भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.45

14.45.1

बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् ।
महाभूतारविष्कम्भं निमेषपरिवेष्टनम् ॥

14.45.2

जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम् ।
देशकालविचारीदं श्रमव्यायामनिःस्वनम् ॥

14.45.3

अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् ।
सुखदुःखान्तसंश्लेषं क्षुत्पिपासावकीलकम् ॥

14.45.4

छायातपविलेखं च निमेषोन्मेषविह्वलम् ।
शोकमोहजराकीर्णं वर्तमानमचेतनम् ॥

14.45.5

मासार्धमासगुणितं विषमं लोकसञ्चरम् ।
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् ॥

14.45.6

सत्त्वालङ्कारदीप्तं च गुणसन्घातमण्डलम् ।
विरतिग्रहणाभीकं शोकसंहारवर्तनम् ॥

14.45.7

क्रियाकारणसंयुक्तं रागविस्तारमायतम् ।
लोभेप्सापरिविक्षोभं विविक्तज्ञानसम्भवम् ॥

14.45.8

भयमोहपरीवारं भूतसम्मोहकारकम् ।
आनन्दप्रीतिचारं च कामक्रोधपरिग्रहम् ॥

14.45.9

महदादिविशेषान्तमव्यक्तं प्रभवाप्ययम् ।
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते ॥

14.45.10

एतद्द्वन्द्वसमायुक्तं कालचक्रमचेतनम् ।
विसृजेत्सन्क्षिपेच्चापि बोधयेत्स्वापयेज्जगम् ॥

14.45.11

कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः ।
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ॥

14.45.12

विमुक्तः सर्वसङ्क्लेशैः सर्वद्वन्द्वातिगो मुनिः ।
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ॥

14.45.13

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ।
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ॥

14.45.14

यः कश्चिदिह लोकेऽस्मिन्नाश्रमः परिकीर्तितः ।
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी ॥

14.45.15

संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः ।
जातौ गुणविशिष्टायां समावर्तेत वेदवित् ॥

14.45.16

स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः ।
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेदिह ॥

14.45.17

देवतातिथिशिष्टाशी निरतो वेदकर्मसु ।
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ॥

14.45.18

न पाणिपादचपलो न नेत्रचपलो मुनिः ।
न च वागङ्गचपल इति शिष्टस्य गोचरः ॥

14.45.19

नित्यं यज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः ।
नियतो यमदानाभ्यां सदा शिष्टैश्च संविशेत् ॥

14.45.20

जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः ।
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ॥

14.45.21

त्रीणि धारयते नित्यं कमण्डलुमतन्द्रितः । एकमाचमनार्थाय एकं वै पादधावनम् ।
एकं शौचविधानार्थमित्येतत्त्रितयं तथा ॥

14.45.22

अधीत्याध्यापनं कुर्यात्तथा यजनयाजने ।
दानं प्रतिग्रहं वाऽपि षङ्गुणां वृत्तिमाचरेत् ॥

14.45.23

त्रीणि कर्माणि जानीत ब्राह्मणानां तु जीविकाः ।
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ॥

14.45.24

अथ शेषाणि चान्यानि त्रीणि कर्माणि यानि तु ।
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु ॥

14.45.25

तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् ।
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः ॥

14.45.26

सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः ।
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc