भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.11

14.11.1

इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा ।
वासुदेवो महातेजास्ततो वचनमाददे ॥

14.11.2

तं नृपं दीनमनसं निहतज्ञातिबान्धवम् ।
उपप्लुतमिवादित्यं सधूममिव पावकम् ॥

14.11.3

निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः ।
आश्वासनन्धर्मसुतं प्रवक्तुमुपचक्रमे ॥
वासुदेव उवाच ।

14.11.4

सर्वं जिह्मं मृत्युपदमजिह्मं ब्रह्मणः पदम् ।
एतावान्ज्ञानविषयः किं प्रलापः करिष्यति ॥

14.11.5

नैव तेऽनुष्ठितं कर्म नैव ते शत्रवो जिताः ।
कथं शत्रुं शरीरस्तमात्मनो नावबुध्यसे ॥

14.11.6

अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम् ।
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत ॥

14.11.7

वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप । दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते ।
धराहरणदुर्गन्धो विषयः समपद्यत ॥

14.11.8

शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते ।
वृत्रस्य सततः क्रुद्धो घोरं वज्रमवासृजत् ॥

14.11.9

स वध्यमानो वज्रेण सुभृशं भूरितेजसा ।
विवेश सहसा तोयं जग्राह विषयं ततः ॥

14.11.10

अप्सु वृत्रगृहीतासु रसे च विषये हृते ।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत् ॥

14.11.11

स वध्यमानो वज्रेण तस्मिन्नमिततेजसा ।
विवेश सहसा ज्योतिर्जग्राह विषयं ततः ॥

14.11.12

व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते ।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत् ॥

14.11.13

स वद्यमानो वज्रेण तस्मिन्नमिततेजसा ।
विवेश सहसा वायुं जग्राह विषयं ततः ॥

14.11.14

व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते ।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत् ॥

14.11.15

स वध्यगानो वज्रेण तस्मिन्नमिततेजसा ।
आकाशमभिदुद्राव जग्राह विषयं ततः ॥

14.11.16

आकाशे वृत्रभूतेऽथ शब्दे च विषये हृते ।
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ॥

14.11.17

स वध्यमानो वज्रेण तस्मिन्नमिततेजसा ।
विवेश सहसा शक्रं जग्राह विषयं ततः ॥

14.11.18

तस्य वृत्रगृहीतस्य मोहः समभवन्महान् ।
रथन्तरेण तं साम्ना वसिष्ठः प्रत्यबोधयत् ॥

14.11.19

ततो वृत्रं शरीरस्थं जघान भरतर्षभ ।
शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम् ॥

14.11.20

इदं धर्म्यं रहस्यं वै शक्रेणोक्तं महर्षिषु ।
ऋषिभिश्च मम प्रोक्तं तन्निबोध जनाधिप ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc