भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.21

14.21.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
दम्पत्योः पार्थ संवादो योऽभकवद्भरतर्षभ ॥

14.21.2

ब्राह्मणी ब्राह्मणं कञ्चिज्ज्ञानविज्ञानपारगम् ।
दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ॥

14.21.3

कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता ।
न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ॥

14.21.4

भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् ।
त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ॥

14.21.5

एवमुक्तः स शान्तात्मा तामुवाच हसन्निव ।
सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ॥

14.21.6

ग्राह्यं दृश्यं तथा श्राव्यं यदिदं कर्म विद्यते ।
एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ॥

14.21.7

मोहमेव निगच्छन्ति कर्मिणो ज्ञानवर्जिताः ।
नैष्कर्म्य न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ॥

14.21.8

कर्मणा मनसा वाचा शुभं वा यदि वाऽशुभम् ।
जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते ॥

14.21.9

रक्षोभिर्वध्यमानेषु दृश्यश्राव्येषु कर्मसु ।
आत्मस्थमात्मना तेन दृष्टमायतनं मया ॥

14.21.10

यत्र तद्ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना ।
व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ॥

14.21.11

यत्रि ब्रह्मादयो युक्तास्तदक्षरमुपासते ।
विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः ॥

14.21.12

घ्राणेन न तदाघ्रेयं नास्वाद्यं चैव जिह्वया ।
स्पर्शनेन तदस्पृश्यं मनसा त्ववगम्यते ॥

14.21.13

चक्षुषा न विषह्यं च यत्किञ्चिच्छ्रवणात्परम् । अगन्धमरसस्पर्शमरूपं शब्दवर्जितम् ।
यतः प्रवर्तते तन्त्रं यत्र चैतत्प्रतिष्ठितम् ॥

14.21.14

प्राणोऽपानः समानश्च व्यानश्चोदान एव च ।
तत एव प्रवर्न्तते तदेव प्रविशन्ति च ॥

14.21.15

समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः ।
तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च ॥

14.21.16

अपनाप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति ।
तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ॥

14.21.17

प्राणोनोपहते यत्तु तमुदानं प्रचक्षते ।
तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ॥

14.21.18

तेषामन्योन्यसक्तानां सर्वेषां देहचारिणाम् ।
अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ॥

14.21.19

घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् ।
मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ॥

14.21.20

घ्रेयं दृश्यं च पेयं च स्पृश्यं श्राव्यं तथैव च ।
मन्तव्यमवबोद्धव्यं ताः सप्त समिधो मताः ॥

14.21.21

घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः ।
मन्ता बोद्धा च स्प्तैते भवन्ति परमर्त्विजः ॥

14.21.22

घ्रेये पेये च दृश्ये च स्पृश्ये श्राव्ये तथैव च ।
मन्तव्येऽप्यथ बोद्धव्ये सुभगे पश्य सर्वदा ॥

14.21.23

हवींष्याग्निषु होतारः सप्तधा सप्तसप्तसु ।
सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ॥

14.21.24

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
मनो बुद्धिश्च सप्तैता योनिरित्येव शब्दिताः ॥

14.21.25

हविर्भूतगुणाः सर्वे प्रविशन्त्यग्नियं मुखम् ।
अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु ॥

14.21.26

तत्रैव च निरुध्यन्ते प्रलये भूतभावने ।
ततः सञ्जायते गन्धस्ततः सञ्जायते रसः ॥

14.21.27

ततः सञ्जायते रूपं ततः स्पर्शोऽभिजायते । ततः सञ्जायते शब्दः संशयस्तत्र जायते ।
ततः सञ्जायते निष्ठा जन्मैतत्सप्तधा विदुः ॥

14.21.28

अनेनैव प्रकारेण प्रगृहीतं पुरातनैः ।
पूर्णाहुतिभिरापूर्णास्ते पूर्यन्ते हि तेजसा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc