भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.16

14.16.1

विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम ।
राष्ट्रे ते चत्रतुर्वीरौ वासुदेवधनञ्जयौ ॥
वैशम्पायन उवाच ।

14.16.2

विजिते पाण्डवै राजन्प्रशान्ते च विशाम्पतौ ।
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनञ्जयौ ॥

14.16.3

विजह्राते मुदा युक्तौ दिवि देवश्वराविव ।
तौ वनेषु विचित्रेषु पर्वतेषु ससानुषुः ॥

14.16.4

तीर्थेषु चैव पुण्येषु पल्वलेषु नदीषु च ।
चन्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने ॥

14.16.5

इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ ।
प्रविश्य तां सभां रम्यां विजह्राते च भारत ॥

14.16.6

तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव ।
कथायोगे कथायोगे कथयामासतुः सदा ॥

14.16.7

ऋषीणां देवतानां च वंशांस्तावाहतुः सदा ।
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ ॥

14.16.8

मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः ।
निश्चयज्ञः स पार्थाय कथयामास केशवः ॥

14.16.9

पुत्रशोकाभिसन्तप्तं ज्ञातीनां च सहस्रशः ।
कथाभिः शमयामास पार्तं शौरिर्जनार्दनः ॥

14.16.10

स तमाश्वास्य विधिवद्विधानज्ञो महातपाः ।
अपहृत्यात्मनो भारं विशश्रामेव सात्वतः ॥

14.16.11

ततः कथान्ते गोविन्दो गुडाखेशमुवाच ह ।
सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः ॥

14.16.12

विजितेयं धरा कृत्स्ना सव्यसाचिन्परन्तप ।
त्वद्बाहुबलामाश्रित्य राज्ञा धर्मसुतेन ह ॥

14.16.13

असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः ।
भीमसेनानुभावेन यमयोश्च नरोत्तम ॥

14.16.14

धर्मेणि राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् ।
धर्मेण निहतः सङ्ख्ये स च राजा सुयोधनः ॥

14.16.15

अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः ।
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ॥

14.16.16

प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः ।
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह ॥

14.16.17

रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव ।
किमु यत्र जनोऽयं वै पृथा चामित्रकर्मन ॥

14.16.18

यत्र धर्मसुतो राजा यत्र यत्र भीमो महाबलः ।
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम ॥

14.16.19

तथैव स्वर्गलोकेषु सभोद्देशेषु कौरव ।
रमणीयेषु पुष्णेषु सहितस्य त्वयाऽनध ॥

14.16.20

कालो महांस्त्वतीतो मे शूरसूनुमपश्यतः ।
बलदेवं च कौरव्यं तथाऽन्यान्वृष्णिपुङ्गवान् ॥

14.16.21

सोहं गन्तुमभीप्सामि पुरीं द्वारावतीं प्रति ।
रोचतां गमनं तुभ्यं ममापि पुरुषर्षभ ॥

14.16.22

उक्तो बहुविधं राजा तत्रतत्र युधिष्ठिरः ।
सह भीष्मेण यद्युक्तमस्माभिः शोकर्शितः ॥

14.16.23

शिष्टो युधिष्टिरोऽस्माभिः शास्ता सन्नपि पाण्डवः ।
तेन तत्तु वचः सम्यग्गृहीतं सुमहात्मना ॥

14.16.24

धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि ।
सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा ॥

14.16.25

तत्र गत्वा महात्मानं यदि ते रोचतेऽर्जुन ।
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् ॥

14.16.26

न हि तस्याप्रियं कुर्यां प्राणत्योगेऽप्युपस्थिते ।
कुतो गन्तुं महाबाहो पुरीं द्वारावतीं प्रति ॥

14.16.27

सर्वं त्विदमहं पार्त त्वत्प्रीतिहितकाम्यया ।
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन ॥

14.16.28

प्रयोजनं च निर्वृत्तमिह वासेन मेऽर्जुन ।
धार्तराष्ट्रो हतो राजा सबलः सपदानुगः ॥

14.16.29

पृथिवी च वशे तात धर्मपुत्रस्य धीमतः ।
स्थिता समुद्रवसना सशैलवनकानना ॥

14.16.30

चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव ।
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम् ॥

14.16.31

उपास्यमानो मुनिभिः सिद्धैश्चापि महात्मभिः ।
स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ ॥

14.16.32

तं मया सह गत्वाऽद्य राजानं कुरुवर्धनम् ।
आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति ॥

14.16.33

इदं शरीरं वसु यच्च मे गृहे निवेदितं पार्थ सदा युधिष्ठिरे ।
प्रियश्च मान्यश्च हि मे युधिष्ठिरः सदा कुरूणामधिपो महामतिः ॥

14.16.34

प्रयोजनं चापि निवासकारणे न विद्यते मे त्वदृते नृपात्मज ।
स्थिता हि पृथ्वी तव पार्थ शासने गुरोः सुवृत्तस्य युधिष्ठिरस्य च ॥

14.16.35

इतीदमुक्तः स तदा महात्मना जनार्दनेनामितविक्रमोऽर्जुनः ।
तथेति दुःखादिव वाक्यमैरय- ज्जनार्दनं सम्प्रतिपूज्य पार्थिव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc