भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.117

14.117.1

कीदृशानां तु शूद्राणां नानुगृह्णासि चार्चनम् ।
उद्वेगस्तव कस्माद्धि तन्मे ब्रूहि सुरेश्वर ॥
भगवानुवाच ।

14.117.2

अव्रतेनाप्यभक्तेन स्पृष्टां शूद्रेण चार्चनाम् ।
तां वर्जयामि राजेन्द्र श्वपाकविहितामिव ॥

14.117.3

नन्वहं शङ्करश्चापि गावो विप्रास्तथैव च ।
अश्वत्थोऽमररूपं हि त्रयमेतद्युधिष्ठिर ॥

14.117.4

एतत्त्रयं हि मद्भक्तो नावमन्येत कर्हिचित् ।
अवमानितमेतत्तु दहत्यासप्तमं कुलम् ॥

14.117.5

अश्वत्थो ब्राह्मणा गावो मन्मयास्तारयन्ति हि ।
तस्मादेतत्प्रयत्नेन त्रयं पूजय पाण्डव ॥
युधिष्ठिर उवाच ।

14.117.6

ब्राह्मणेनैव देहेन कथं शूद्रत्वमाप्नुयात् ।
ब्रह्म वा नश्यति कथं वक्तुं देव त्वमर्हसि ॥
भगवानुवाच ।

14.117.7

कूपस्नानं तु यो विप्रः कुर्याद्द्वादशवार्षिकम् ।
स तेनैव शरीरेण शूद्रत्वं यात्यसंशयम् ॥

14.117.8

यस्तु राजाश्रयेणैव जीवेद्द्वादशवार्षिकम् ।
स शूद्रत्वं व्रजेद्विप्रो वेदानां पारगोपि सन् ॥

14.117.9

पत्तने नगरे वाऽपि यो द्वादशसमा वसेत् ।
स शूद्रत्वं व्रजेद्विप्रो नात्र कार्या विचारणा ॥

14.117.10

उत्पादयति यः पुत्रं शूद्रायां काममोहितः ।
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥

14.117.11

यः सोमलतिकां विप्रः केवलं भक्षयेद्वृथा ।
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥

14.117.12

मैथुनं कुरुते यस्तु जिह्वायां ब्राह्मणो नृप ।
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥

14.117.13

विप्रत्वं दुर्लभं प्राप्य दुर्मर्गैरेवमादिभिः ।
विनाशयन्ति ये तत्तु ताञ्शोचामि युधिष्ठिर ॥

14.117.14

तस्मात्सर्वप्रत्नेन मत्प्रियो यो युधिष्ठिर ।
जातिभ्रंशकरं कर्म न कुर्यादीदृशं द्विजः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc