भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.18

14.18.1

ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् ।
पप्रच्छ तांश्च धर्मान्स प्राह धर्मभृतांवरः ॥
काश्यप उवाच ।

14.18.2

कथं शरीराच्च्यवते कथं चैवोपपद्यते ।
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥

14.18.3

आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति ।
शरीरे च विनिर्मुक्तो कथमन्यत्प्रपद्यते ॥

14.18.4

कथं शुभाशुभे चायं कर्मणी स्वकृते नरः ।
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठते ॥
ब्राह्मण उवाच ।

14.18.5

एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत ।
आनुपूर्व्येण वार्ष्णेय तन्मे निगदतः शृणुः ॥
सिद्ध उवाच ।

14.18.6

अस्मिन्नेवाशु फलदा आयुष्यास्तु क्रियाःस्मृताः । आयुःकीर्तिकराणीह यानि कृत्यानि सेवते ।
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥

14.18.7

आयुःक्षयपरीतात्मा विपरीतानि सेवते ।
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥

14.18.8

सत्त्वं बलं च कालं चाविदित्वा चात्मनस्तथा ।
अतिवेलमुपाश्नाति स्वविरुद्धान्यनात्मवान् ॥

14.18.9

यदाऽयमतिकष्टानि सर्वाण्युपनिषेवते ।
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन ॥

14.18.10

दुष्टान्नामिषपानं च यदन्योन्यविरोधि च ।
गुरु चाप्यमितं भुङ्क्ते नातिजीर्णे दिवा पुनः ॥

14.18.11

व्यायाममतिमात्रं च व्यावाय चोपसेवते ।
सततं कर्मलोभाद्वा प्राप्तं वेगं विधारयेत् ॥

14.18.12

रसाभियुक्तमन्नं वा दिवास्वप्नं च सेवते ।
अपक्वानागते काले स्वयं दोषान्प्रकोपयेत् ॥

14.18.13

स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् ।
अपि वोद्बन्धनादीनि परीतानि व्यवस्यति ॥

14.18.14

तस्य तैः कारणैर्जन्तोः शरीरं च्यवते तदा ।
जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥

14.18.15

ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
शरीरमनुपर्येत्य सर्वान्प्राणान्रुणद्धि वै ॥

14.18.16

अत्यर्थं बलवानूष्मा शरीरे परिकोपितः ।
भिनत्ति जीवस्थानानि तानि कर्मणि विद्धि च ॥

14.18.17

ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् । शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु ।
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥

14.18.18

जनीमरणसंविग्राः सततं सर्वजन्तवः ।
दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ॥
गर्भसन्क्रमणे चापि गर्भाणापुपसर्पणे । तादृशीमेव लभते वेदनां मानवः पुनः ॥

14.18.20

भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः ॥

14.18.21

यथा पञ्चसु भूतेषु सम्भूतत्वं नियच्छति ।
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥

14.18.22

यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः । स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणः ।
शरीरं च जहात्येवं निरुच्छ्वासश्च दृश्यते ॥

14.18.23

स निरूष्मा निरुच्छ्वासो निःश्रीको गतचेतनः ।
कर्मणा सम्परित्यक्तो मृत इत्युच्यते नरः ॥

14.18.24

स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ।
तैरेव न विजानाति प्राणानाहारसम्भवान् ॥

14.18.25

तत्रैव कुरुते काये यः स जीवः सनातनः ॥

14.18.26

तथा यद्यद्भवेन्मुक्तं सन्निपाते क्वचित्क्वचित् ।
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥

14.18.27

तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् ।
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ॥

14.18.28

ततः सचेतनो जन्तुर्नाभिजानाति किञ्चन । तमसा संवृतज्ञानः संवृतेष्वेव मर्मसु ।
स जीवो निरदिष्ठानश्चाल्यते मातरिश्वना ॥

14.18.29

ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् ।
निष्क्रमन्कम्पयत्याशु तच्छरीरमचेतनम् ॥

14.18.30

स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः ।
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाऽप्युपपद्यते ॥

14.18.31

ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः ।
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥

14.18.32

यथान्धकारे खद्येतं दीप्यमानं ततस्ततः ।
चक्षुष्मन्तः प्रपश्यन्ति तथा च ज्ञानचक्षुषः ॥

14.18.33

पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा ।
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥

14.18.34

तस्य स्थानानि दृष्टानि विविधानीह शास्त्रतः ।
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥

14.18.35

ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः ।
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥

14.18.36

इहैवाशुभकर्माणः कर्मभिर्निरयं गताः । अवाग्गतिरियं कष्टा यत्र पच्यन्ति मानवाः ।
तस्मात्सुदुर्लभो मोक्षो रक्ष्यश्चात्मा ततो भृशम् ॥

14.18.37

ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः ।
कीर्त्यमानानि तानीह तत्त्वतः सन्निबोध मे ॥

14.18.38

तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुद्ध्येथाः कर्मनिश्चयम् ।
तारारूपाणि सर्वाणि यत्रैतच्चन्द्रमण्डलम् ॥

14.18.39

यत्र विभ्राजते लोके स्वभासा सूर्यमण्डलम् ।
स्थानान्येतानि जानीहि जनानां पुण्यकर्मणाम् ॥

14.18.40

कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः ।
तत्रापि च विशेषोस्ति दिवि नीचोच्चमध्यमः ॥

14.18.41

न च तत्रापि सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् ।
इत्येता गतयः सर्वाः पृथक्ते समुदीरिताः ॥

14.18.42

उपपत्तिं तु वक्ष्यामि गर्भस्याहमतः परम् ।
तथावत्तां निगदतः शृणुष्वावहितो द्विज ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc