भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.73

14.73.1

दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः ।
विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ॥

14.73.2

कृत्वा स पशुमेधांश्च दीक्षितः पाण्डुनन्दनः ।
धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ॥

14.73.3

हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना ।
उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ॥

14.73.4

स राजा राजधर्मेण दीक्षितो विबभौ तदा ।
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ॥

14.73.5

कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः ।
विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ॥

14.73.6

तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशाम्पते ।
बभूवुरर्जुनश्चापि प्रदीप्त इव पावकः ॥

14.73.7

श्वेताश्वः कपिकेतुश्च ससाराश्वं धनञ्जयः ।
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥

14.73.8

**क्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् ।
तमश्वं पृथिवीपाल मुदा युक्तः ससार च ॥

14.73.9

अनुमार्गं तदा राजन्नागमत्तत्पुरं विभो ।
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यनतं धनञ्जयम् ॥

14.73.10

तेषामन्योन्यसम्मर्दादूष्मेव समाजायत ।
दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ॥

14.73.11

ततः शब्दो महाराज दिशः खं प्रतिपूरयन् ।
बभूव प्रेक्षतां नॄमां कुन्तीपुत्रं धनञ्जयम् ॥

14.73.12

एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् ।
समन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ॥

14.73.13

एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः ।
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ॥

14.73.14

अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् ।
नैनं पश्याम सम्मर्दे धनुरेतत्प्रदृश्यते ॥

14.73.15

एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः । स्वस्ति गच्छत्वरिष्टो वै पन्थानमकुतोभयम् ।
निवृत्तमेनं द्रक्ष्यामः पुनरेष्यति च ध्रुवम् ॥

14.73.16

एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ ।
शुश्राव मधुरा वाचः पुनःपुनरुदारधीः ॥

14.73.17

याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि ।
प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ॥

14.73.18

ब्राह्मणाश्च महीपाल बहवो वेदपारगाः । अनुजग्मुर्महात्मानं क्षत्रियाश्च विशाम्पते ।
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥

14.73.19

पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा ।
चचार स महाराज यथादेशं च सत्तम ॥

14.73.20

तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह ।
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥

14.73.21

स हयः पृथिवीं राजन्प्रदक्षिणमवर्तत ।
ससारेत्तरतः पूर्वं तन्निबोध महीपते ॥

14.73.22

अवमृद्रन्स राष्ट्राणि पार्थिवानां हयोत्तमः ।
शनैस्तदा परिययौ श्वेताश्वश्च महारथः ॥

14.73.23

तत्र सङ्गणना नास्ति राज्ञामयुतशस्तदा ।
येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ॥

14.73.24

किराता यवना राजन्बहवोऽसिधनुर्धराः ।
म्लेच्छाश्चान्ये बहुविधाः पूर्वं ये निकृता रणे ॥

14.73.25

आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः ।
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ॥

14.73.26

एवं वृत्तानि युद्धानि तत्रतत्र महीपते ।
अर्जुनस्य महीपालैर्नानादेशसमागतैः ॥

14.73.27

यान्यत्र हयतो राजन्प्रवृत्तानि महान्ति च ।
तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc