भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.39

16.39.1

तेषु चोपनिवृत्तेषु पाण्डवेषु यदृच्छया ।
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् ॥

16.39.2

तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः ।
आसीनं परिविश्वस्तं प्रोवाच वदतांवरः ॥

16.39.3

चिरात्तु नानुपश्यामि भगवन्तमुपस्थितम् ।
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् ॥

16.39.4

के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते । तद्ब्रूहि द्विजमुख्यस्त्वं ह्यस्माकं च प्रियोऽतिथिः ।
नारद उवाच ।

16.39.5

चिरदृष्टोसि मेऽत्येवमागतोऽहं तपोवनात् ।
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप ॥
युधिष्ठिर उवाच ।

16.39.6

वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः ।
धृतराष्ट्रं महात्मानमास्थितं परमं तपः ॥

16.39.7

अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः ।
गान्धारी च पृथा चैव सूतपुत्रश्च सञ्जयः ॥

16.39.8

कथं च वर्तते चाद्य पिता मम स पार्थिवः ।
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः ॥
नारद उवाच ।

16.39.9

स्थिरीभूय महाराज शृणु वृत्तं यथातथम् ।
यथाश्रुतं च दृष्टं च मया तस्मिंस्तपोवने ॥

16.39.10

वनवासनिवृत्तेषु भवत्सु कुरुनन्दन ।
कुरुक्षेत्रात्पिता तुभ्य गङ्गाद्वारं ययौ नृप ॥

16.39.11

गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः ।
सञ्जयेन च सूतेन साग्निहोत्रः सयाजकः ॥

16.39.12

आतस्थे स तपस्तीव्रं पिता तव तपोधनः ।
अग्निं मुखे समाधाय वायुभक्षोऽभवन्मुनिः ॥

16.39.13

वने स मुनिभिः सर्वैः पूज्यमानो महातपाः ।
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः ॥

16.39.14

गान्धारी तु जलाहारी कुन्ती मासोपवासिनी ।
सञ्जयः षष्ठभुक्तेन वर्तयामास भारत ॥

16.39.15

अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो ।
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य वै ॥

16.39.16

अनिकेतोथ राजा स बभूव वनगोचरः ।
ते चापि सहिते देव्यौ सञ्जयश्च तमन्वयुः ॥

16.39.17

सञ्जयो नृपतेर्नेता समेषु विषमेषु च ।
गान्धार्याश्च पृथा चैव चक्षुरासीदनिन्दिता ॥

16.39.18

ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः ।
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखो ययौ ॥

16.39.19

अथ वायुः समुद्भुतो दावाग्निरभवन्महान् ।
ददाह तद्वनं सर्वं परिगृह्य समन्ततः ॥

16.39.20

दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः ।
वराहाणां च यूथेषु संश्रयत्सु जलाशयान् ॥

16.39.21

सम्प्रदीप्ते वने तस्मिन्प्राप्ते व्यसन उत्तमे । निराहारतया राजा मन्दप्राणविचेष्टितः ।
असमर्थोऽपसरणे सुकृशे मातरौ च ते ॥

16.39.22

ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात् ।
इदमाह ततः सूतं सञ्जयं जयतांवरः ॥

16.39.23

गच्छ सञ्जय यत्राग्निर्न त्वां दहति कर्हिचित् ।
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम् ॥

16.39.24

तमुवाच किलोद्विग्नः सञ्जयो वदतांवरः ।
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाऽग्निना ॥

16.39.25

न चोपायं प्रपश्यामि मोक्षणे जातवेदसः ।
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ॥

16.39.26

इत्युक्तः सञ्जयेनेदं पुनराह स पार्थिवः ।
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् ॥

16.39.27

जलमग्निस्तथा वायुरथवाऽपि विकर्षणम् ।
तापसानां प्रशस्यं ते गच्च सञ्जय माचिरम् ॥

16.39.28

इत्युक्त्वा सञ्जयं राजा समाधाय मनस्तथा ।
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा ॥

16.39.29

सञ्जयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत् ।
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो ॥

16.39.30

ऋषिपुत्रो मनीषी स राज चक्रेऽस्य तद्वचः ।
सन्निरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा ॥

16.39.31

गान्धारी च महाभागा जननी च पृथा तव ।
दावाग्निना समायुक्ते स च राजा पिता तव ॥

16.39.32

सञ्जयस्तु महाप्राज्ञस्तस्माद्दावादमुच्यत ।
गङ्गाकूले मया दृष्टस्तापसैः परिवारितः ॥

16.39.33

स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः ।
प्रययौ सञ्जयो धीमान्हिमवन्तं महीधरम् ॥

16.39.34

एवं स निधनं प्राप्तः कुरुराजो महामनाः ।
गान्धारी च पृथा चैव जनन्यौ ते विशाम्पते ॥

16.39.35

यदृच्छयाऽनुव्रजता मया राज्ञः कलेवरम् ।
तयोश्च देव्योरुभयोर्मया दृष्टानि भारत ॥

16.39.36

ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः ।
श्रुत्वा राज्ञस्तदा निष्ठां न त्वशोचन्गतीश्च ते ॥

16.39.37

तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम ।
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव ॥

16.39.38

न शोचितव्यं राजेन्द्र स्वर्गस्थः पृथिवीपतिः ।
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते ॥
वैशम्पायन उवाच ।

16.39.39

एतच्छ्रुत्वा च सर्वेषां पाण्डवानां महात्मनाम् ।
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् ॥

16.39.40

अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् ।
पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् ॥

16.39.41

अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः ।
ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः ॥

16.39.42

भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते ।
रुरुदुर्दुःखसन्तप्ता वर्णयन्तः पृथां तदा ॥

16.39.43

अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः ।
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् ॥

16.39.44

तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् ।
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् ॥

16.39.45

तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत ।
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc