भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.46

2.46.1

दैत्येन्द्रो बलवान्त्राजन्सुरारिर्बलगर्वितः ।
हिरण्यकशिपुर्नाम आसीत्रैलोक्यकण्टकः ॥

2.46.2

दैत्यानामादिपुरुषो वीर्येणाप्रतिमो बली ।
प्रविश्य जलधं राजंश्चकार तप उत्तमम् ॥

2.46.3

दशवर्षसहस्राणि शतानि दश पञ्च च ।
व्रतोपवासतस्तस्थौ स्याणुमौनव्रतो दृढः ॥

2.46.4

ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ ।
ब्रह्मा प्रीतमनास्तस्य तपसा नियमेन च ॥

2.46.5

ततः स्वयम्भूर्भगवान्स्वयमागम्य भूपते ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥

2.46.6

आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्तथा ।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥

2.46.7

दिशाभिर्विदिशाभिश्च नदीभिः सागरैः सह ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्चापरैर्ग्रहैः ॥

2.46.8

देवर्षिभिस्तपोयुक्तैः सिद्धैः सप्तर्षिभिस्तदा ।
राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥

2.46.9

चराचरगुरुः श्रीमान्वृतः सर्वसुरैस्तथा ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यमागम्य चाब्रवीत् ॥

2.46.10

प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥
हिरण्यकशिपुरुवाच ।

2.46.11

न देवा न च गन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम ॥

2.46.12

ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह ।
शपेयुस्तपसा युक्ता वर एष वृतो मया ॥

2.46.13

न शस्त्रेण नचास्त्रेण गिरिणा पादपेन च ।
न शुष्केण न चार्देण स्यान्न वाऽन्येन मे वधः ॥

2.46.14

नाकाशे नाथ भूमौ वा रात्रौ वा दिवसेपि वा ।
नान्तर्वा न बहिर्वापि स्याद्वधो मे पितामह ॥

2.46.15

पशुभिर्वा मृगैर्न स्यात्पक्षिभिर्वा सरीसृपैः । ददासि ------------------ ।
ब्रह्मोवाच ।

2.46.16

एते दिव्या--------------- ।
सर्वकामवरां--------------- ॥

2.46.17

एवमुक्त्वा स ------------हि ।
रराज ब्रह्मलोके ------------ ॥

2.46.18

ततो देवाश्च ------------- ।
वरप्रदानं श्रुत्वै------------- ॥
देवा ऊचुः ।

2.46.19

वरेणाने भग-------------- ।
तत्प्रसीदस्व भगवन्वधोपायोऽस्य चिन्त्यताम् ॥
भीष्म उवाच ॥

2.46.20

ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
प्रोवाच भगवान्वाक्यं सर्वदेवगणांस्तदा ॥

2.46.21

अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्तेऽस्य भगवान्वधं कृष्णः करिष्यति ॥

2.46.22

एतच्छ्रुत्वा सुराः सर्वे ब्रह्मणा तस्य वै वधम् ।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥

2.46.23

लब्धमात्रे वरे चापि सर्वास्ता बाधते प्रजाः ।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥

2.46.24

राज्यं चकार दैत्येन्द्रो दैत्यसङ्घैः समावृतः ।
सप्तद्वीपान्वशेचके लोकालोकान्तरं बलात् ॥

2.46.25

दिव्यभोगान्समस्तान्वै लोके सर्वानवाप सः ।
देवांस्त्रिभुवनस्थांस्तु पराजित्य महासुरः ॥

2.46.26

त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ।
यदा वरमदोन्मत्तो न्यवसद्दानवो दिवि ॥

2.46.27

अथ लोकान्सगस्तांश्च विजित्य स महाबलः ।
भवेयमहमेवेन्द्रः सोमोऽग्निर्मारुतो रविः ॥

2.46.28

सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ।
अहं क्रोधश्च कामश्च वरुणो वसवोऽर्यमा ॥

2.46.29

धनदश्च धनाध्यक्षो यक्षकिम्पुरुषाधिपः ।
एते भवेयमित्युक्त्वा स्वयं भूत्वा बलात्स च ॥

2.46.30

एषां गृहीत्वा स्थानानि तेषां कार्याण्यवाप सः ।
इज्यश्चासीन्मखवरैर्देवकिन्नरसत्तमैः ॥

2.46.31

नरकस्थान्समानीय स्वर्गस्थांश्च चकार सः ।
एवमादीनि कर्माणि कृत्वा दैत्यपतिर्बली ॥

2.46.32

आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान् ।
सत्यधर्मपरान्दान्तान्पुरा धर्षितवांस्तु सः ॥

2.46.33

याज्ञीयान्कृतबान्दैत्यन्याजकांश्चैव देवताः ।
यत्रयत्र सुरा जग्मुस्तत्रतत्र व्रजत्युत ॥

2.46.34

स्थानानि देवतानां तु हृत्वा राज्यमकारयत् ।
पञ्चकोट्यश्च वर्षाणि अयुतान्येकषष्टि च ॥

2.46.35

षष्टिश्चैव सहस्राणां जग्मुस्तस्य दुरात्मनः ।
एतद्वर्षं स दैत्येन्द्रो भोगैश्चर्यमवाप सः ॥

2.46.36

तेनातिबाध्यमानास्ते दैत्येन्द्रेण बलीयसा ।
ब्रह्मलोकं सुरा जग्मुः शर्वशक्रपुरोगमाः ॥

2.46.37

पितामहं समासाद्य खिन्नाः प्राञ्जलयोऽब्रुवन् ॥
देवा ऊचुः ।

2.46.38

भगवन्भूतभव्येश नस्त्रायस्व इहागतान् ।
भयं दितिसुताद्घोराद्भवत्यद्य दिवानिशम् ॥

2.46.39

भगवन्सर्वदैत्यानां स्वयम्भूरादिकृत्प्रभुः ।
स्रष्टा त्वं हव्यकव्यानामव्यक्तः प्रकृतिर्ध्रुवः ॥
ब्रह्मोवाच ।

2.46.40

श्रूयतामापदेवं हि दुर्विज्ञेया मयापि च ।
नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः ॥

2.46.41

अव्यक्तः सर्वभूतानामचिन्त्यो विभुरव्ययः ।
ममापि स तु युष्माकं व्यसने परमा गतिः ॥

2.46.42

नारायणः परोऽव्यक्तादहमव्यक्तसम्भवः ।
मत्तो जज्ञुः प्रजा लोकाः सर्वे देवासुराश्च ते ॥

2.46.43

देवा यथाहं युष्माकं तथा नारायणो मम ।
पितामहोऽहं सर्वस्य स विष्णुः प्रपितामहः ॥

2.46.44

निश्चितं विषुधा दैत्यं स विष्णुस्तं हनिष्यति ।
तस्य नास्ति न शक्यं च तस्माद्व्रजत माचिरम् ॥
भीष्म उवाच ॥

2.46.45

पितामहवचः श्रुत्वा सर्वे ते भरतर्षभ ।
विबुधा ब्रह्मणा सार्धं जग्मुः क्षीरोदधिं प्रति ॥

2.46.46

आदित्या वसवः साध्या विश्वे च मरुतस्तथा ।
रुद्रा महर्षयश्चैव अश्विनौ च सुरूपिणौ ॥

2.46.47

अन्ये च दिव्या ये राजंस्ते सर्वे सगणाः सुराः ।
चतुर्मुखं पुरस्कृत्य श्वेतद्वीपमुपागताः ॥
देवा ऊचुः ।

2.46.48

त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् ।
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ॥

2.46.49

उत्फुल्लाम्बुजपत्राक्ष शत्रुपक्षभयङ्कर ।
क्षयाय दितिवंशस्य शरणं त्वं भविष्यसि ॥
भीष्ण उवाच ॥

2.46.50

तद्देवानां वचः श्रुत्वा तदा विष्णुः शुचिश्रवाः ।
अदृश्यः सर्वभूतात्मा वक्तुमेवोपचक्रमे ॥
विष्णुरुवाच ॥

2.46.51

भयं त्यजध्वममरा अभयं वो ददाम्यहम् ।
तदेव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ॥

2.46.52

एषोऽहं सगणं दैत्यं वरदानेन दर्पितम् । अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ 2-46-53 ब्रह्मोवाच ॥

2.46.53

भहवन्देवदेवेश खिन्ना एते भृशं सुराः । तस्मात्त्वं जहि दैत्येन्द्रं क्षिप्रं कालोऽस्य माचिरम् ।
एष त्वं सगणं दैत्यं वरदानेन दर्पितम् ॥
विष्णुरुवाच ॥

2.46.54

क्षिप्रमेव करिष्यामि त्वरया दैत्यनाशनम् ।
तस्मात्त्वं विबुधाश्चैव प्रतिपद्यत वै दिवम् ॥
भीष्म उवाच ॥

2.46.55

एवमुक्त्वा तु भगवान्विसृज्य त्रिदिवेश्वरान् ।
नरस्यार्धतनुर्भूत्वा सिंहस्यार्धतनुः पुनः ॥

2.46.56

नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ।
भीमरूपो महातेजा व्यादितास्य इवान्तकः ॥

2.46.57

हिरण्यकशिपुं राजञ्जगाम हरिरीश्वरः ।
दैत्यास्तमागतं दृष्ट्वा नारसिंहं महाबलम् ॥

2.46.58

ववर्षुः शस्त्रवर्षैस्ते सुसङ्क्रुद्धास्तदा हरिम् ।
तैः सृष्टसर्वशस्त्राणि भक्षयामास वै हरिः ॥

2.46.59

जघान न रणे दैत्यान्सहस्राणि बहूनि च ।
तान्निहत्य च दैतेयान्सर्वान्क्रुद्धान्महाबलान् ॥

2.46.60

अभ्यधावत्सुसङ्क्रुद्धो दैत्येन्द्रं बलगर्वितम् ।
जीमूतघनसङ्काशो जीमूतघननिस्वनः ॥

2.46.61

जीमूत इव दीप्तौजा जीमूत इव वेगवान् ।
दैत्यं सोऽतिबलं दृप्तं दृप्तशार्दूलविक्रमम् ॥

2.46.62

दृप्तैर्दैत्यगणैर्गुप्तं खरैर्नखमुकैरुत ।
ततः कृत्वा तु युद्धं वै तेन दैत्येन वै हरिः ॥

2.46.63

सन्ध्याकाले महातेजा भवनान्ते त्वरान्वितः ।
ऊरौ निधाय दैत्येन्द्रं निर्बिभेद नखैस्तदा ॥

2.46.64

महाबलं महावीर्यं वरदानेन गर्वितम् ।
दैत्यश्रेष्ठं सुरश्रेष्ठो जघान तरसा हरिः ॥

2.46.65

हिरण्यकशिपुं हत्वा सर्वदैत्यांश्च वै तदा ।
विबुधानां प्रजानां च हितं कृत्वा महाद्युतिः ॥

2.46.66

प्रमुमोद हरिर्देवः प्राप्य धर्मं तदा भुवि । एष ते नारसिंहोऽत्र कथितः पाण्डुनन्दन ।

2.46.67

शृणु त्वं वामनं नाम प्रादुर्भावं महात्मनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc