भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.14

16.14.1

एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः ।
धृतराष्ट्रमुपेत्यैव वाक्यमाह महार्थवत् ॥

16.14.2

उक्तो युधिष्ठिरो राजा भवद्वचनमादितः ।
स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः ॥

16.14.3

बीभत्सुश्च महातेजा निवेदयति ते गृहान् ।
वसु तस्य गृहे यच्च प्राणानपि च केवलान् ॥

16.14.4

धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च ।
अनुजानाति राजर्षे यच्चान्यदपि किञ्चन ॥

16.14.5

भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत ।
कृच्छ्रादिव महाबाहुरनुजज्ञे विनिःश्वसन् ॥

16.14.6

र राजन्धर्मशीलेन राज्ञा बीभत्सुना तथा ।
अनुनीतो महाबाहुः सौहृदे स्थापितोपि च ॥

16.14.7

न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट् ।
संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरत् ॥

16.14.8

एवम्प्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप ।
शुद्धे क्षत्रियधर्मे न निरतोऽयं वृकोदरः ॥

16.14.9

वृकोदरकृते चाहमर्जुनश्च पुनः पुनः ।
प्रसीद याचे नृपते भवान्प्रभुरिहास्ति यत् ॥

16.14.10

तद्ददातु भवान्वित्तं यावदिच्छसि पार्थिवः ।
त्वमीश्वरो नो राज्यस्य प्राणानामपि भारत ॥

16.14.11

ब्रह्मदेयाग्रहारांश्च पुत्राणामौर्ध्वदेहिकम् ।
इतो रत्नानि गाश्चैव दासीदासमजाविकम् ॥

16.14.12

अर्चयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु ।
दीनान्धकृपणेभ्यश्च तत्रतत्र नृपाज्ञया ॥

16.14.13

बह्वन्नरसपानाढ्याः सभा विदुर कारय ।
गवां निपानान्यन्यच्च विविधं पुण्यकं कुरु ॥

16.14.14

इति मामब्रवीद्राजा पार्थश्चैव धनञ्जयः ।
यदत्रानन्तरं कार्यं तद्भवम्ववक्तुमर्हति ॥

16.14.15

इत्युक्ते विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तान् ।
मनश्चक्रे महादाने कार्तिक्यां जनमेजय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc