महाभारत · अध्याय 16.41
नासौ वृथाऽग्निना दग्धो यथा तत्र श्रुतं मया ।
वैचित्रवीर्यो नृपतिर्न ते शोच्यो नराधिप ॥
वनं प्रविशतानेन वायुभक्षेण धीमता ।
अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् ॥
याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने ।
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम ॥
स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल ।
तेन तद्वनमादीप्तमिति ते तापसाऽब्रुवन् ॥
स राजा जाह्नवीतीरे यथा ते कथितं मया ।
तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ ॥
एवमावेदयामासुर्मुनयस्ते ममानघ ।
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर ॥
एवं स्वेनाग्निना राजा समायुक्तो महीपते ।
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम् ॥
गुरुशुश्रूषया चैव जननी ते जनाधिप ।
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः ॥
कर्तुमर्हसि राजेन्द्र तेषां त्वमुदकक्रियाम् ।
भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम् ॥
वैशम्पायन उवाच ।
ततः स पृथिवीपालः पाण्डवानां धुरन्धरः ।
निर्ययौ सहसोदर्यः सदारश्च नरर्षभः ॥
पौरजानपदाश्चैव राजभक्तिपुरस्कृताः ।
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः ॥
ततोऽवगाह्य सलिले सर्वे तु कुरुपुङ्गवाः ।
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने ॥
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः ।
शाचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः ॥
प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः । गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः ।
तत्रैव तेषां तुल्यानि गङ्गाद्वारेऽन्वशात्तदा ।
कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः ॥
द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः ।
ददौ श्राद्धानि विधिवद्दक्षैणावन्ति पाण्डवः ॥
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः ।
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः ॥
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक् ।
सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम् ॥
यो यदिच्छति यावच्च तावत्स लभते द्विजः ।
शयनं भोजनं यानं मणिरत्नमथो धनम् ॥
यानमाच्छादनं भोगान्दासीश्च समलङ्कृताः ।
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः ॥
ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः ।
प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम् ॥
ते चापि राजवचनात्पुरुषा ये गताऽभवन् ।
सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः ॥
माल्यैर्गन्धैश्च विविधैरर्चयित्वा यथाविधि ।
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः ॥
समाश्वास्य तु राजानं धर्मात्मानं युधिष्ठिरम् ।
नारदोप्यगमत्प्रीतः परमर्षिर्यथोप्सितम् ॥
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः ।
वनवासे तथा त्रीणि नगरे दशपञ्च च ॥
हतपुत्रस्य सङ्ग्रामे दानानि ददतः सदा ।
ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च ॥
युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा ।
धारयामास तद्राज्यं निहतज्ञातिबान्धवः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0