॥

2.50.36

ऋग्यजुः सामहीनाश्च न तदाऽसन्द्विजायः ।
उषित्वा दण्डके कार्यं त्रिदशानां चकार सः ॥

2.50.37

पूर्वापकारिणं तं तु पौलस्त्यं मनुजर्षभम् ।
देवगन्धर्वनागानामरिं स निजघानह ॥

2.50.38

सत्ववान्गुणसम्पन्नो दीप्यमानः स्वतेजसा ।
एवमेव महाबाहुरिक्ष्वाकुकुलवर्धनः ॥

2.50.39

रावणं सगणं हत्वा दिवमाक्रमताभिभूः ।
इति दाशरथेः ख्यातः प्रादुर्भावो महात्मनः ॥

2.50.40

ततः कृष्णो महाबाहुर्भीतानामभयङ्करः ।
अष्टाविंशे युगे राजञ्जज्ञे श्रीवत्सलक्षणः ॥

2.50.41

पेशलश्च वदान्यश्चलोके बहुमतो नृषु ।
स्मृतिमान्देशकालज्ञः शङ्खचक्रगदासिभृत् ॥

2.50.42

वासुदेव इति ख्यातो लोकानां हितकृत्सदा ।
वृष्णीनां च कुले जातो भूमेः प्रियचिकीर्षया ॥

2.50.43

शत्रूणां भयकृद्दाता मधुहेति स विश्रुतः ।
शकटार्जुनरामाणां कीलस्थानान्यसूदयत् ॥

2.50.44

कंसादीन्निजघानाजौ दैत्यान्मानुषविग्रहान् ।
अयं लोकहितार्थाय प्रादुर्भावो महात्मनः ॥

2.50.45

कल्की विष्णुयशा नाम भूयश्चोत्पत्स्यते हरिः ।
लेर्युगान्ते सम्प्राप्ते धर्मे शिथिलतां गते ॥

2.50.46

पाषण्डिनां गणानां हि वधार्थं भरतर्षभ ।
धर्मस्य च विवृद्ध्यर्थं विप्राणां हितकाम्यया ॥

2.50.47

एते चान्ये च बहवो विष्णोर्देवगणैर्युताः ।
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc