महाभारत · अध्याय 17.2
ततस्ते नियतात्मान उदीचीं दिशमास्थिताः ।
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ॥
तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् ।
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ॥
तेषां तु गच्छतां शीघ्रं सर्वेषां योगधार्मिणाम् ।
याज्ञसेनी भ्रष्टयोगा निपपात महीतले ॥
तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः ।
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ॥
नाधर्मश्चरितः कश्चिद्राजपुत्र्या परन्तप ।
कारणं किन्नु तद्ब्रूहि यत्कृष्णा पतिता भुवि ॥
युधिष्ठिर उवाच ।
पक्षपातो महानस्या विशेषेण धनञ्जये ।
तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ॥
वैशम्पायन उवाच ।
एवमुक्त्वाऽनवेक्ष्यैनां ययौ भरतसत्तमः ।
समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ॥
सहदेवस्ततो विद्वान्निपपात महीतले ।
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ॥
योऽयमस्मासु सर्वेषु शुश्रूषुरनहन्कृतः ।
सोयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ॥
युधिष्ठिर उवाच ।
आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन ।
तेन दोषेण पतितो विद्वानेष नृपात्मजः ॥
वैशम्पायन उवाच ।
इत्युक्त्वा तं समुत्सृज्य सहदेवं ययौ तदा ।
भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥
कृष्णं निपतितां दृष्ट्वा सहदेवं च पाण्डवम् ।
आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ॥
तस्मिन्निपतिते वीरे नकुले चारुदर्शने ।
पुनरेव तदा भीमो राजानमिदमब्रवीत् ॥
योऽयमक्षतधर्मात्मा भ्राता वचनकारकः ।
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ॥
इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः ।
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतांवरः ॥
रूपेणि मत्समो नास्ति कश्चिदित्यस्य दर्शनम् ।
अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ॥
नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर ।
यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ॥
तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः ।
पपात शोकसन्तप्तस्ततोनु परवीरहा ॥
तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि ।
म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ॥
अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः ।
अथ कस्य विकारोऽयं येनायं पतितो भुवि ॥
युधिष्ठिर उवाच ।
एकोहं निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् ।
न च तत्कृतवानेष शूरमानी ततोपतत् ॥
अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः ।
तथा चैतन्न तु तथा कर्तव्यं भूतिमिच्छता ॥
वैशम्पायन उवाच ।
इत्युक्त्वा प्रस्थितो राजा भीमोथ निपपात ह ।
पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ॥
भोभो राजन्नवेक्षस्व पतितोहं प्रियस्तव ।
किन्निमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ॥
युधिष्ठिर उवाच ।
अतिभुक्तं च भवता प्राणेन च विकत्थसे ।
अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ॥
इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् ।
श्वाप्येकोनुययौ यस्ते बहुशः कीर्तितो मया ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0