भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.35

14.35.1

नेदमल्पात्मना शक्यं वेदितुं वाऽकृतात्मना ।
बहु चाल्पं च सन्क्षिप्तं विस्तृतं च मतं मम ॥

14.35.2

उपायं तं मम ब्रूहि येनैषा लभ्यते मतिः ।
तन्मन्ये कारणं कर्म यत एषा प्रवर्तते ॥
ब्राह्मण उवाच ।

14.35.3

अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः ।
तपःश्रुतेभिमथिनी ज्ञानाग्निर्जायते ततः ॥
ब्राह्मणयुवाच ।

14.35.4

यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञ इति सञ्ज्ञितम् ।
ग्रहीतुं येन यच्छक्यं लक्षणं तस्य तद्वद ॥
ब्राह्मण उवाच ।

14.35.5

अलिङ्गो निर्गुणश्चैव कारणं नास्य विग्रहे ।
उपायमेव वक्ष्यामि येन गृह्येत भावना ॥

14.35.6

सम्यगप्युपदिष्टस्य ह्यमृतस्येव तृप्यसे । कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गान्निपातितः ।

14.35.7

इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते ।
पश्यतः शृण्वतो बुद्धिरात्मनैवोपजायते ॥

14.35.8

यावन्त इह शक्येरंस्तावतोंऽसान्प्रकल्पयेत् ।
अव्यक्तान्व्यक्तरूपांश्च शतशोऽथ सहस्रशः ॥

14.35.9

सर्वानुमानयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् ।
यतः परं न विद्येत ततोऽभ्यासे भविष्यति ॥
श्रीभगवानुवाच ।

14.35.10

ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंशये ।
क्षेत्रज्ञानेन परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥
अर्जुन उवाच ।

14.35.11

क्व नु सा ब्राह्मणि कृष्ण क्व चासौ ब्राह्मणर्षभः ।
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥
श्रीभगवानुवाच ।

14.35.12

मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् ।
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc