भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.3

14.3.1

युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः ।
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाम् ॥

14.3.2

ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः ।
करोत्यसुकरं कर्म तत्रका परिदेवना ॥

14.3.3

आत्मानं मन्यसे चाथ पापकर्माणमन्ततः ।
शृणु तत्र यथा पापमपकृत्येत भारत ॥

14.3.4

तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर ।
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते ॥

14.3.5

यज्ञेन तपसा चैव दानेन च नराधिप ।
पूयन्ते नरशार्दूल नरा दुष्कृतकारिणः ॥

14.3.6

असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् ।
प्रवर्तन्ते महात्मानस्तस्माद्यज्ञः परायणम् ॥

14.3.7

यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः ।
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् ॥

14.3.8

राजसूयाश्वमेधौ च सर्वमेधं च भारत ।
नरमेधं च नृपते त्वमाहर युधिष्ठिर ॥

14.3.9

यजस्व वाजिमेधेन विधिवद्दक्षिणावता ।
बहुकामान्नवित्तेन रामो दाशरथिर्यथा ॥

14.3.10

यथा च भरतो राजा दौष्यन्तिः पृथिवीपतिः ।
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः ॥
युधिष्ठिर उवाच ।

14.3.11

असंशयं वाजिमेधः पारयेत्पृथिवीमपि ।
अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि ॥

14.3.12

इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम । अहमाराधयिष्यामि कथं शोकपरायणः ।
दानमल्पं न शक्नोमि दातुं वित्तं च नास्ति मे ॥

14.3.13

न तु बालानिमान्दीनानुत्सहे वसु याचितुम् ।
तथैवाद्रविणान्कृच्छ्रे वर्तमानान्नृपात्मजान् ॥

14.3.14

स्वयं विनाश्य पृथिवीं यज्ञार्थं द्विजसत्तम ।
करमाहारयिष्यामि कथं शोकपरायणः ॥

14.3.15

दुर्योधनापराधेनि वसुधायां नराधिपाः ।
प्रनष्टा योजयित्वाऽस्मानकीर्त्या मुनिसत्तम ॥

14.3.16

दुर्योधनेन पृथिवी क्षपिता जयकारणात् ।
कोशश्चापि विशीर्णोसौ धार्तराष्ट्रस्य दुर्मतेः ॥

14.3.17

पृथिवी दक्षिणा चात्र वाजिमेधे महाक्रतौ ।
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः ॥

14.3.18

न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन ।
अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि ॥

14.3.19

एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा ।
मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत् ॥

14.3.20

कोशश्चापि विशीर्णोऽयं परिपूर्णो भविष्यति ।
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् ॥

14.3.21

उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपते ।
तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति ॥
युधिष्ठिर उवाच ।

14.3.22

कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् ।
कस्मिंश्च काले स नृपो बभूव ददतांवर ॥
व्यास उवाच ।

14.3.23

यदि शुश्रूषसे पार्थ शृणु कारन्धमं नृपम् ।
यस्मिन्काले महावीर्यः स राजाऽसीन्महाधनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc