भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.54

14.54.1

ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् ।
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन ॥
वासुदेव उवाच ।

14.54.2

तमो रजश्च सत्वं च विद्धि भावान्मदाश्रयान् ।
स्थितिसृष्टिलयाध्यक्षो विष्णुब्रह्मेशसञ्ज्ञितः ॥

14.54.3

कदाचित्तमसा रुद्रो विष्णुः सत्त्वगुणे स्थितः ।
रजस्यपि तथा ब्रह्मा स्वगुणान्यगुणानुभौ ॥

14.54.4

प्रणवात्मा च शब्दादींस्त्रिगुणात्मा चराचरम् । तथा रुद्रान्वसून्वाऽपि विद्धि मत्प्रभवान्द्विज ॥

14.54.5

मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् ।
स्थित इत्यभिजानीहि मा ते भूदत्र संशयः ॥

14.54.6

तथा दैत्यगणान्सर्वान्यक्षगन्धर्वराक्षसान् ।
नागानप्सरसश्चैव विद्धि मत्प्रभवान्द्विज ॥

14.54.7

सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च ।
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् ॥

14.54.8

ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने ।
वैदिकानि च कर्माणि विद्धि सर्वं मदात्मकम् ॥

14.54.9

असच्च सच्चैव च यद्विश्वं सदसतः परम् ।
ततः परतरं नास्ति देवदेवात्सनातनात् ॥

14.54.10

ओन्कारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह ।
यूपं सोमं चरुं होमं त्रिदशाप्यायनं मखे ॥

14.54.11

होतारमपि हव्यं च विद्धिं मां भृगुनन्दन ।
अध्वर्युः कल्पकृच्चापि हविः परमसंस्कृतम् ॥

14.54.12

उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे ।
प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः ॥

14.54.13

स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तम ।
मम विद्धि सुतं धर्ममग्रजं द्विजसत्तम ॥

14.54.14

मानसं दयितं विप्र सर्वभूतदयात्मकम् ।
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः ॥

14.54.15

बह्वीः संसरमाणो वै योनीर्वर्तामि सत्तम ।
लोकसरन्क्षणार्थाय धर्मसंस्थापनाय च ॥

14.54.16

तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव ।
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः ॥

14.54.17

भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च ।
अधर्मे वर्तमानानां सर्वेषामहमच्युतः ॥

14.54.18

धर्मस्य सेतुं बध्नामि चलिते चलिते युगे ।
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ॥

14.54.19

यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन ।
तदाऽहं देववत्सर्वमाचरामि न संशयः ॥

14.54.20

यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन ।
तदा गन्धर्ववच्चेष्टा सर्वाश्चेष्टामि भार्गव ॥

14.54.21

नागयोनौ यदा चैव तदा वर्तामि नागवत् ।
यक्षराक्षसयोन्योस्तु यथावद्विचराम्यहम् ॥

14.54.22

मानुष्ये वर्तमाने तु कृपणं याचिता मया ।
न च ते जातसम्मोहा वचोऽगृह्णन्त मोहिताः ॥

14.54.23

भयं च महदुद्दिश्य त्रासिताः कुरवो मया ।
क्रुद्धेन भूत्वा तु पुर्यथावदनुदर्शिताः ॥

14.54.24

तेऽधर्मेणेह संयुक्ताः परीताःक कालधर्मणा ।
धर्मेण निहता युद्धे गताः स्वर्गं न संशयः ॥

14.54.25

लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम ।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc