भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.32

14.32.1

त्रयो वै रिपवो लोके नवधा गुणतः स्मृताः ।
हर्षः स्तम्भोतिमानश्च त्रयस्ते सात्विका गुणाः ॥

14.32.2

शोकः क्रोधाभिसंरम्भो राजसास्ते गुणाः स्मृताः ।
स्वप्नस्तन्द्रा च मोहश्च त्रयस्ते तामसा गुणाः ॥

14.32.3

एतान्निकृत्य धृतिमान्बाणसङ्घैरतन्द्रितः ।
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ॥

14.32.4

अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः ।
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ॥

14.32.5

समुदीर्णेषु दोषेषु बाध्यमानेषु साधुषु ।
जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ॥

14.32.6

स निगृह्यात्मनो दोषान्साधून्समभिपूज्य च ।
जगाम महतीं सिद्धिं गाथाश्चेमा जगाद ह ॥

14.32.7

भूयिष्ठं विजिता दोषा निहताः सर्वशत्रवः ।
एको दोषो वरिष्ठश्च वध्यः स न हतो मया ॥

14.32.8

यत्प्रयुक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति ।
तृष्णार्त इव निम्नानि धावमानो न बुध्यते ॥

14.32.9

अकार्यमपि येनेह प्रयुक्तः सेवते नरः ।
तं लोभमसिभिस्तीक्ष्णैर्निकृत्य सुखमेधते ॥

14.32.10

लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रवर्तते । स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् ।
तदवाप्तौ तु लभते भूयिष्ठं तामसान्गुणान् ॥

14.32.11

स तैर्गुणैः संहतदेहबन्धनः । पुनःपनर्जायति कर्म चेहते ।
जन्मक्षये भिन्नविकीर्मदेहो मृत्युं पुनर्गच्छति जन्मनैव ॥

14.32.12

तस्मादेतं सम्यगवेक्ष्य लोभं निगृह्य धृत्याऽत्मनि राज्यमिच्छेत् ।
एतद्राज्यं नान्यदस्तीह राज्य- मात्मैव राजा विदितो यथावत् ॥

14.32.13

इति राज्ञाऽम्बरीषेण गाथा गीता यशस्विना ।
आधिराज्य पुरस्कृत्य लोभमेकं निकृन्तता ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc