भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.97

14.97.1

एवमात्मोद्भवं सर्वं यगदुद्दिश्य केशवः ।
धर्मान्धर्मात्मजस्याथ पुण्यानकथयत्प्रभुः ॥

14.97.2

शृणु पाण्डव तत्वेन पवित्रं पापनाशनम् ।
कथ्यमानं मया पुण्यं धर्मशास्त्रफलं महत् ॥

14.97.3

यः शृणोति शुचिर्भूत्वा एकचित्तस्तपोयुतः ।
स्वर्ग्यं यशस्यामायुष्यं धर्मं ज्ञेयं युधिष्ठिर ॥

14.97.4

श्रद्दधानस्य तस्येह यत्पापं पूर्वसञ्चितम् ।
विनश्यत्याशु तत्सर्वं मद्भक्तस्य विशेषतः ॥
वैशम्पायन उवाच ।

14.97.5

एवं श्रुत्वा वचः पुण्यं सत्यं केशवभाषितम् ।
प्रहृष्टमनसो भूत्वा चिन्तयन्तोऽद्भुतं परम् ॥

14.97.6

देवब्रह्मर्षयः सर्वे गन्धर्वाप्सरसस्तथा ।
भूता यक्षग्रहाश्चैव गुह्यका भुजगास्तथा ॥

14.97.7

वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः ।
तथा भागवताश्चापि पञ्चकालमुपासकाः ॥

14.97.8

कौतूहलसमाविष्टाः प्रहृष्टैन्द्रियमानसाः । श्रोतुकामाः परं धर्मं वैष्णवं धर्मशासनम् ।
हृदि कर्तुं च तद्वाक्यं प्रणेमुः शिरसा नताः ॥

14.97.9

ततस्तान्वासुदेवेन दृष्टान्दिव्येन चक्षुषा । विमुक्तपापानालोक्य प्रणम्य शिरसा हरिम् ।
पप्रच्छ केशवं धर्मं धर्मपुत्रः प्रतापवान् ॥
युधिष्ठिर उवाच ।

14.97.10

कीदृशी ब्राह्मणस्याथ क्षत्रियस्यापि कीदृशी ।
वैश्यस्य कीदृशी देव गतिः शूद्रस्य कीदृशी ॥

14.97.11

कथं बध्येत पाशेन ब्राह्मणस्तु यमालये । क्षत्रियो वाथ वैश्यो वा शूद्रो वा बध्यते कथम् ।
एतत्कर्मफलं ब्रूहि लोकनाथ नमोस्तु ते ॥
वैशम्पायन उवाच ।

14.97.12

पृष्टोऽथ केशवो ह्येवं धर्मपुत्रेण धीमता ।
उवाच संसारगतिं चातुर्वर्ण्यस्य कर्मजाम् ॥
भगवानुवाच ।

14.97.13

शृणु वर्णक्रमेणैव धर्मं धर्मभृतां वर ।
नास्ति किञ्चिन्नरश्रेष्ठ ब्राह्मणस्य तु दुष्कृतम् ॥

14.97.14

शिखांयज्ञोपवीता ये सन्ध्यां ये चाप्युपासते ।
यैश्च पूर्णाहुतिः प्राप्ता विधिवज्जुह्वते च ये ॥

14.97.15

वैश्वदेवं च ये चक्रुः पूजयन्त्यतिथींश्च ये ।
नित्यं स्वाध्यायशीलाश्च जपयज्ञपराश्च ये ॥

14.97.16

सायम्प्रातर्हुताशाश्च शूद्रभोजनवर्जिताः । डम्भानृतविमुक्ताश्च स्वदारनिरताश्च ये ।
पञ्चयज्ञपरा ये च येऽग्निहोत्रमुपासते ॥

14.97.17

दहन्ति दुष्कृतं येषां हूयमानास्त्रयोऽग्नयः ।
नष्टदुष्कृतकर्माणो ब्रह्मलोकं व्रजन्ति ते ॥

14.97.18

ब्रह्मलोके पुनः कामं गन्धर्वैर्ब्रह्मगायकैः । उद्गीयमानाः प्रयतैः पूज्यमानाः स्वयम्भुवा ।
ब्रह्मिलोके प्रमोदन्ते यावदाभूतसम्प्लुवम् ॥

14.97.19

क्षत्रियोपि स्थितो राज्ये स्वधर्मपरिपालकः ।
सम्यक्प्रजाः पालयिता षड्भागनिरतः सदा ॥

14.97.20

यज्ञदानरतो धीरः स्वदारनिरतः सदा ।
शास्त्रानुसारी तत्वज्ञः प्रजाकार्यपरायणः ॥

14.97.21

विप्रेभ्यः कामदो नित्यं भृत्यानां भरणे रतः । सत्यसन्धः शुचिर्नित्यं लोभडम्भविवर्जितः ।
क्षत्रियोप्युत्तमां याति गतिं देवनिषेविताम् ॥

14.97.22

तत्र दिव्याप्सरोभिस्तु गन्धर्वैश्च विशेषतः ।
सेव्यमानो महातेजाः क्रीडते शक्रपूजितः ॥

14.97.23

चतुर्थगानि वै त्रिंशत्क्रीडित्वा तत्र देववत् ।
इह मानुष्यलोके तु चतुर्वेदी द्विजो भवेत् ॥

14.97.24

कृषिगोपालनिरतो धर्मानवेषणतत्परः ।

14.97.24

दानधर्मेपि निरतो विप्रशुश्रूषकस्तथा ॥

14.97.25

सत्यसन्धः शुचिर्नित्यं लोभडम्भविवर्जितः ।
ऋजुः स्वदारनिरतो हिंसाद्रोहविवर्जितः ॥

14.97.26

वणिग्धर्मान्नमुञ्चन्वै देवब्राह्मणपूजकः ।
वैश्यः स्वर्गतिमाप्नोति पूज्यमानोप्सरोगणैः ॥

14.97.27

चतुर्युगानि वै त्रिंशत्क्रीडित्वा दश पञ्च च ।
इह मानुष्यलोके च राजा भवति वीर्यवान् ॥

14.97.28

सुवर्णकोट्यः पञ्चाशद्रत्नानां च शतं तथा ।
हस्त्यश्वरश्वसंयुक्तो महाभोगांश्च सेवते ॥

14.97.29

त्रयाणामपि वर्णानां शुश्रूषानिरतः सदा ।
विशेषतस्तु विप्राणां दासवद्यस्तु तिष्टति ॥

14.97.30

अयाचितप्रदाता च सत्यशौचसमन्वितः ।
गुरुदेवार्चनरतः परदारविवर्जितः ॥

14.97.31

परपीडामकृत्वैव भत्यवर्गं बिभर्ति यः ।
शूद्रोपि स्वर्गमाप्नोति जीवानामभयप्रदः ॥

14.97.32

स स्वर्गकलोके क्रीडित्वा वर्षकोटिं महातपाः ।
इह मानुषलोके तु वैश्यो धनपतिर्भवेत् ॥

14.97.33

एवं धर्मात्परं नास्ति महत्संसारमोक्षणम् ।
न च धर्मात्पर किञ्चित्पापकर्मव्यपोहनम् ॥

14.97.34

तस्माद्धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम् ।
न हि धर्मानुरक्तानां लोके किञ्चन दुर्लभम् ॥

14.97.35

स्वयम्भुविहितो धर्मो यो यस्येह नरेश्वर ।
स तेन क्षपयेत्पापं सम्यगाचरितेन च ॥

14.97.36

सहजं यद्भदेत्कर्म न तत्त्याज्यं हि केनचित् ।
स एव तस्य धर्मो हि तेन सिद्धिं स गच्छति ॥

14.97.37

विगुणोपि स्वधर्मस्तु पापकर्म व्यपोहति ।
एवमेव तु धर्मोपि क्षीयते पापवर्धनात् ॥
युधिष्ठिर उवाच ।

14.97.38

भगवन्देवदेवेश श्रोतुं कौतूहलं हि मे ।
शुभस्याप्यशुभस्यापि क्षयवृद्धी यथाक्रमम् ॥
भगवानुवाच ।

14.97.39

शृणु पार्थिव तत्सर्वं धर्मसूक्ष्मं सनातनम् ।
दुर्विज्ञेयतमं नित्यं यत्र मग्ना महाजनाः ॥

14.97.40

यथैव शीतमुदकमुष्णेन बहुना वृतम् ।
भवेत्तु तत्क्षणादुष्णं शीतत्वं च विनश्यति ॥

14.97.41

यथोष्णं वा भवेदल्पं शीतेन बहुना वृतम् ।
शीतलं च भवेत्सर्वमुष्णत्वं च विनश्यति ॥

14.97.42

एवं च यद्भवेद्भूरि सुकृतं वाऽपि दुष्कृतम् ।
तदल्पं क्षपयेच्छीघ्रं नात्र कार्या विचारणा ॥

14.97.43

समत्वे सति राजेन्द्र तयोः सुकृतपापयोः ।
गूहितस्य भवेद्वृद्धिः कीर्तितस्य भवेत्क्षयः ॥

14.97.44

ख्यापनेनानुतापेन प्रायः पापं विनश्यति ।
तथा कृतस्तु राजेन्द्र धर्मो नश्यति मानद ॥

14.97.45

तावुभौ गूहितौ सम्यग्वृद्धिं यातो न संशयः ।
तस्मात्सर्वप्रयत्नेन न पापं गूहयेद्बुधः ॥

14.97.46

तस्मादेतत्प्रयत्नेनि कीर्तयेत्क्षयकारणात् ।
तस्मात्सन्कीर्तयेत्पापं नित्यं धर्मं च गूहयेत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc