भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.24

14.24.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सुभगे पञ्चहोतॄणां विधानमिह यादृशम् ॥

14.24.2

प्राणापानवुदानश्च समानो व्यान एव च ।
पञ्चहोतॄंस्तथैतान्वै परं भावं विदुर्बुधाः ॥
ब्राह्मण्युवाच ।

14.24.3

स्वबावात्सप्तहोतार इति मे पूर्विका मतिः ।
यथा वै पञ्च होतारः परो भावस्तदुच्यताम् ॥
ब्राह्मण उवाच ।

14.24.4

प्राणेन सम्भृतो वायुरपानो जायते ततः ।
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते ॥

14.24.5

व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते ।
उदाने सम्भृतो वायुः समानो नाम जायते ॥

14.24.6

तेऽपृच्छन्त पुरो गत्वा पूर्वजातं पितामहम् ।
यो नः श्रेष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ॥
ब्रह्मोवाच ।

14.24.7

यस्मिन्प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।
यस्मिन्प्रवृत्ते च पुनश्चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः ॥
प्राण उवाच ।

14.24.8

मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥
ब्राह्मण उवाच ।

14.24.9

प्रामः प्रालीयत ततः पुनश्च प्रचचार ह ।
समानश्चाप्युदानश्च वचो ब्रूतां पुनः शुभे ॥

14.24.10

न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् । न त्वं श्रेष्ठो हि नः प्राण अपानो हि वशे तव ।
प्रचचार पुनः प्राणस्ततोऽपानोऽभ्यभाषत ॥
उपान उवाच ।

14.24.11

मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥
ब्राह्मण उवाच ।

14.24.12

व्यानश्च तमुदानश्चि भाषमाणमथोचतुः ।
अपान न त्वं श्रेष्ठोसि प्राणो हि वशगस्तव ॥

14.24.13

अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥

14.24.14

मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥
ब्राह्मण उवाच ।

14.24.15

प्रालीयत ततो व्यानः पुनश्च प्रचचार ह ।
प्राणापानावुदानस्च समानश्च तमब्रुवन् ॥

14.24.16

न त्वं श्रेष्ठोसि नो व्यान समानस्तु वशे तव । प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥

14.24.17

मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥

14.24.18

ततः समानः प्रालिल्ये पुनश्च प्रचचार ह । प्राणापानावुदानस्च व्यानश्चैव तमब्रवीत् ।
न त्वं समान श्रेष्ठोसि व्यान एव वशे तव ॥

14.24.19

समानः प्रचचाराथ उदानस्तमुवाच ह ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥

14.24.20

मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥

14.24.21

ततः प्रालीयतोदानः पुनश्च प्रचचार ह । प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन् ।
उदानि न त्वं श्रेष्ठोसि व्यानि एव वशे तव ॥
ब्राह्मण उवाच ।

14.24.22

ततस्तानब्रवीत्सर्वान्स्मयमानः प्रजापतिः ।
सर्वे श्रेष्ठा न च श्रेष्ठाः सर्वे चान्योन्यकाङ्क्षिणः ॥

14.24.23

सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यधर्मिणः ।
इति तानब्रवीत्सर्वान्समवेतान्प्रजापतिः ॥

14.24.24

एकः स्थिरश्चराश्चान्ये विशेषात्पञ्च वायवः ।
एक एव च सर्वात्मा बहुधाऽप्युपचीयते ॥

14.24.25

परस्परस्य सुहृदो भावयन्तः परस्परम् ।
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc