महाभारत · अध्याय 16.34
ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः ।
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः ॥
धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा ।
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् ॥
गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् ।
पौरजानपदश्चापि जनः सर्वो यथा वयः ॥
ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् ।
अवतीर्याजुहावाथ सँर्वाल्लोकान्महामुनिः ॥
पाण्डवानां च ये योधाः कौरवाणां च सर्वशः । राजानश्च महाभागा नानादेशनिवासिनः ।
प्रतीक्ष्य तस्थुस्ते सर्वे तेषामागमनं प्रति ॥
ततः सुतुमुलः शब्दो जलान्ते जनमेजय ।
प्रादुरासीद्यथायोगं कुरुपाण्डवसेनयोः ॥
ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः ।
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः ॥
विराटद्रुपदौ चैव सहपुत्रौ ससैनिकौ ।
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः ॥
कर्णदुर्योधनौ चैव शकुनिश्च महारथः ।
दुःशासनादयश्चैव धार्तराष्ट्रा महाबलाः ॥
जारासन्धिर्भगदत्तो जलसन्धश्च वीर्यवान् ।
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः ॥
लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्सहात्मजः ।
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुज ॥
अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः ।
बाह्लिकः सोमदत्तश्च चेकितानश्च पार्थिवः ॥
एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः ।
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः ॥
यस्य् वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् ।
यद्वर्म यत्प्रहरणं तेन तेन स दृश्यते ॥
दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः ।
निर्वैरा निरहङ्कारा विगतक्रोधमत्सराः ॥
गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः ।
दिव्यमाल्यस्रजोपेतास्तथा दिव्याप्सरोवृताः ॥
धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप ।
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् ॥
दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी ।
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि मृघे हताः ॥
तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षमम् ।
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः ॥
तदुत्सवमहोदग्रं हृष्टनारीनराकुलम् ।
आश्चर्यभूतं ददृशे चित्रं पटगतं यथा ॥
धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा ।
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0