भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.100

2.100.1

आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् ॥
राजानं सोमदत्तं च महाराजं च बाह्लिकम् ॥

2.100.2

द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च । विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः ॥ 2-100-3असौमदत्तिं महावीर्यं विकर्णं च महामतिम् । युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः ॥ 2-100-4अगान्धारीं च महाभागां मातरं च तथा पृथाम् । सर्वानामन्त्र्य गच्छामि द्रष्टाऽस्मि पुनरेत्य वः ॥
वैशम्पायन उवाच ॥

2.100.5

न च किञ्चिदथोचुस्तं ह्रियाऽसन्ना युधिष्ठिरम् ।
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः ॥
विदुर उवाच ॥

2.100.6

आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति ।
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता ॥

2.100.7

इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि ।
इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः ॥
पाण्डवा ऊचुः ।

2.100.8

तथेत्युक्त्वाऽब्रुवन्सर्वे यथा नो वदसेऽनघ ।
त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः ॥

2.100.9

यथाऽज्ञापयसे विद्वंस्त्वं हि नः परमो गुरुः ।
यच्चान्यदपि कर्तव्यं तद्विधत्स्व महामते ॥
विदुर उवाच ॥

2.100.10

युधिष्ठिर विजानीहि ममेदं भरतर्षभ ।
नाधर्मेण जितः कश्चिद्व्यथते वै पराजये ॥

2.100.11

त्वं वै धर्मं विजानीषे युद्धे जेता धनञ्जयः ।
हन्ताऽरीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही ॥

2.100.12

संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः ।
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी ॥

2.100.13

अन्योन्यस्य प्रियाः सर्वे तथैव प्रियदर्शनाः ।
परैरभेद्याः सन्तुष्टाः को वोन न स्पृहयेदिह ॥

2.100.14

एष वै सर्वकल्याणः समाधिस्तव भारत ।
नैनं शत्रुर्विषहते शक्रेणापि समोऽप्युत ॥

2.100.15

हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा ।
द्वैपायनेन कृष्णेन नगरे वारणावते ॥

2.100.16

भृगुतुङ्गे च रामेण दृष्टद्वत्यां च शम्भुना ।
अश्रौषीरसि तस्यापि महर्षेरञ्जनं प्रति ॥

2.100.17

कल्माषीतीरसंस्थस्य गतस्त्वं शिष्यतां भृगोः ।
द्रष्टा सदा नारदस्ते धौम्यस्तेऽयं पुरोहितः ॥

2.100.18

माहासीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम् ।
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव ॥

2.100.19

शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्गोपसेवया ।
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे ॥

2.100.20

तथा विसर्गे कौबेरे वारुणे कोपविधारणे ॥
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम् ॥

2.100.21

भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् ।
वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम् ॥

2.100.22

अगदं वोऽस्तु भद्रं वो द्रष्टाऽस्मि पुनरागतान् ।
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः ॥

2.100.23

यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर ।
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत ॥

2.100.24

कृतार्थं स्वस्मिमन्तं त्वां द्रक्ष्यामः पुनरागतम् ।
न हि वो वृजिनं किञ्चिद्वेद कश्चित्पुराकृतम् ॥
वैशम्पायन उवाच ॥

2.100.25

एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः ।
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc