भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.17

2.17.1

जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च ।
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता ॥

2.17.2

न स्म मृत्युं वयं विद्म रात्रौ वा यदि वा दिवा ।
न चापि कञ्चिदमरमयुद्धेनानुशुश्रुम ॥

2.17.3

एतावदेव पुरुषैः कार्यं हृदयतोषणम् ।
नयेन विधिदृष्टेन यदुपक्रमते परान् ॥

2.17.4

सुनयस्यानपायस्य संयोगे परमः क्रमः ।
सङ्गत्या जायतेऽसाम्यं साम्यं च न भवेद्द्वयोः ॥

2.17.5

अनयस्यानुपायस्य संयुगे परमः क्षयटः ।
संशयो जायते साम्याज्जयश्च न भवेद्द्वयोः ॥

2.17.6

ते वयं नयमास्थाय शत्रुदेशसमीपगाः ।
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ॥
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः ॥

2.17.7

व्यूढानीकैरतिबलैर्न युद्व्येदरिभिः सह ।
इति बुद्धिमतां नीतिस्तन्ममापीह रोचते ॥

2.17.8

अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत् ।
शत्रुदेशमुपाक्रम्य तं कामं प्राप्नुयामहे ॥

2.17.9

एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभः ।
अन्तरात्मेव भूतानां तत्क्षयं नैव लक्षये ॥

2.17.10

अथवैनं निहत्याजौ शेषेणापि समाहताः ।
प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः ॥
युधिष्ठिर उवाच ॥

2.17.11

कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः ।
यस्त्वां स्पृष्ट्वाऽग्निसदृशं न दग्धः शलभो यथा ॥
कृष्ण उवाच ॥

2.17.12

शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः ।
यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः ॥

2.17.13

अक्षौहिणीनां तिसृणां पतिः समरदर्पितः ।
राजा बृहद्रथो नाम मगधाधिपतिर्बली ॥

2.17.14

रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः ।
नित्यं दीक्षाङ्किततनुः शतक्रतुरिवापरः ॥

2.17.15

तेजसा सूर्यसङ्काशः क्षमया पृथिवीसमः ।
यश्चान्तकसमः क्रोधे श्रिया वैश्रवणोपमः ॥

2.17.16

स्वराज्यं कारयामास मगधेषु गिरिव्रजे । तस्याभिजनसंयुक्तैर्गणैर्भरतसत्तम ।
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥

2.17.17

स काशिराजस्य सुते यमजे भरतर्षभः । उपयेमे महावीर्यो रूपद्रविणसंयुते । 2-17-17च्तयोश्चकार समयं मिथः स पुरुषर्षभः ॥

2.17.18

नातिवर्तिष्य इत्येवं पत्नीभ्यां सन्निधौ तदा ।
स ताभ्यां शुशुभे राजा पत्नीभ्यां वसुधाधिपः ॥

2.17.19

प्रियाम्भामनुरूपाभ्यां करेणुभ्यामिव द्विपः ।
तयोर्मध्यगतश्चापि रराज वसुधाधिपः ॥

2.17.20

गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः ।
विषयेषु निमग्रस्य तस्य यौवनमत्यगात् ॥

2.17.21

न च वंशकरः पुत्रस्तस्याजायत कश्चन ।
मङ्गलैर्बभिर्होमैः पुत्रकामाभिरिष्टिभिः ॥

2.17.22

नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् ।
स भार्याभ्यां च सहितो निर्वेदमगमद्धृशम् ॥

2.17.23

राज्यं चापि परित्यज्य तपोवनमथाश्रयत् । वार्यमाणः प्रकृतिभिर्नृपभक्त्या विशाम्पते ॥

2.17.24

अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः ॥
शुश्राव तपसि श्रेष्ठमुदारं चण्डकौशिकम् ॥

2.17.25

यदृच्छयाऽगतं तं तु वृक्षमूलमुपाश्रितम् ।
पत्नीभ्यां सहितो राजा सर्वयत्नैरतोषयत् ॥

2.17.26

बृहद्रथं च स ऋषिर्यथावच्चाभ्यनन्दत । उपविष्टः स तेनाथ अनुज्ञातो महात्मना ॥

2.17.27

तमपृच्छत्तदा विप्रः किमागमनमित्यथ ।
विप्रैरनुगतस्यैव पत्नीभ्यां सहितस्य च ॥

2.17.28

स उवाच मुनिं राजा भगवन्नास्ति मे सुतः ।
अपुत्रस्य तु राज्येन वृद्धत्वे किं प्रयोजनम् ॥

2.17.29

सोऽहं तपश्चरिष्यामि पत्नीभ्यां सहितो वने । नाप्रजस्य मुने किर्तिः स्वधा चैवाक्षया भवेत् ।
एवमुक्तः स राज्ञा तु मुनिः कारुण्यमागतः ॥

2.17.30

तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः ।
परितुष्टोऽस्मि राजेन्द्र वरं वरय सुव्रत ॥

2.17.31

ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः ।
पुत्रदर्शननैराश्याद्बाष्पसन्दिग्धया गिरा ॥
राजोवाच ॥

2.17.32

भगवन् राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् ।
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे ॥
कृष्ण उवाच ।

2.17.33

एतच्छ्रुत्वा मुनिर्ध्यानमगमन्क्षुभितेन्द्रियः ।
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत ॥

2.17.34

तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह ।
अवानमशुकादष्टमेकमाम्रफलं किल ॥

2.17.35

तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च ।
राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारणम् ॥

2.17.36

उवाच च महाप्राज्ञस्तं राजानं महामुनिः ।
गच्छ राजन्कृतार्थोऽसि निवर्तस्व नराधिप ॥

2.17.37

एष ते तनयो राजन्मा तपेह तपोवने ।
प्रजाः पालय धर्मेण एव धर्मो महीक्षिताम् ॥

2.17.38

यजस्व विविधैर्यज्ञैरिन्द्रं तर्पय चेन्दुना ।
पुत्रं राज्ये प्रतिष्ठाप्य तत आश्रममाव्रज ॥

2.17.39

अष्टौ वरान्प्रयच्छामि तव पुत्रस्य पार्थिव ।
ब्रह्मण्यत्वमजेयत्वं युद्धेषु च तथा मतिः ॥

2.17.40

प्रियातिथेयतां चैव दीनानामन्ववेक्षणम् ।
तथा बलं च सुभहल्लोके कीर्ति च शाश्वतीम् ॥

2.17.41

अनुरागं प्रजानां चेत्येवमष्टौ वरान्नृप ।
गच्छ त्वं कृतकृत्योऽसि निवर्तस्व जनाधिप ॥

2.17.42

अनुज्ञातः स ऋषिणा पत्नीभ्यां सहितो नृपः ।
पौरैरनुगतश्चापि विवेश स्वपुरं ततः ॥

2.17.43

यथासमयमाज्ञाय तदा स नृपसत्तमः ।
द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ ॥

2.17.44

मुनेश्च बहुमानेन कालस्य च विपर्ययात् । ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे ।

2.17.45

तयोः समभवद्गर्भः फलप्राशनसम्भवः ।
ते च दृष्ट्वा स नृपतिः परां मुदमवाप ह ॥

2.17.46

अथ काले महाप्राज्ञ यथासमयमागते ।
प्रजायेतामुभे राजञ्शरीरशकले तदा ॥

2.17.47

एकाक्षिबाहुचरणे अर्धोदरमुखस्फिचे ।
दृष्ट्वा शरीरशकले प्रवेपतुरुभे भृशम् ॥

2.17.48

उद्विग्रे सह सम्मन्त्र्य ते भगित्यौ तदाऽबले ।
सजीवे प्राणिशकले तत्यजाते सुदुःखिते ॥

2.17.49

तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे ।
निर्गम्यान्तः पुरद्वारात्समुत्सृज्याभिजग्मतुः ॥

2.17.50

दुकूलाभ्यां सुसञ्छन्ने पाण्डराभ्यामुभे तदा ।
अज्ञाते कस्यचित्ते तु जहतुस्ते चतुष्पथे ॥

2.17.51

ततो विविशतुर्धात्र्यौ पुनरन्तः पुरं तदा ।
कथयामासतुरुभे देवीभ्यां तु पृथक्पृथक् ॥

2.17.52

ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी ।
जग्राह मनुजव्याघ्र मांसशोणितभोजना ॥

2.17.53

कर्तुकामा सुखवहे शकले सा तु राक्षसी ।
संयोजयामास तदा विधानबलचोदिता ॥

2.17.54

ते समानीतमात्रे तु शकले पुरुषर्षभ ।
एकमूर्तिधरो वीरः कुमारः समपद्यत ॥

2.17.55

ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना ।
न शशाक समुद्वोदुं वज्रसारमयं शिशुम् ॥

2.17.56

बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः ।
प्राक्रोशदतिसंरब्धः सतोय इव तोयदः ॥

2.17.57

तेन शब्देन सम्भ्रान्तः सहसाऽन्तः पुरे जनः ।
निर्जगाम नरव्याघ्र राज्ञा सह परन्तप ॥

2.17.58

ते चाबले परिम्लाने पयः पूर्णपयोधरे ।
निराशे पुत्रलाभाय सहसैवाब्यगच्छताम् ॥

2.17.59

ते च दृष्ट्वा तथाभूते राजानं चेष्टसन्ततिम् ।
तं च बालं सुबलिनं चिन्तयामास राक्षसी ॥

2.17.60

नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः ।
बालं पुत्रमिमं हन्तुं धार्मिकस्य महात्मनः ॥

2.17.61

सा तं बालमुपादाय मेघलेखेन भास्करम् ।
कृत्वा च मानुषं रूपमुवाच वसुधाधिपम् ॥

2.17.62

बृहद्रथ सुतस्तेऽयं मया दत्तः प्रगृह्यताम् । तव पत्नीद्वये जातो द्विजातिवरशासनात् ।
धात्रीजनपरित्यक्तो मयाऽयं परिरक्षितः ॥
कृष्ण उवाच ।

2.17.63

ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे ।
तं बालमभिपद्याशु प्रस्रवैरभ्यषिञ्जताम् ॥

2.17.64

ततः स राजा संहृष्टः सर्वं तदुपलभ्य च ।
अपृच्छद्धेमगर्भाभां राक्षसीं तामराक्षसीम् ॥

2.17.65

कात्वं कमलगर्भाभे मम पुत्रप्रदायिनी ।
कामं मा ब्रूहि कल्याणि देवता प्रतिभासि मे ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc