भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.20

2.20.1

पतितौ हंसडिभिकौ कंसश्च सगणो हतः ।
जरासन्धस्य निधने कालोऽयं समुपागतः ॥

2.20.2

न शक्योऽसौ रणे जेतुं सर्वैरपि सुरासुरैः ।
प्राणयुद्धेन जेतव्यः स इत्युपलभामहे ॥

2.20.3

मयि नीतिर्बलं भीमे रक्षिता चावयोर्जयः ।
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः ॥

2.20.4

त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः ।
न सन्देहो यथा युद्धमेकेनाप्युपयास्यति ॥

2.20.5

अवमानाच्च लोभाच्च बाहुवीर्याच्च दर्पितः ।
भीमसेनेन युद्धाय ध्रुवमप्युपयास्यति ॥

2.20.6

अलं तस्य महाबाहुर्भीमसेनो महाबलः ।
लोकस्य समुदीर्णस्य निधनायान्तको यथा ॥

2.20.7

यदि भीमबलं वेत्सि यदि ते प्रत्ययो मयि ।
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे ॥
वैशम्पायन उवाच ॥

2.20.8

एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः ।
भीमार्जुनौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ ॥
युधिष्ठर उवाच ।

2.20.9

अच्युताच्युत मामैवं व्याहरामित्रकर्शन ।
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् ॥

2.20.10

यथा वदसि गोविन्द सर्वं तदुपपद्यते ।
नहि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी ॥

2.20.11

येषामभिमुखी लक्ष्मीस्तेषां कृष्ण त्वमग्रतः । निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः । 2-2--11च् राजसूयश्च मे लब्धो निदेशे त्व तिष्ठतः ॥

2.20.12

क्षिप्रमेव यथा त्वेतत्कार्यं समुपपद्यते । अप्रमत्तो जगन्नाथ तथा कुरु समुपपद्यते ।

2.20.13

त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे ।
धर्मकामार्थरहितो रोगार्त इव दुःखितः ॥

2.20.14

न शौरिणा विना पार्थो न शौरिः पाण्डवं विना ।
नाजेयोस्त्यनयोऽर्लोके कृष्णयोरिति मे मतिः ॥

2.20.15

अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः ।
युवाभ्यां सहितो वीर किं न कुर्यान्महायशाः ॥

2.20.16

सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् ।
अन्धं बलं जडं प्राहुः प्रणेतव्यं विचक्षणैः ॥

2.20.17

यतो हि निम्नं भवति नयन्ति हि ततो जलम् ।
यतश्छिद्रं ततश्चापि नयन्ते धीवरा जलम् ॥

2.20.18

तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम् ।
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये ॥

2.20.19

एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् ।
पुरस्कृर्वीत कार्येषु कृष्णकार्यार्थसिद्धये ॥

2.20.20

एवमेव यदुश्रेष्ठ यावत्कार्याथिसिद्धये । अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम् ।
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति ॥
वैशम्पायन उवाच ।

2.20.21

एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः ।
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति ॥

2.20.22

वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदैः ।
आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः ॥

2.20.23

माधवः पाण्डवेयौ च प्रतस्थुर्व्रतधारिणः । अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यतेजसाम् ।
रविसोमाग्निवपुषां दीप्तमासीत्तदा वपुः ॥

2.20.24

इतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ ।
एककार्यसमुद्यन्तौ कृष्णौ युद्धेऽपराजितौ ॥

2.20.25

ईशौ हितौ महात्मानौ सर्वकार्यप्रवर्तिनौ ।
धर्मकामार्थलोकानां कार्याणां च प्रवर्तकौ ॥

2.20.26

कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् ।
रम्यं पद्मसरो गत्वा कालकूडमतीत्य च ॥

2.20.27

गण्डकीं च महाशोणं सदानीरां तथैव च ।
एकपर्वतके नद्यः क्रमेणैत्याव्रजन्त ते ॥

2.20.28

उत्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् ।
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् ॥

2.20.29

अतीत्य गङ्गां शोणं च त्रयस्ते प्राङ्मुखास्तदा ।
कुशचीरच्छदा जग्मुर्मागधं क्षेत्रमच्युताः ॥

2.20.30

ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् ।
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc