भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.39

2.39.1

ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह ।
अन्तर्वेदीं प्रविविशुः सत्कारार्हा महर्षयः ॥

2.39.2

नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः ।
समासीनाः शुशुभिरे सहराजर्षिभिस्तदा ॥

2.39.3

समेता ब्रह्मभवने देवा देवर्षयस्तथा ।
कर्मान्तरमुपासन्तो जजल्पुरमितौजसः ॥

2.39.4

एवमेतन्न चाप्येवमेवं चैतन्न चान्यथा ।
इत्यूचुर्बहवस्तत्र वितण्डां वै परस्परम् ॥

2.39.5

कृशानर्थांस्ततः केचिदकृशांस्तत्र कुर्वते ।
अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चयैः ॥

2.39.6

तत्र मेधाविनः केचिदर्थमन्यैरुदीरितम् ।
विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् ॥

2.39.7

केचिद्धर्मार्थकुशलाः केचित्तत्र महाव्रताः ।
रेमिरे कथयन्तश्च सर्वभाष्यविदां वराः ॥

2.39.8

सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः ।
आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवायता ॥

2.39.9

न तस्यां सन्निधौ शूद्रः कश्चिदासीन्न चाव्रती ।
अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने ॥

2.39.10

तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् ।
तुतोष नारदः पश्यन्धर्मराजस्य धीमतः ॥

2.39.11

अथ चिन्तां समापेदे स मुनिर्मनुजाधिप ।
नारदस्तु तदा पश्यन्सर्वक्षत्रसमागमम् ॥

2.39.12

सस्मार च पुरावृत्तां कथां तां पुरुषर्षभ ।
अंशावतरणे याऽसौ ब्रह्मणो भवनेऽभवत् ॥

2.39.13

देवानां सङ्गमं तं तु विज्ञाय कुरुनन्दन ।
नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् ॥

2.39.14

साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः ।
प्रतिज्ञां पालयंश्चेमां जातः परपुरञ्जयः ॥

2.39.15

सन्दिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम् ।
अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ ॥

2.39.16

इति नारायणः शम्भुर्भगवान्भूतभावनः ।
आदिश्य विबुधान्सर्वानजायत यदुक्षये ॥

2.39.17

क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः ।
परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् ॥

2.39.18

यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते ।
सोयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः ॥

2.39.19

अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम् ।
आदास्यति पुनः क्षत्रमेवं बलसमन्वितम् ॥

2.39.20

इत्येतां नारदश्चिन्तां चिन्तयामास सर्ववित् ।
हरिं नारायणं ज्ञात्वा यज्ञैरीज्यं तमीश्वरम् ॥

2.39.21

तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः ।
महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः ॥

2.39.22

ततः समुदिता मुख्यैर्गुणैर्गुणवतां वराः ।
बहवो भावितात्मानः पृथक्पृथगरिन्दमाः ॥

2.39.23

आत्मकृत्यमिति ज्ञात्वा पाञ्चालास्तत्र सर्वशः ।
समीयुर्वृष्णयश्चैव तदाऽनीकाग्रहारिणः ॥

2.39.24

सदाराः सजनामात्या वहन्तो रत्नसञ्चयान् ।
विकृष्टत्वाच्च देशस्य गुरुभारतया च ते ॥

2.39.25

ययुः प्रमुदिताः पश्चाद्भगवन्तं समन्वयुः ।
बलशेषं समुदितं परिगृह्य समन्ततः ॥

2.39.26

अजश्चक्रायुधः शौरिरमित्रगणमर्दनः ।
बलाधिकारे निक्षिप्य सम्मान्यानकदुन्दुभिम् ॥

2.39.27

सम्प्रायाद्यादवश्रेष्ठो जयमाने युधिष्ठिरे ।
उच्चावचमुपादाय धर्मराजाय माधवः ॥

2.39.28

धनौघं पुरतः कृत्वा खाण्डवप्रस्थमाययौ ।
तत्र यज्ञगतान्पश्यंश्चैद्यवर्गसमागतान् ॥

2.39.29

भूमिपालगणान्सर्वान्सप्रभानिव तोयदान् ।
मेघकायान्निवसतो यूथपानिव यूथपः ॥

2.39.30

बलिनः सिंहसङ्काशान्महीमावृत्य तिष्ठतः ।
ततो जनौघसम्बाधं राजसागरमव्ययम् ॥

2.39.31

नादयन्रथघोषेण ह्युपायान्मधुसूदनः ।
असूर्यमिव सूर्येण निवातमिव वायुना ॥

2.39.32

कृष्णेन समुपेतेन जहर्षे भारतं पुरम् ।
ब्राह्मणक्षत्रियाणां तु पूजार्थं ह्यर्थधर्मवित् ॥

2.39.33

सहदेवो विशेषज्ञो माद्रीपुत्रः कृतोऽभवत् ।
भगवन्तं तु भूतानां भास्वन्तमिव तेजसा ॥

2.39.34

विशन्तं यज्ञभूमिं तां सितस्यावरजं प्रभुम् ।
तेजोराशिमृषिं विप्रमदृश्यं वै विजानताम् ॥

2.39.35

वयोधिकानां वृद्धानां मार्गमात्मनि तिष्ठताम् ।
जगतस्तस्थुषश्चैव प्रभवाप्ययमच्युतम् ॥

2.39.36

अनन्तमन्तं शत्रूणाममित्रगणमर्दनम् ।
प्रभवं सर्वभूतानामापत्स्वभयमच्युतम् ॥

2.39.37

भविष्यं भावनं भूतं द्वारवत्यामरिन्दमम् ।
स दृष्ट्वा कृष्णमायान्तं प्रतिपूज्यामितौजसम् ॥

2.39.38

यथार्हं केशवे वृत्तिं प्रत्यपद्यत पाण्डवः ।
ज्यैष्ठ्यकानिष्ठ्यसंयोगं सम्प्रधार्य गुणागुणैः ॥

2.39.39

आरिराधयिषुर्धर्मः पूजयित्वा द्विजोत्तमान् । महदादित्यसङ्काशमासनं च जगत्पतेः ।
ददौ नासादितं कैश्चित्तस्मिन्नुपविवेश सः ॥

2.39.40

ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम् ।
क्रियतामर्हणं राज्ञां यथार्हमिति भारत ॥

2.39.41

आचार्यमृत्विजं चैव संयुजं च युधिष्ठिर ।
स्नातकं च प्रियं प्राहुः षडर्घार्हान्नृपं तथा ॥

2.39.42

एतानर्घ्यानभिगतानाहुः संवत्सरोषितान् ।
त इमे कालपूगस्य महतोऽस्मानुपागताः ॥

2.39.43

एषामेकैकशो राजन्नर्घ आनीयतामिति ।
अथ तैषां वरिष्ठाय समर्थायोपनीयताम् ॥
युधिष्ठिर उवाच ॥

2.39.44

कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन ।
उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह ॥
वैशम्पायन उवाच ॥

2.39.45

ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य वीर्यवान् ।
वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि ॥
भीष्ण उवाच ॥

2.39.46

एष ह्येषां समस्तानां तेजोबलपराक्रमैः ।
मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः ॥

2.39.47

असूर्यमिव सूर्येण निर्वातमिव वायुना ।
भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः ॥

2.39.48

तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् ।
उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम् ॥

2.39.49

गामर्घ्यं मधुपर्कं च ह्यानीयोपाहरत्तदा ।
एतस्मिन्नन्तरे राजन्निदमासीत्तदाऽद्भुतम् ॥

2.39.50

तां दृष्ट्वा क्षत्रियाः सर्वे पूजां कृष्णस्य भूयसीम् ।
सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ॥

2.39.51

प्रतिजग्राह तां कृष्णः शास्त्रदृष्टेन कर्मणा ।
शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे ॥

2.39.52

उपालभ्य स भीष्मं च धर्मराजं च संसदि ।
अवाक्षिपद्वासुदेवं चेदिराजो महाबलः ॥

2.39.53

तेषामाकारभावज्ञः सहदेवो न चक्षमे ।
मानिनां बलिनां राज्ञां पुरुः सन्दर्शिते पदे ॥

2.39.54

पुष्पवृष्टिर्महत्यासीत्सहदेवस्य मूर्धनि ।
जन्मप्रभृति वृष्णीना सुनीथः शत्रुरब्रवीत् ॥

2.39.55

प्रष्टा वियोनिजो राजा प्रतिवक्ता नदीसुतः ।
प्रतिग्रहीता गोपालः प्रदाता च वियोनिजः ॥

2.39.56

सदस्या मूकवत्सर्वे आसतेऽत्र किमुच्यते ।
इत्युक्त्वा स विहस्याशु पाण्डुं पुनरब्रवीत् ॥

2.39.57

अतिपश्यसि वा सर्वान्न वा पश्यसि पाण्डव ।
तिष्ठत्स्वन्येषु पूज्येषु गोपमर्चितवानसि ॥

2.39.58

एते चैवोभये तात कार्यस्य तु विनाशके ।
अतिदृष्टिरदृष्टिर्वा तयोः किं त्वं समास्थितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc