भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.33

2.33.1

इच्छाम्यागमनं श्रोतुं हैडिम्बस्य द्विजोत्तम ।
लङ्कायां च गतिं ब्रह्मन्पौलस्त्यस्य च दर्शनम् ॥

2.33.2

कावेरीदर्शनं चैव आनुपूर्व्या वदस्व मे ।
वैशम्पायन उवाच ।
शृणु राजन्यथा वृत्तं सहेदवस्य साहसम् ॥

2.33.3

कालनद्वीपगांश्चैव तरसाऽजित्य चाहवे ।
दक्षिणां च दिशं जित्वा चोलस्य विषयं ययौ ॥

2.33.4

ददर्श पुण्यतोयां वै कावेरीं सरितां वराम् ।
नाजापक्षिगणैर्जुष्टां तापसैरुपशोभिताम् ॥

2.33.5

------------------------ ।
कदम्बैः सप्तपर्णैश्च कश्मर्यामलकैर्वृताम् ॥

2.33.6

-----महाशाखैः प्लक्षैरौदुम्बरैरपि ।
----- अश्वत्थैः खदिरैर्वृताम् ॥

2.33.7

-------- सञ्छन्नामश्वकर्णैश्च शोभिताम् ।
बूतैः पुण्ड्रकपत्रैश्च कदलीवनसंवृताम् ॥

2.33.8

चक्रवाकगणैः कीर्णं प्लवैश्च जलवायसैः ।
समुद्रकाकैः क्रौञ्चैश्च नादितां जलकुक्कुटैः ॥

2.33.9

एवं खगैश्च बहुभिः सङ्घुष्टां जलवासिभिः ।
आश्रमैर्बहुभिः सक्तां चैत्यवृक्षैश्च शोभिताम् ॥

2.33.10

शोभितां ब्राह्मणैः शुभ्रैर्वेदवेदाङ्गपारगैः ।
क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् ॥

2.33.11

क्वचित्सुपुष्पितैर्वृक्षैः क्वचित्सौगन्धिकोत्पलैः ।
कह्लारकुमुदोत्फुल्लैः कमलैरुपशोभिताम् ॥

2.33.12

कावेरीं तादृशीं दृष्ट्वा प्रीतिमान्पाण्डवस्तदा ।
अस्मद्राष्ट्रे यथा गङ्गा कावेरी च तथा शुभा ॥

2.33.13

सहदेवस्तु तां तीर्त्वा नदीमनुचरैः सह ।
दक्षिणं तीरभासाद्य गमनायोपचक्रमे ॥

2.33.14

आगतं पाण्डवं तत्र श्रुत्वा विषयवासिनः ।
दर्शनार्थं ययुस्ते तु कौतूहलसमन्विताः ॥

2.33.15

द्रमिडाः पुरुषा राजन्स्रियचश्च प्रियदर्शनाः ।
गत्वा पाण्डुसुतं तत्र ददृशुस्ते मुदाऽन्विताः ॥

2.33.16

सुकुमारं विशालाक्षं व्रजन्तं त्रिदशोपमम् ।
दर्शनीयतमं लोके नेत्रैरनिमिषैरिव ॥

2.33.17

आश्चर्यभूतं ददृशुर्द्रमिडास्ते समागताः ।
महासेनोपमं दृष्ट्वा पूजां चक्रुश्च तस्य वै ॥

2.33.18

रत्नैश्च विविधैरिष्टैर्भोगैरन्यैश्च सम्मतैः ।
गतिमङ्गलयुक्तार्भिः स्तुवन्तो नकुलानुजम् ॥

2.33.19

सहदेवस्तु तान्दृष्ट्वा द्रमिलानागतान्मुदा ।
विसृज्य तान्महाबाहुः प्रस्थितो दक्षिणां दिशम् ॥

2.33.20

दूतेन तरसा चोलं विजित्य द्रमिडेश्वरम् ।
ततो रत्नान्युपादाय पाण्डस्य विषयं ययौ ॥

2.33.21

दर्शने सहदेवस्य न च तृप्ता नराः परे ।
गच्छन्तमनुगच्छन्तः प्राप्ताः कौतूहलान्विताः ॥

2.33.22

ततो माद्रीसुतों राजन्मृगसङ्घान्विलोकयन् ।
गजान्वनचरानन्यान्व्याघ्रान्कुष्णमृगान्बहून् ॥

2.33.23

शुकान्मयूरान्दृष्ट्वा तु गृध्रानारण्यकुक्कुटान् ।
ततो देशं समासाद्य श्वशुरस्य महीपतेः ॥

2.33.24

प्रेषयामास माद्रेयो दूतान्पाण्ड्याय वै तदा ।
प्रतिजग्राह तस्याज्ञां सम्प्रीत्या मलयध्वजः ॥

2.33.25

भार्या रूपवती जिष्णोः पाण्ड्यस्य तनया शुभा ।
चित्राङ्गदेति विख्याता द्रमिडी योषितां वरा ॥

2.33.26

आगतं सहदेवं तु सा श्रुत्वाऽन्तः पुरे पितुः ।
प्रेषयामास सम्प्रीत्या पूजारत्नं च वै बहु ॥

2.33.27

पाण्ड्योऽपि बहुरत्नानि दूतैः सह मुमोच ह ।
मणिमुक्ताप्रवालानि सहदेवाय कीर्तिमान् ॥

2.33.28

तां दृष्ट्वाऽप्रतिमां पूजां पाण्डवोऽपि मुदा नृप ।
भ्रातुः पुत्रे बहून्रत्नान्दत्वा वै बभ्रूवाहने ॥

2.33.29

पाण्ड्यं द्रमिडराजानं श्वशुरं मलयध्वजम् ।
स दूतैस्तं वशे कृत्वा मणलूरेश्वरं तदा ॥

2.33.30

ततो रत्नान्युपादाय द्रमिडैरावृतो ययौ ।
अगस्त्यस्यालयं दिव्यं देवलोकसमं गिरिम् ॥

2.33.31

स तं प्रदक्षिमं कृत्वा मलयं भरतर्षभ ।
लङ्घयित्वा तु माद्रेयस्ताम्रपणीं नदीं शुभाम् ॥

2.33.32

प्रसन्नसलिलां दिव्यां सुशीतां च मनोहराम् ।
समुद्रतीरमासाद्य न्यविशत्पाण्डुनन्दनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc