भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 18.5

18.5.1

भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः ।
विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ॥

18.5.2

धृष्टकेजुर्जयत्सेनो राजा चैव स सत्यजित् ।
दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ॥

18.5.3

कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः ।
घटोत्कवादयश्चैव ये चान्ये नानुकीर्तिताः ॥

18.5.4

ये चान्ये कीर्तिता वीरा राजानो दीप्तमूर्तयः ।
स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ॥

18.5.5

आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम ।
अन्ते वा कर्मणां कां ते गतिं प्राप्ता नरर्षभाः ॥

18.5.6

एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं द्विजोत्तम ।
तपसा हि प्रदीप्तेन सर्वं त्वमनुपश्यति ॥
सौतिरुवाच ।

18.5.7

इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना । व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे ।
वैशम्पायन उवाच ।

18.5.8

गन्तव्यं कर्मणामन्ते सर्वेषां मनुजाधिप । शृणु गुह्यमिदं राजन्देवानां भरतर्षभ ।
यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥

18.5.9

मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः ।
अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् ॥

18.5.10

तेनोक्तं कर्मणामन्ते प्रविशन्ति स्विकां तनुम् ॥

18.5.11

वसूनेव महातेजा भीष्मः प्राप महाद्युतिः ।
अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ॥

18.5.12

बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् ।
कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणान् ॥

18.5.13

सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् ।
धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ॥

18.5.14

धृतराष्ट्रो सहिता गन्धारी च यशस्विनी ।
पत्नीभ्यां सहितः पाण्डुमहेन्द्रसदनं ययौ ॥

18.5.15

विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः ।
निशठाक्रूरसाम्बाश्च भानुः कण्वो विदूरथः ॥

18.5.16

भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः ।
कंशश्चैवोग्रसेनश्च वसुदेवस्तथैव च ॥

18.5.17

उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः ।
विश्वेषां देवतानां ते विविशुर्नरसत्तमाः ॥

18.5.18

[वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् ।
सोभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् ॥

18.5.19

स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित्.] विवेश सोमं धर्मात्मा कर्मणोन्ते मरारथः ॥

18.5.20

आविवेश रविं कर्णो निहतः पुरुषर्षभ ।
द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ॥

18.5.21

धृतराष्ट्रात्मजाः सर्वे यातुधानान्प्रपेदिरे ।
धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ॥

18.5.22

अनन्तो भगवान्देवः प्रविवेश रसातलम् ।
पितामहनियोगाद्वै यो योगाद्गामधारयत् ॥

18.5.23

यः स नारायणो नाम देवदेवः सनातनः ।
तस्यांशो वासुदेवस्तु कर्मणोन्ते विवेश ह ॥

18.5.24

षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहाः ।
अमज्जंस्ताः सरस्वत्यां कालेन जनमेजय ॥

18.5.25

तत्र त्यक्त्वा शरीराणि दिवमारुरुहुः पुनः ।
ताश्चैवाप्सरसो भूत्वा वासुदेवमुपाविशन् ॥

18.5.26

हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः ।
घटोत्कचादयश्चैव देवान्यक्षांश्च भेजिरे ॥

18.5.27

दुर्योधनसहायाश्च राक्षसा येऽनुकीर्तिताः ।
प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ॥

18.5.28

भवनं च महेन्द्रस्य कुबेरस्य च धीमतः ।
वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ॥

18.5.29

एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते ।
कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥
सौतिरुवाच ।

18.5.30

एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः ।
विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ॥

18.5.31

ततः समापयामासुः कर्म तत्तस्य याजकाः ।
आस्तिकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान् ॥

18.5.32

ततो द्विजातीन्सर्वास्तान्दक्षिणाभिरतोषयत् ।
पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ॥

18.5.33

विसर्जयित्वा विप्रांस्तान्राजाऽपि जनमेजयः ।
हृष्टस्तक्षशिलायाः स पुनरायाद्गचाह्वयम् ॥

18.5.34

एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम् ।
व्यासाज्ञया समाज्ञातं सर्पसत्रे नृपस्य हि ॥

18.5.35

पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् ।
कृष्णेन मुनिना विप्र निर्मितं सत्यवादिना ॥

18.5.36

सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता ।
अतीन्द्रियेण शुचिना तपसा भावितात्मना ॥

18.5.37

ऐश्वर्ये वर्तता चैव साङ्ख्ययोगवता तथा ।
नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥

18.5.38

कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् ।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥

18.5.39

क्रीडां च वासुदेवस्य देवदेवस्य शाङ्गिणः । विश्वेषां देवभागानां जन्मसायुज्यमेव च ॥

18.5.40

य इदं शृणुयाद्विद्वान्पर्वसु द्विजसत्तमः ।
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति ॥

18.5.41

कार्ष्णं वेदमिमं सर्वं शृणुयाद्यः समाहितः ।
ब्रह्महत्याकृतं पापं तत्क्षणादेव नश्यति ॥

18.5.42

यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ।
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतदिष्ठते ॥

18.5.43

अह्ना यदेनः कुरुते इन्द्रियैर्मनसाऽपि वा ।
महाभारतमाख्याय सर्पपापैः प्रमुच्यते ॥

18.5.44

[यद्रात्रौ कुरुते पापं ब्राह्मणः स्त्रीगणैर्वृतः ।
महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते ॥

18.5.45

महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥

18.5.46

अष्टादशपुराणानि धर्मशास्त्राणि सर्वशः ।
वेदाः साङ्गास्तथैकत्र भारतं चैकतः स्थितम् ॥

18.5.47

श्रूयतां सिंहनादोऽयमृषेस्तस्य महात्मनः ।
अष्टादशपुराणानां कर्तुर्वेदमहोदधेः ॥

18.5.48

त्रिभिर्वर्षैर्महत्पुण्यं कृष्णद्वैपायनः प्रभुः ।
अखिलं भारतं चेदं चकार भगवान्मुनिः ॥

18.5.49

[आकर्ण्य भक्त्या सततं जयाख्यं भारतं महत् । श्रीश्च कीर्तिस्तथा विद्या भवन्ति सहिताः सदा ॥ ]

18.5.50

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रिचित् ॥

18.5.51

"वाच्यते यत्र सततं जयाख्यं भारतं महत् ।
श्रीश्व कीर्तिश्च विद्या च भवन्ति मुदिताः सदा ॥

18.5.52

भारतस्य तु वक्तारं ब्रह्मर्षि च महागुरुम् ॥
वैशम्पायनमारोप्य स्वर्णभद्रासनं तदा ॥

18.5.53

जनमेजयादिराजान आस्तिकाद्या द्विजातयः ।
धर्मदत्तादिवैश्याश्च सोम्यवंश्यादिशूद्रकाः ॥

18.5.54

प्रयुतं चायुतं चेति सहस्रं शतमित्यपि ।
दशकं चेति निष्काणामानर्चुस्तं महागुरुम् ॥

18.5.55

निष्काणां दशकं दत्त्वा मृतपुत्रोऽमृतप्रजः ।
ऊष्मादिव्याधियुक्तश्च शतं दत्त्वा निरामयः ॥

18.5.56

सहस्रदानात्सन्तानहीनः सन्तानपुत्रवान् ।
आयुरारोग्यमैश्वर्यं भेजुस्तेऽन्नं च पुत्रकान् ॥

18.5.57

सुवर्णं रजतं रत्नं सर्वाण्याभरणानि च ।
सर्वोपकरणैर्युक्तं निधिनिक्षेपसंयुतम् ॥

18.5.58

इष्टकाभित्तिसंयुक्तमग्निबाधादिवर्जितम् । देवपूजाग्निहोत्रादिपाठार्थगृहसंयुतम् ।
सान्तर्बहिस्संवरणं सप्रासादं सगोगृहम् ॥

18.5.59

व्यष्ट्या समष्ट्या वा दद्यात्स्वर्गारोहणपर्वणि ।
निवृत्तिकामो दद्याच्चेत्पुनर्जन्म न विद्यते ॥

18.5.60

सकामश्चेद्ब्रह्मकल्पं सुकं ब्रह्मगृहे वसेत् ॥

18.5.61

पुराणमुखतो यस्माद्वेदान्तज्ञानमाप्यते ।
स तेन गुरुराख्यातस्तत्पूजा हीशपूजनम् ॥

18.5.62

भारतस्य तु वक्तारं श्रोतारं लेखकांस्तदा ।
प्रपूजयन्ति संहृष्टाः सिद्धाश्च परमर्षयः ॥

18.5.63

महाभारतवक्तारं नार्चयन्तीह ये नराः । तेषां सर्वक्रियाहानिर्भवेद्देवाः शपन्ति च ॥

18.5.64

जयो नामेतिहासोऽयं श्रोतव्यो जयमिच्छता ।
राज्ञा राजसुतैश्चैव गर्भिण्या चैव योषिता ॥

18.5.65

[स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् ।
गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥

18.5.66

अनागतश्च मोक्षश्च कृष्णद्वैपायनः प्रभुः ।
सन्दर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ॥

18.5.67

षष्टिं शतसहस्राणि चकारान्यां स संहिताम् ।
त्रिंशच्छतसहस्राणि देवलोके प्रतिष्ठितम् ॥

18.5.68

पित्र्ये पञ्चदशं ज्ञेयं यक्षलोके चतुर्दश ।
एकं शतसहस्रं तु मानुषेषु प्रभाषितम् ॥

18.5.69

नारदोऽश्रावयद्देवानसितो देवलः पितॄन् ।
रक्षोयक्षाञ्शुको मर्त्यान्वैशम्पायन एव तु ॥

18.5.70

इतिहासमिमं पुण्यं महार्थं वेदसम्मितम् ।
व्यासोक्तं श्रूयते येन कृत्वा ब्राह्म्णमग्रतः ॥

18.5.71

स नरः सर्वकामांश्च कीर्तिं प्राप्येह शौनक ।
गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ॥

18.5.72

भारताध्ययनात्पुण्यादपि पादमधीयतः । श्रद्धया परया भक्त्या श्राव्यते चापि येन तु ।
य इमां संहितां पुण्यां पुत्रमध्यापयच्छुकम् ॥

18.5.73

मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥

18.5.74

हर्षस्थानसहस्राणि भयस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥

18.5.75

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥

18.5.76

न जातु कामान्न भयान्न लोभा- द्धर्मं त्यजेज्जीवितस्यापि हेतोः ।
नित्यो धर्मः सुखदुःखे त्वनिथ्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥

18.5.77

इमां भारतसावित्रीं प्रातरुत्थायः यः पठेत् ।
स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥

18.5.78

कयथा समुद्रो भगवान्यथा हि हिमवान्गिरिः ।
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥

18.5.79

कार्ष्णं देवमिमं विद्वाञ्श्रावयित्वाऽर्थमश्नुते । इदं भारतमाख्यानं यः पठेत्सुसमाहितः ।
स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ॥

18.5.80

द्वैपायनोष्ठपुटनिस्सृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च ।
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥

18.5.81

यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे सुबहुश्रुताय ।
पुण्यां च भारतकथां सततं शृणोति तुल्यं फलं भवति तस्य च तस्य चैव ॥ ]

18.5.82

"यद्यदिष्टतमं कामं लभते श्रद्धयाऽन्वितः ।
शृणुयान्मुदितो भूत्वा आस्तिको बुद्धिसंयुतः ॥

18.5.83

वासुदेवं स्मरन्विद्वान्पुण्डरीकायतेक्षणम् ।
इतिहासमिमं पुण्यं महार्थं वेदसम्मितम् ॥

18.5.84

श्रावयेद्यस्तु वर्णादीन्कृत्वा ब्राह्मणमग्रतः ।
सर्वपापविशुद्धात्मा शुचिस्तद्गतमानसः ॥

18.5.85

इह कीर्तिं महत्प्राप्य भोगवान्सुखमश्नुते ।
व्यासप्रसादेन पुनः स्वर्गलोकं स गच्छति ॥

18.5.86

एतद्विदित्वा सर्वं तु सर्ववेदार्थविद्भवेत् । पूजनीयश्च सततं माननीयो भवेद्द्विजः ॥ " ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc