भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.48

2.48.1

विष्णोः पुनर्महाभागः प्रादुर्भावो महात्मनः ।
दत्तात्रेय इति ख्यात ऋषिरासीन्महायशाः ॥

2.48.2

तेन नष्टेषु वेदेषु क्रियासु च मखेषु च ।
चातुर्वर्ण्ये च सङ्कीर्णे धर्मे शिथिलतां गते ॥

2.48.3

अभवर्धति चाधर्मे सत्ये नष्टे स्थितेऽनृते ।
प्रजासु क्षीयमाणासु धर्मे चामूलतां पते ॥

2.48.4

सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै ।
चातुर्वर्ण्यमसङ्कीर्णं कृतं तेन महात्मना ॥

2.48.5

स एव वै यदा प्रादाद्धैहयाधिपतेर्वरम् ।
तं हैहयानामधिपस्त्वर्जुनोऽभिप्रसादयन् ॥

2.48.6

वनं पर्यचरन्सम्यक्छुश्रूषुरनुसूयकः ।
निर्ममो निरहङ्कारो दीर्घकालमतोषयत् ॥

2.48.7

आराध्य दत्तात्रेयं हि अगृङ्णात्स वरानिमान् ।
आप्तादाप्ततरान्विप्राद्विद्वान्विद्वन्निषेवितात् ॥

2.48.8

ऋतेऽमरत्वं विप्रेण दत्तात्रेयेण धीमता ।
वरैश्चतुर्भिः प्रवृत इमान्वव्रे वरान्नृपः ॥

2.48.9

श्रीमान्मनस्वी बलवान्सत्यवागनसूयकः ।
सहस्रबाहुर्भूयासमेषु मे प्रथमो वरः ॥

2.48.10

जरायुजाण्डजं सर्वं सर्वं चैव चराचरम् ।
शास्तुमिच्छामि धर्मेण द्वितीयस्त्वेष मे वरः ॥

2.48.11

पितृन्देवानृषीन्विप्रान्यजेयं विपुलैर्मखैः ।
अमित्रांश्च शितैर्बाणैस्तृतीयो व्रर एष मे ॥

2.48.12

यस्य नासीन्न भविता न चास्ति सदृशः पुमान् ।
इह वा दिवि वा लोके स मे हन्ता भवेदिति ॥

2.48.13

सोऽर्जुनः कृतवीर्यस्य वरः पुत्रोऽभवद्युधि ।
स सहस्रं सहस्राणां माहिष्मत्यामवर्धत ॥

2.48.14

स भूमिमखिलां जित्वा द्वीपांश्चापि समुद्रिणः ।
नभसीवाज्वलत्सूर्यः पुण्यैः कर्मभिर्जुनः ॥

2.48.15

इन्द्रद्वीपं कशेरुं च कामद्वीपं गभस्तितम् ।
गन्धर्ववरुणद्वीपं सौहृष्टममितप्रभः ॥

2.48.16

पूर्वैरजितपूर्वांश्च द्वीपनजयदर्जुनः ।
इदं तु कार्तवीर्यस्य बभूवासदृशं जनैः ॥

2.48.17

न पूर्वे नापरे तस्य गमिष्यन्ति गतिं नृपाः ।
यदर्णवे प्रयातस्य वस्त्रं न परिषिच्यते ॥

2.48.18

सौवर्णं सर्वमप्यासीद्विमानवरमुत्तमम् ।
चतुर्धा व्यभजद्राष्ट्रं तद्विभज्यान्वपालयत् ॥

2.48.19

एकांशेनाहरत्सेनामेकांशेनावसद्गृहान् ।
यस्तु तस्य तृतीयांशो राज्ञोऽभूज्जनसङ्ग्रहे ॥

2.48.20

आप्तः परमकल्याणस्तेन यज्ञानकल्पयत् ।
ये दस्यवो ग्रामचरा अरम्ये च वसन्ति ये ॥

2.48.21

चतुर्थेन तु सोंऽशेन तान्सर्वान्प्रत्यषेधयत् ।
द्वाराणि नापिधीयन्ते पुरेषु नगरेषु च ॥

2.48.22

स एव राष्ट्रपालोऽभूत्स्रीपालोऽभवदर्जुनः ।
स ----- सः गोपालो विशाम्पते ॥

2.48.23

शतं वर्षसहस्राणामनुशिष्यार्जुनो महीम् ।
दत्तात्रेयप्रसादेन एवं राज्यं चकार सः ॥

2.48.24

एवं बहूनि कर्माणि चक्रे लोकहिताय सः ॥ दत्तात्रेय इति ख्यातः प्रादुर्भावो ह्ययं हरेः ।
कथितो भरतश्रेष्ट शृणु भूयो महात्मनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc