भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.99

14.99.1

श्रुत्वैवं सात्विकं दानं राजसं तामसं तथा ।
पृथक्पृथक्त्वेन गतिं फलं चापि पृथक्पृथक् ॥

14.99.2

अवितृप्तः प्रहृष्टात्मा पुण्यं धर्मामृतं पुनः ।
युधिष्ठिरो धर्मरतः केशवं पुनरब्रवीत् ॥

14.99.3

बीजयोनिविशुद्धानां लक्षणानि वदस्व मे ।
बीजदोषेण लोकेश जायन्ते च कथं नराः ॥

14.99.4

आचारदोषं देवेशं वक्तुगर्हस्यशेषतः ॥
ब्राह्मणानां विशेषं च गुणदोषौ च केशव ॥

14.99.5

चातुर्वर्ण्यस्य कुत्स्नस्य वर्तमानाः प्रतिग्रहे । केन विप्रा विशेषेण तरन्ते तारयन्ति च ।
एतान्कथय देवेश त्वद्भक्तस्य नमोस्तु ते ॥
भगवानुवाच ।

14.99.6

शृणु राजन्यथावृत्तं बीजयोनिं शुभाशुभम् ।
येन तिष्ठति लोकोयं विनश्यति च पाण्डव ॥

14.99.7

अविप्लुतब्रह्मचर्यो यस्तु विप्रो यथाविधि ।
स बीजं नाम विज्ञेयं तस्य बीजं शुभं भवेत् ॥

14.99.8

कन्या चाक्षतयोनिः स्यात्कुलीना पितृमातृतः । ब्राह्मणादिषु विवाहेषु परिणीता यथाविधि ।
सा प्रशस्ता वरारोहा तस्या योनिः प्रशस्यते ॥

14.99.9

मनसा कर्मणा वाचा या गच्छेत्परपूरुषम् ।
योनिस्तस्या नरश्रेष्ठ गर्भाधानं न चार्हति ॥

14.99.10

स्वैरिण्या यस्तु पापात्मा सन्तानार्थमिहेच्छति ।
स कुलान्पातयत्याशु दशपूर्वान्दशापरान् ॥

14.99.11

दुष्टयोनौ तु यो मोहाद्रेतः सिञ्चति मूढधीः । तद्रेतसा समुत्पन्नः षडङ्गविदपि द्विजः ।
साधुभिः स बहिष्कार्यः श्वापाक इव पार्थिवा ॥

14.99.12

कर्मणा मनसा वाचा या भवेत्स्वैरचारिणी ।
सा कुलघ्रीति विज्ञेया तस्यां जातः श्वपाचकः ॥

14.99.13

दैवे पित्र्ये तथा दाने भोजने सहभाषणे ।
शयने सहसम्बन्धे न योग्या दृष्टयोनिजाः ॥

14.99.14

न तस्माद्दुष्टयोन्यां तु गर्भमुत्पादयेद्बुधः ।
मोहेन कुरुते यस्तु कुलं हन्ति त्रिपूरुषम् ॥

14.99.15

कानीकनश्च सहोञश्च तथोभौ कुण्डगोलकै । आरूढपतिताज्जातः परितस्यापि यः सुतः ।
षडेते विप्रचण्डाला निकृष्टाः श्वपचादपि ॥

14.99.16

यो यत्र तत्र वा रेतः सिक्त्वा शूद्रासु वा चरेत् ।
कामचारी स पापात्मा बीजं तस्याशुभं भवेत् ॥

14.99.17

अशुद्धं तद्भवेद्बीजं शुद्धां योनि न चार्हति ।
दूषयत्यपि तां योनिं शुना लीढं हविर्यथा ॥

14.99.18

शूद्रयोनौ पतेद्बीजं हाहाशब्दं द्विजन्मनः ।
कुर्यात्पुरीषगर्तेषु पतितोऽस्मीति दुःखितः ॥

14.99.19

मामधःपातयन्नेष पापात्मा काममोहितः ।
अधोगतिं प्रजोत्क्षिप्रमिति शप्त्वा पतेत्तु तत् ॥

14.99.20

आत्मा हि शुक्लमुद्दिष्टं दैवतं परमं महत् ।
तस्मात्सर्वप्रयत्नेन निरुन्ध्याच्छुक्लमात्मनः ॥

14.99.21

आयुस्तेजो बलं वीर्यं प्रज्ञा श्रीश्च महद्यशः ।
पुण्यं च मत्प्रियत्वं च लभते ब्रह्मचर्यया ॥

14.99.22

अविप्लुतब्रह्मचर्यैर्गृहस्थश्रममाश्रितैः ।
पञ्चयज्ञपरैर्धर्मः स्थाप्यते पृथिवीतले ॥

14.99.23

सायम्प्रातस्तु ये सन्ध्यां सम्यङ्नित्यमुपासते ।
नावं वेदमयीं कृत्वा तरन्ते तारयन्ति च ॥

14.99.24

यो जपेत्पावनीं देवीं गायत्रीं वेदमातरम् ।
न सीदेत्प्रतिगृह्णानः पृथिवीं च ससागराम् ॥

14.99.25

ये चास्य दुःस्थिताः केचिद्ग्रहाः सूर्यादयो दिवि ।
ते चास्य सौम्या जायन्ते शिवाः शुभकरास्तथा ॥

14.99.26

यत्र यत्र स्थिताश्चैव दारुणाः पिशिताशनाः ।
घोररूपा महाकाया धर्षयन्ति न तं द्विजम् ॥

14.99.27

पुनन्तीह पृथिव्यां च चीर्णवेदव्रता नराः ।
चतुर्णामपि वेदानां सा हि राजन्गरीयसी ॥

14.99.28

अचीर्णिव्रतवेदा ये विकर्मफलमाश्रिताः । ब्राह्ममा नाममात्रेण तेऽपि पूज्या युधिष्ठिर ।
किं पुनर्यस्तु सन्ध्ये द्वे नित्यमेवोपतिष्ठते ॥

14.99.29

शीलमध्ययनं दानं शौचं मार्दवमार्जवम् ।
तस्माद्वेदाद्विशिष्टानि मनुराह प्रजापतिः ॥

14.99.30

भूर्भुवस्स्वरिति ब्रह्म यो वेदनिरतो द्विजः ।
स्वदारनिरतो दान्तः स विद्वान्स च भूसुरः ॥

14.99.31

सन्ध्यामुपासते ये वै नित्यमेव द्विजोत्तमाः ।
ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः ॥

14.99.32

सावित्रीमात्रसारोपि वरो विप्रः सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥

14.99.33

सावित्रीं चैव वेदांश्च तुलयाऽतोलयन्पुरा । सदेवर्षिगणाश्चैव सर्वे ब्रह्मपुरस्सराः ।
चतुर्णामपि वेदानां सा हि राजन्गरीयसी ॥

14.99.34

यथा विकसिते पुष्पे मधु गृह्णन्ति षट्पदाः ।
एवं गृहीता सावित्री सर्ववेदे च पाण्डवः ॥

14.99.35

तस्मात्तु सर्ववेदानां सावित्री प्राण उच्यते ।
निर्जीवा हीतरे वेदा विना सावित्रिया नृपः ॥

14.99.36

नायन्त्रितश्चतुर्वेदी शीलभ्रष्टः स कुत्सितः ।
शीलवृत्तसमायुक्तः सावित्रीपाठको वरः ॥

14.99.37

सहस्रपरमां देवीं शतमध्यां दशावराम् ।
सावित्रीं जप कौतेय सर्वपापप्रणाशिनीम् ॥
युधिष्ठिर उवाच ।

14.99.38

त्रैलोक्यनाथ हे कृष्ण सर्वभूतात्मको ह्यसि ।
नानायोगपर श्रेष्ठ तुष्यसे केन कर्मणा ॥
भागवानुवाच ।

14.99.39

यदि भारसहस्रं तु गुग्गुल्वादि प्रधूपयेत् ।
करोति चेन्नमस्कारमुपहारं च कारयेत् ॥

14.99.40

स्तौति यः स्तुतिभिर्मां च ऋग्यजुस्सामभिः सदा ।
न तोषयति चेद्धिप्रान्नाहं तुष्यामि भारत ॥

14.99.41

ब्राह्मणे पूजिते नित्यं पूजितोस्मि न संशयः ।
आक्रुष्टे चाहमाक्रुष्टो भवामि भरतर्षभ ॥

14.99.42

परा मयि गतिस्तेषां पूजयन्ति द्विजं हि ये ।
यदहं द्विजरूपेण वसामि वसुधातले ॥

14.99.43

यस्तान्पूजयति प्राज्ञो मद्गतेनान्तरात्मना ।
तमहं स्वेन रूपेण पश्यामि नरपुङ्गव ॥

14.99.44

कुब्जाः काणा वामनाश्च दरिद्रा व्याधितास्तथा ।
नावमान्या द्विजाः प्राज्ञैर्मम रूपा हि ते द्विजाः ॥

14.99.45

ये केचित्सागरान्तायां पृथिव्यां द्विजसत्तमाः ।
मम रूपं हि तेष्वेवमर्चितेष्वर्चितोऽस्म्यहम् ॥

14.99.46

बहवस्तु न जानन्ति नरा ज्ञानबहिष्कृताः ।
यदहं द्विजरूपेण वसामि वसुधातले ॥

14.99.47

अवमन्यन्ति ये विप्रान्स्वधर्मान्पातयन्ति ते ।
प्रेषणैः प्रेषयन्ते च शुश्रूषां कारयन्ति च ॥

14.99.48

मृतांश्चात्र परत्रेमान्यमदूता महाबलाः ।
निकृन्तन्ति यथाकामं सूत्रमार्गेण शिल्पिनः ॥

14.99.49

आक्रोशपरिवादाभ्यां ये रमन्ते द्विजातिषु ।
तान्मृतान्यमलोकस्थान्निपात्य पृथिवीतले ॥

14.99.50

आक्रम्योरसि पादेन क्रूरः संरक्तलोचनः ।
अग्निवर्णैस्तु सन्दंशैर्यमो जिह्वां समुद्धरेत् ॥

14.99.51

ये च विप्रान्निरीक्षन्ते पापाः पापेन चक्षुषा ।
अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः ॥

14.99.52

तेषां घोरा महाकाया वक्रतुण्डा महाबलाः ।
उद्धरन्ति मुहूर्तेन स्वगाश्चक्षुर्यमाज्ञया ॥

14.99.53

यः प्रहारं द्विजेन्द्राय दद्यात्कुर्याच्च शोणितम् । अस्थिभङ्गं च यः कुर्यात्प्राणैर्वा विप्रयोजयेत् ।
सोनुपूर्व्येण यातीमान्नरकानेकविंशतिम् ॥

14.99.54

शूलमारोप्यते पश्चाज्ज्वलने परिपच्यते । बहुवर्षसहस्राणि पच्यमानस्त्ववाक्छिराः ।
नावमुच्येत दुर्मेदा न तस्य क्षीयते गतिः ॥

14.99.55

ब्राह्मणान्वा विचार्यैव व्रजन्तै वधकाङ्क्षया ।
शतर्वषसहस्राणि तामिस्रे परिपच्यते ॥

14.99.56

उत्पाद्य शोणितं गात्रात्संरम्भमतिपूर्वकम् ।
सपर्ययेण यातीमान्नरकानेकविंशतिम् ॥

14.99.57

तस्मान्नाकुशलं ब्रूयान्न शुष्कां गतिमीरयेत् ।
न ब्रूयात्परुषां वाणीं न चैवैनानतिक्रमेत् ॥

14.99.58

ये विप्राञ्श्लक्ष्णया वाचा पूजयन्ति नरोत्तमाः ।
अर्चितश्च स्तुतश्चैव तैर्भवामि न संशयः ॥

14.99.59

तर्जयन्ति च ये विप्रान्क्रोशयन्ति च भारत ।
आक्रुष्टस्तर्जितश्चाहं तैर्भवामि न संशयः ॥

14.99.60

यश्चन्दनैश्चागरुधूपदीपै- रभ्यर्चयेत्काष्ठमयीं ममार्चाम् ।
तेनार्चितो नैव भवामि सम्य- ग्विप्रार्चनादस्मि समर्चितोऽहम् ॥

14.99.61

विप्रप्रसादाद्धरणीधरोऽहं विप्रप्रसादादसुराञ्जयामि ।
विप्रप्रसादाच्च सदक्षिणोऽहं विप्रप्रसादादजितोऽहमस्मि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc