भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.35

16.35.1

ततस्ते पुरषश्रेष्ठाः समाजग्मुः परस्परम् ।
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः ॥

16.35.2

विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम् ।
संहृष्टमनसः सर्वे देवलोक इवामराः ॥

16.35.3

पुत्रः पित्रा च मात्रा च भार्याश्च पतिभिः सह ।
भ्रात्रा भ्राता सखा चैव सख्या राजन्समागताः ॥

16.35.4

पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च ।
सम्प्रहर्षात्समाजग्मुर्द्रौपदेयांश्चक सर्वशः ॥

16.35.5

ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः ।
समेत्य पृथिवीपाल सौहृदे च स्थिताऽभवन् ॥

16.35.6

परस्परं समागम्य योधास्ते भरतर्षभ ।
मुनेः प्रसादात्ते ह्येवं क्षत्रिया नष्टमन्यवः ॥

16.35.7

असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः ।
एवं समागताः सर्वे गुरुभिर्बान्धवैः सह ॥

16.35.8

पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च पार्थिवाः ।
तां रात्रिमकिलामेवं विहृत्य प्रीतमानसाः ॥

16.35.9

मेनिरे परितोषेण नृपाः स्वर्गसदो यथा ।
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत् ॥

16.35.10

परस्परं समागम्य योधानां भरतर्षभ । समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः ।
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् ॥

16.35.11

देवलोकं गता ये च ये च ब्रह्मसदो गताः ।
ये चापि वारुणं लोकं ये च गोलोकमाश्रिताः ॥

16.35.12

तथा वैवस्वतं लोकं ये च यक्षानुपागताः ।
राक्षसांश्च पिशाचांश्च कुरूंश्चापि तथोत्तरान् ॥

16.35.13

विचित्राश्च गतीरन्ये ये प्राप्ताः कर्मभिर्नराः । सर्वे ते तद्वयोरूपवेषास्तत्र समभ्ययुः ॥

16.35.14

एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः ।
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतं ॥

16.35.15

ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः ।
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् ॥

16.35.16

अवगाह्य महात्मानः पुण्यां भागीरथीं नदीम् ।
सरथाः सध्वजाश्चैव स्वानि वेश्मानि भेजिरे ॥

16.35.17

देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा ।
केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् ॥

16.35.18

ततो वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः ।
राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् ॥

16.35.19

विचित्रगतयः सर्वे यानवाप्यामरैः सह ।
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः ॥

16.35.20

गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः । धर्मसीलो महातेजाः कुरूणां हितकृतदा ।
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः ।

16.35.21

यायाः पतिकृताँल्लोकानिच्छनति परमस्त्रियः ।
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः ॥

16.35.22

ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः ।
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् ॥

16.35.23

विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह ।
समाजग्मुस्तदा साध्व्यः सर्वा एवं विशाम्पते ॥

16.35.24

एवं क्रमेणि सर्वास्ताः शीलवत्यः पतिव्रताः ।
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम् ॥

16.35.25

दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः ।
दिव्यमाल्याम्बरधरा यथाऽसां पतयस्तथा ॥

16.35.26

ताः शीलगुणसम्पन्ना विमानस्था गतक्लुमाः ।
सर्वाः सर्वगुणोपेताः स्वस्थानं प्रतिपेदिरे ॥

16.35.27

यस्य यस्य तु यः कामस्तस्मिन्काले बभूव ह ।
तन्तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः ॥

16.35.28

तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः ।
जहृषुर्मुदिताश्चासन्नानादेशगता अपि ॥

16.35.29

ते नष्टभयसङ्कल्पा नरा विगतकल्मषाः । बभूवुः पौरवाःसर्वे तद्दृष्ट्वाऽश्चर्यमुत्तमम् ॥

16.35.30

प्रियैः समागमं तेषां यः सम्यक् शृणुयान्नरः । प्रियाणि लभते नित्यमिह च प्रेत्य चैव सः ।
इष्टबान्धवसंयोगमनायासमनामयम् ॥

16.35.31

यश्चैतच्छ्रावयेद्विद्वान्विदुषो धर्मवित्तमः ।
स यशः प्राप्नुयाल्लोके परत्र च शुभां गतिम् ॥

16.35.32

स्वाध्याययुक्ता मनुजास्तपोयुक्ताश्च भारत ।
साध्वाचारा दमोपेता दाननिर्धूतकल्मषाः ॥

16.35.33

ऋजवः शुचयः शान्ता हिंसानृतविवर्जिताः । आस्तिकाः श्रद्दधानाश्च धृतिमन्तश्च मानवाः ।
श्रुत्वाऽश्चर्यमिदं पर्व ह्यवाप्स्यन्ति परां गतिम् ॥

16.35.34

पुनस्ते दर्शनं प्राप्ताः पुनश्च परिकीर्तिताः । पुनःपुनः प्रयच्छन्ति शृण्वतामभयं सदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc