भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.7

14.7.1

कथमस्मि त्वया ज्ञातः केन वा कथितोस्मि ते ।
एतदाचक्ष्व मे तत्त्वमिच्छसे चेन्मम प्रियम् ॥

14.7.2

सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः ।
मिथ्या च ब्रुवतो मूर्धा शतधा ते स्फुटिष्यति ॥
मरुत्त उवाच ।

14.7.3

नारदेन भवान्मह्यमाख्यातो ह्यटता पथि ।
गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा ॥
संवर्त उवाच ।

14.7.4

सत्यमेतद्भवानाह स मां जानाति सत्रिणम् ।
कथयस्व तदेतन्मे क्वनु सम्प्रति नारदः ॥
मरुत उवाच ।

14.7.5

भवन्तं कथयित्वा तु मम देवर्षिसत्तमः ।
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् ॥
व्यास उवाच ।

14.7.6

श्रुत्वा तु पार्थिवस्यैत्संवर्तः प्रमुदं गतः ।
एतावदहमप्येवं शक्नुयामिति सोऽब्रवीत् ॥

14.7.7

ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव ।
रूक्षया ब्राह्मणि राजन्पुनः पुनरथाब्रवीत् ॥

14.7.8

वातप्रधानेन मया स्वचित्तवशवर्तिना ।
एवं विकृतरूपेण कथं याजितुमिच्छसि ॥

14.7.9

भ्राता मम समर्थश्च वासवेन च सङ्गतः ।
वर्तते याजने चैव तेन कर्माणि कारय ॥

14.7.10

गार्हस्थ्यं चैव याज्याश्च सर्वा गृह्याश्च देवताः ।
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् ॥

14.7.11

नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित् ।
याजयेयं कथञ्चिद्वै स हि पूज्यतमो मम ॥

14.7.12

स त्वं बृहस्पतिं गच्च तमनुज्ञाप्य चाव्रज ।
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि ॥
मरुत्त उवाच ।

14.7.13

बृहस्पतिं गतः पूर्वमहं संवर्ते तच्छृणु ।
न मां कामयते याज्यं मुनिर्वासववारितः ॥

14.7.14

अमरं याज्यमासाद्य याजयिष्ये न मानुषम् ।
शक्रेण प्रतिषिद्धोऽहं मरुत्तं मा स्म याजये ॥

14.7.15

स्पर्धते हि मया विप्र सदा हि स तु पार्थिवः ।
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलसूदनः ॥

14.7.16

स मामधिगतं प्रेम्णा याज्यत्वे न बुभूषति ।
देवराजं समाश्रित्य तद्विद्धि मुनिपुङ्गव ॥

14.7.17

सोहमिच्छामि भवता सर्वस्वेनापि याजितुम् ।
कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः ॥

14.7.18

न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम् ।
प्रत्याख्यातो हि तेनास्मि तथाऽनपकृते सति ॥
संवर्त उवाच ।

14.7.19

चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम् ।
यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव ॥

14.7.20

याज्यमानं मया हि त्वां बृहस्पतिपुंरदरौ ।
द्विषेतां समभिक्रुद्धावेतदेकं समर्थये ॥

14.7.21

स्थैर्यमत्र कथं मे स्यात्स त्वं निःसंशयं कुरु ।
कुपितस्त्वां न हीदानीं भस्म कुर्या सवान्धवम् ॥
मरुत्त उवाच ।

14.7.22

यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः ।
तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि ॥

14.7.23

मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित् ।
विषयैः सङ्गतं चास्तु त्यजेयं सङ्गतं यदि ॥
संवर्त उवाच ।

14.7.24

आविक्षित शुभा बुद्धिर्वर्ततां तव कर्मसु ।
याजनं हि ममाप्येव वर्तते हृदि पार्थिव ॥

14.7.25

अभिधास्ते च ते राजन्नक्षयं द्रव्यमुत्तमम् ।
येन देवान्सग्धर्वाञ्शक्रं चाभिभविष्यसि ॥

14.7.26

न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः ।
विप्रियं तु करिष्यामि भ्रातुश्चेन्द्रस्य चोभयो ॥

14.7.27

गमयिष्यामि शक्रेण समतामपि ते ध्रुवम् ।
प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc