भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 18.2

18.2.1

नेह पश्यामि विबुधा राधेयममितौजसम् ।
भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ॥

18.2.2

जुहुवुर्ये शरीराणि रणवह्नौ महारथाः ।
राजानो राजपुत्राश्च ये मदर्थे हता रणे ॥

18.2.3

क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः ।
तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ॥

18.2.4

यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः ।
स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ॥

18.2.5

कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः ।
न तैरहं विना वत्स्ये भ्रातृभिर्ज्ञातिभिस्तथा ॥

18.2.6

मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि ।
कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै ॥

18.2.7

इदं च परितप्यामि पुनःपुनरहं सुराः ।
यन्मातुः सदृशौ पादौ तस्याहममितात्मनः ॥

18.2.8

दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् ।
न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे ॥

18.2.9

तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् ।
अविज्ञातो मया योसौ घातितः सव्यसाचिना ॥

18.2.10

भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम ।
अर्जुनं चेन्द्रसन्काशं यमौ चैव यमोपमौ ॥

18.2.11

द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् ।
न चेह स्थातुमिच्छामि सत्यमेवं ब्रवीमि वः ॥

18.2.12

किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः ।
यत्र ते मम स स्वर्गो नायं स्वर्गो मतो मम ॥
देवा ऊचुः ।

18.2.13

यदि वै तत्र ते श्रद्धा गम्यतां तत्र माचिरम् ।
प्रिये हि तव वर्तामो देवराजस्य शासनात् ॥
वैशम्पायन उवाच ।

18.2.14

इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् ।
युधिष्ठिरस्य सुहृदो दर्शयेतदि परन्तप ॥

18.2.15

ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः ।
सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ॥

18.2.16

अग्रतो देवदूतश्च ययौ राजा च पृष्ठतः ।
पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः ॥

18.2.17

तमसा संवृतं घोरं केशशैवलशाद्वलम् ।
युक्तं पापकृतां गन्धैर्मासशोणितकर्दमम् ॥

18.2.18

दंशोत्पातकभल्लूकमक्षिकामशकावृतम् ।
इतश्चेतश्च कुणपैः समन्तात्परिवारितम् ॥

18.2.19

अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् ।
ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् ॥

18.2.20

अयोमुखैश्च काकाद्यैर्गृध्रैश्च समभिद्रुतम् ।
सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ॥

18.2.21

मेदोरुधिरयुक्तैश्च च्छिन्नबाहूरुपाणिभिः ।
निकृत्तोदरपदैश्च तत्रतत्र प्रवेशितैः ॥

18.2.22

स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् ।
जगाम राजा धर्मान्मा मध्ये बहु विचिन्तयन् ॥

18.2.23

ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् ।
असिपत्रवनं चैव निशितं क्षुरसंवृतम् ॥

18.2.24

करम्भवालुकास्तप्ता आयसीश्चि शिलाः पृथक् ।
लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः ॥

18.2.25

कूटशाल्मलिकं तापि दुःस्पर्शं तीक्ष्णकण्टकम् ।
ददर्शान्याश्च कौन्तेयो यातनाः पापकर्मिणाम् ॥

18.2.26

स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह ।
कियदध्वानमस्माभिर्गन्तव्यमिममीदृशम् ॥

18.2.27

क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि ।
देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ॥

18.2.28

स सन्निववृते श्रुत्वा धर्मराजस्य भाषितम् ।
देवदूतोऽब्रवीचैनमेतावद्गमनं तव ॥

18.2.29

निवर्तितव्यो हि मया तताऽस्म्युक्तो दिवौकसैः ।
यदि श्रान्तोसि राजेन्द्रि त्वमथागन्तुमर्हसि ॥

18.2.30

युधिष्ठिरस्तु निर्विण्णस्तेनि गन्धेन मूर्छितः ।
निवर्तने धृतमनाः पर्यावर्तत भारत ॥

18.2.31

सं सन्निवृत्तो धर्मात्मा दुःखशोकसमाहतः ।
शुश्राव तत्र वदतां दीना वाचः समन्ततः ॥

18.2.32

भोभो धर्मज राजर्षे पुण्याभिजन पाण्वन ।
अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् ॥

18.2.33

आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः ।
तव गन्धानुगस्तात येनास्मान्सुखमागमत् ॥

18.2.34

ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ ।
सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ॥

18.2.35

सन्तिष्ठस्व महाबाहो मुहूर्तमिह भारत ।
त्वयि तिष्ठति कौरव्य यातनाऽस्मान्न बाधते ॥

18.2.36

एवं बहुविधा वाचः कृपणा वेदनावताम् ।
तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ॥

18.2.37

तेषां तु वचनं श्रुत्वा दयावान्दीनभाषिणाम् ।
अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः ॥

18.2.38

स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनःपुनः ।
ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ॥

18.2.39

अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः ।
उवाच के भवन्तो वै किमर्थमिह तिष्ठथ ॥

18.2.40

इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे ।
कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ॥

18.2.41

नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत ।
द्रौप्दी द्रौपदेयाश्चि इत्येवं ते विचुक्रुशुः ॥

18.2.42

ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप ।
ततो विममृशे राजा किन्त्विदं दैवकारितम् ॥

18.2.43

किन्तु तत्कलुषं कर्म कृतमेभिर्महात्मभिः ।
कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया ॥

18.2.44

य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे ।
नाहं जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ॥

18.2.45

किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः ।
तथा श्रिया युतः पापैः सहसर्वैः पदानुगैः ॥

18.2.46

महेन्द्रि इव लक्ष्मीवानास्ते परमपूजितः ।
कस्येदानीं विकारोऽयं य इमे नरकं गताः ॥

18.2.47

सर्वे धर्मविदः शूराः सत्यागमपरायणाः ।
क्षत्रधर्मरताः सन्तो यज्वानो भूरिदक्षिणाः ॥

18.2.48

किन्नु सुप्तोस्मि जागर्मि चेतयामि न चेतये ।
अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः ॥

18.2.49

एवं बहुविधं राजा विममर्श युधिष्ठिरः ।
दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः ॥

18.2.50

क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः ।
देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः ॥

18.2.51

स तीव्रशोकसन्तप्तो देवदूतमुवाच ह ।
गम्यतां तत्र येषां त्वं दूतस्तेषामुपान्तिकम् ॥

18.2.52

न ह्यहं तत्र यास्यामि स्थितोस्मीति निवेद्यताम् ।
मत्संश्रयादिमे दूनाः सुखिनो भ्रातरो हि मे ॥

18.2.53

इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता ।
जगामि तत्र यत्रास्ते देवराजः शतक्रतुःठ ॥

18.2.54

निवेदयामास च तद्धर्मराजचिकीर्षितम् ।
यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc