भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.42

2.42.1

गाङ्गेयेनैवमुक्तस्तु शिशुपालश्चुकोप तम् ।
क्रुद्धं सुनीथं दृष्ट्वाऽथ सहदेवोऽब्रवीत्तदा ॥

2.42.2

मतिपूर्वमिदं सर्वं चेदिराज मया कृतम् ।
तन्मे निगदतस्तत्त्वं कारणादत्र मे शृणु ॥

2.42.3

स पार्थिवानां सर्वेषां गुरुः कृष्णोऽपरो न हि ।
तस्मादभ्यर्चितोऽस्माभिः सर्वे सम्मन्तुमर्हथ ॥

2.42.4

यो वा सहते कश्चिद्राज्ञां सबलवाहनः ।
क्षिप्रं युद्धाय निर्यातु तस्य मूर्ध्न्याहितं पदम् ॥

2.42.5

एवमुक्तो मया हेतुरुत्तरं प्रब्रवीतु मे ।
वैशम्पायन उवाच ॥
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् ॥

2.42.6

मानिनां बलिनां राज्ञां मध्ये सन्दर्शिते पदे ।
एवमुक्ते सुनीथस्य सहदेवेन केशवे ॥

2.42.7

स्वभावरक्ते नयने कोपाद्रक्ततरे कृते ।
तस्य कोपं समुद्भूतं ज्ञात्वा भीष्मः प्रतापवान् ॥

2.42.8

आचचक्षे पुनस्तस्मै कृष्णस्यैवोत्तरान्गुणान् ।
स सुनीथं समामन्त्र्य तांश्च सर्वान्महीक्षितः ॥

2.42.9

उवाच वदतां श्रेष्ठं इदं मतिमतां वरः । सहदेवेन राजानो यदुक्तं केशवं प्रति ।
तत्तथेति विजानीध्वं भूयश्चात्र विबोधत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc