भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.12

14.12.1

द्विवोधो जायते व्याधिः शारीरो मानसस्तथा ।
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपपद्यते ॥

14.12.2

शरीरे जायते व्याधिः शरीरः स निगद्यते ।
मानसे जायते व्याधिर्मानसस्तु निगद्यते ॥

14.12.3

शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः ।
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ॥

14.12.4

उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ॥

14.12.5

सत्वं रजस्तमश्चेति त्रय आत्मगुणाः स्मृताः ।
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ॥

14.12.6

तेषामन्यतमोत्सेके विधानमुपदिश्यते ।
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ॥

14.12.7

कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ।
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ॥

14.12.8

स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा । स्मर्तुमिच्छसि कौन्तेय दैवं हि बलवत्तरम् ।
अथवा ते स्वभावोऽयं येन पार्थावकृष्यसे ॥

14.12.9

दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ।
मिषतां पाण्डवेयानां न तस्य स्मर्तुमिच्छसि ॥

14.12.10

प्रव्राजनं च नगरादजिनैश्च विवासनम् ।
महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि ॥

14.12.11

जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः ।
सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि ॥

14.12.12

पुनरज्ञातचर्यायां कीचकेन पदा वधः ।
याज्ञसेन्यास्तथा पार्थ न तस्य स्मर्तुमिच्छसि ॥

14.12.13

यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिन्दम ।
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥

14.12.14

तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ ।
परमव्यक्तरूपस्य पारं युक्त्या स्वकर्मभिः ॥

14.12.15

यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः ।
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥

14.12.16

तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि ।
एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि ॥

14.12.17

एथां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् ।
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc