भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.15

2.15.1

उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति ।
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि ॥

2.15.2

गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः । न च साम्राज्यमाप्तास्ते सम्रादशब्दो हि कृच्छ्रभाक् ।

2.15.3

कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति ।
परेण समवेतस्तु यः प्रशस्यः स पूज्यते ॥

2.15.4

विशाला बहुला भूमिर्बहुरत्नसमाचिता ।
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह ॥

2.15.5

शममेव परं मन्ये शमात्क्षेमं भवेन्मम ।
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः ॥

2.15.6

एवमेते हि जानन्ति कुले जाता मनस्विनः । कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन ।

2.15.7

वयं यैव महाभाग जरासन्धभयात्तदा ।
शङ्किताः स्म महाभाग द्वौरात्म्यात्तस्य चानघ ॥

2.15.8

अहं हि तव दुर्धर्ष भुजवीर्याश्रयः प्रभो ।
नात्मानं बलिनं मन्ये त्वयि तस्माद्विशङ्किते ॥

2.15.9

त्वत्सकाशाच्च रामाच्च भीमसेनाच्च माधव । अर्जुनाद्वा महाबाहो हन्तुं शक्यो नवेति वै ।
एवं जानन्हि वार्ष्णेय विमृशामि पुनः पुनः ॥

2.15.10

त्वं मे प्रमाणभूतोऽसि सर्वकार्येषु केशव ।
तच्छ्रुत्वा चाब्रवीद्भीमो वाक्यं वाक्यविशारदः ॥
भीम उवाच ॥

2.15.11

अनारम्भपरो राजा वल्मीक इव सीदति ।
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति ॥

2.15.12

अतन्द्रितश्च प्रायेण दुर्बलो बलिनं रिपुम् ।
जयेत्सम्यक्प्रयोगेण नीत्याऽर्थानात्मनो हितान् ॥

2.15.13

कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये ।
मागधं साधयिष्याम इष्टिं त्रय इवाग्रयः ॥

2.15.14

त्वद्बुद्धिबलमाश्रित्य सर्वं प्राप्स्यति धर्मराद ।
जयोऽस्माकं हि गोविन्द येषां नाथो भवान्सदा ॥
कृष्ण उवाच ।

2.15.15

अर्थानारभते बालो नानुबन्धमवेक्षते ।
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् ॥

2.15.16

जित्वा जय्यान्यौवनाश्विः पालनाच्च भगीरथः ।
कार्तवीर्यस्तपोवीर्याद्बलात्तु भरतो विभुः ॥

2.15.17

ऋद्ध्या मरुत्तस्तान्पश्च सम्राजस्त्वनुशुश्रुम ।
सर्वान्वंश्याननुमृशन्नैते सन्ति युगे युगे ॥

2.15.18

साम्राज्यमिच्छतस्ते तु सर्वाकारं युधिष्ठिर ।
निग्राह्यलक्षणं प्राप्तिर्धर्मार्थनयलक्षणैः ॥

2.15.19

बार्हद्रथो नरासन्धस्तद्विद्धि भरतर्षभ ।
न चैनं प्रत्यत्युद्ध्यन्त कुलान्येकशतं नृपाः ॥

2.15.20

तस्मादिह बलादेव साम्राज्यं कुरुते हि सः ॥

2.15.21

रत्नभाजो हि राजानो जरासन्धमुपासते ।
न च तुष्यति तेनापि बाल्यादनयमास्थितः ॥

2.15.22

मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषो बलात् ।
आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् ॥

2.15.23

एवं सर्वान्वशे चक्रे जरासन्धः शतावरान् ।
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति ॥

2.15.24

तण्डुलप्रस्थके राजा कपर्दिनमुपासते । प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे ।
पशूनामिव प्रमृष्टानां राज्ञां पशुपतेर्गृहे ।

2.15.25

क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः ।
ततः स्म मागधं सङ्ख्ये प्रतिबाधेम यद्वयम् ॥

2.15.26

षडशीतिः समानीताः शेषा राजंश्चतुर्दश ।
जरासन्धेन राजानस्ततः क्रूरं प्रवर्त्स्यते ॥

2.15.27

प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् ।
जयेद्यश्च जरासन्धं स सम्राण्णियतं भवेत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc