भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.115

14.115.1

केशवेनैवमाख्याते धर्मपुत्रः पुनःपुनः ।
पप्रच्छ दानकालस्य विशेषं च विधिं नृप ॥
युधिष्ठिर उवाच ।

14.115.2

देव किं फलमाख्यातं विषुवेष्मवरेश्वर ।
सूर्येन्दूपप्लवे चैव वस्तुमर्हति तत्फलम् ॥
भगवानुवाच ।

14.115.3

शृणुष्व राजन्विषुवे सोमार्कग्रहणेषु च ।
व्यतीपातेऽयने चैव दानं स्यादक्षयं फलम् ॥

14.115.4

राजन्नयनयोर्मध्ये विषुवं सम्प्रचक्षते ।
समे रात्रिदिने तत्र सन्ध्यायां विषुवे नृप ॥

14.115.5

ब्रह्माऽहं शङ्करश्चापि तिष्ठामः सहिताः सकृत् ।
क्रियाकरणकार्याणामेकीभावत्वकारणात् ॥

14.115.6

अस्माकमेकीभूतानां निष्कलं परमं पदम् ।
तन्मुहूर्तं परं पुण्यं राजन्विषुवसञ्ज्ञितम् ॥

14.115.7

तदेवाद्यक्षरं ब्रह्म परं ब्रह्मेति कीर्तितम् ।
तस्मिन्मुहूर्ते सर्वे तु चिन्तयन्ति परं पदम् ॥

14.115.8

देवाश्च वसवो रुद्राः पितरश्चाश्विनौ तथा ।
साध्याश्च विश्वे गन्धर्वाः सिद्धा ब्रह्मर्षयस्तथा ॥

14.115.9

सोमादयो ग्रहाश्चैव सरितः सागरास्तथा ।
मरुतोत्सरसो नागा यक्षराक्षसगुह्यकाः ॥

14.115.10

एते चान्ये च राजेन्द्र विषुवे संयतेन्द्रियाः ।
सोपवासाः प्रयत्नेन भवन्ति ध्यानतत्पराः ॥

14.115.11

अन्नं गावस्तिलान्भूमिं कन्यादानं तथैव च । गृहमायतनं धान्यं वाहनं शयनं तथा ।

14.115.12

यच्चान्यच्च मया प्रोक्तं तत्प्रयच्छ युधिष्ठिर ।
दीयते विषुवेष्वेवं श्रोत्रियेभ्यो विशेषतः ॥

14.115.13

तस्य दानस्य कौन्तेय क्षयं नैवोपपद्यते ।
वर्धतेऽहरहः पुण्यं तद्दानं कोटिसम्मितम् ॥

14.115.14

विषुवे स्नपनं यस्तु मम कुर्याद्धरस्य वा ।
अर्चनां च यतान्यायं तस्य पुण्यफलं शृणु ॥

14.115.15

दशजन्मकृतं पापं तस्य सद्यो विनश्यति ।
दशानामश्वमेधानामिष्टानां लभते फलम् ॥

14.115.16

विमानं दिव्यमारूढः कामरूपी यथासुखम् ।
स याति मामकं लोकं रुद्रलोकमथापि वा ॥

14.115.17

तत्रस्थैर्देवगन्धर्वेर्गीयमानो यथासुखम् ।
दिव्यवर्षसहस्राणि कोटिमेकं तु मोदते ॥

14.115.18

ततश्चापि च्युतः कालादिह लोके द्विजोत्तमः ।
चतुर्णामपि वेदानां पारगो ब्रह्मिविद्भवेत् ॥

14.115.19

चन्द्रसूर्यग्रहे व्योम्नि मम वा शङ्करस्य वा ।
गायत्रीं मामिकां वाऽपि जपेद्यः शङ्करस्य वा ॥

14.115.20

शङ्खर्तूर्यस्वनैश्चैव कांस्यघण्टास्वनैरपि ।
कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु ॥

14.115.21

गान्धर्वैर्होमजप्यैश्च जप्तैरुत्कृष्टनामभिः ।
दुर्बलोपि भवेद्राहुः सोमश्च बलवान्भवेत् ॥

14.115.22

सूर्येन्दूपप्लवे चैव श्रोत्रियेभ्यः प्रदीयते ।
तत्सहस्रगुणं भूत्वा दान्तारमुपतिष्ठति ॥

14.115.23

महापातकयुक्तोपि यद्यपि स्यान्नरोत्तम ।
निष्पापस्तत्क्षणादेव तेन दानेन जायते ॥

14.115.24

चन्द्रसूर्यप्रकाशेन विमानेन विराजता ।
याति सोमपुरं रम्यं सेव्यमानोप्सरोगणैः ॥

14.115.25

यावदृक्षाणि तिष्ठन्ति गगने शशिना सह ।
तावत्कालं स रजेन्द्र सोमलोके महीयते ॥

14.115.26

ततश्चापि च्युतः कालादिह लोके युधिष्ठिर ।
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत् ॥
युधिष्ठिर उवाच ।

14.115.27

भगवंस्तव गायत्री जप्यते च कथं विभो ।
किं वा तस्य फळं देव ममाचक्ष्व सुरेश्वर ॥
भगवानुवाच ।

14.115.28

द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा ।
अयने श्रवणे चैव व्यतीपाते तथैव च ॥

14.115.29

अश्वत्तदर्शने चैव तथा मद्दर्शनेऽपि च । जप्या तु मम गायत्री चाथवाऽष्टाक्षरं नृप ।
आर्जितं दुष्कृतं तस्य नाशयेन्नात्र संशयः ॥
युधिष्ठिर उवाच ।

14.115.30

अश्वत्थदर्शनं चैव किं त्वद्दर्शनसम्मितम् ।
एतत्कथय मे देव परं कौतूहलं हि मे ॥
भगवानुवाच ।

14.115.31

अहमश्वत्थरूपेण पालयामि जगत्त्रयम् ।
अस्वत्थो न स्थितो यत्र नाहं तत्र प्रतिष्ठितः ॥

14.115.32

यत्राहं संस्थितो राजन्नस्वत्थश्चापि तिष्ठति ।
यस्त्वेनमर्चयेद्भक्त्या स मां साक्षात्समर्चति ॥

14.115.33

यस्त्वेनं प्रहरेत्कोपान्मामेव प्रहरेत्तु सः ।
तस्मात्प्रदक्षिणं कुर्यान्न चिन्द्यादेनमन्वहम् ॥

14.115.34

व्रतस्य पारणं तीर्थमार्जवं तीर्थमुच्यते ।
देवशुश्रूषणं तीर्तचं गुरुशुश्रूषणं तथा ॥

14.115.35

पितृशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा ।
दाराणां तोषणं तीर्तं गार्हस्थ्यं तीर्थमुच्यते ॥

14.115.36

आतिथेयः परं तीर्थं ब्रह्मतीर्थं सनातनम् ।
ब्रह्मिचर्यं परं तीर्तं त्रेताग्निस्तीर्थमुच्यते ॥

14.115.37

मूलं धर्मं तु विज्ञाय मनस्तत्रावधार्यताम् ॥
गच्छ तीर्थानि कौन्तेय धर्मो धर्मेण वर्धते ॥

14.115.38

द्विविधं तीर्थमित्याहुः स्थावरं जङ्गमं तथा ।
स्तावराज्जङ्गमं तीर्थं ततो ज्ञानपरिग्रहः ॥

14.115.39

कर्म्णाऽपि विशुद्धस्य पुरुषस्येह भारत ।
हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते ॥

14.115.40

गुरुतीर्थं परं ज्ञानमतस्तीर्तं न विद्यते ।
ज्ञानतीर्तं परं तीर्तं ब्रह्मतीर्तं सनातनम् ॥

14.115.41

क्षमा तु परमं तीर्तं सर्वतीर्थेषु पाण्डव ।
क्षमावतामयं लोकः परश्चैव क्षमावताम् ॥

14.115.42

मानितोऽमानितो वाऽपि पूजितोऽपूजितोपि वा ।
आक्रुष्टस्तर्जितो वाऽपि क्षमावांस्तीर्थमुच्यते ॥

14.115.43

क्षमा यशः क्षमा दानं क्षमा यज्ञः क्षमा दमः ।
क्षमाऽहिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः ॥

14.115.44

क्षमा दया क्षमा यज्ञः क्षमयैव धृतं जगत् ।
क्षमावान्ब्राह्मणो देवः क्षमावान्ब्राह्मणो वरः ॥

14.115.45

क्षमावानाप्नुयात्स्वर्गं क्षमावानाप्नुयाद्यशः ।
क्षमावान्प्राप्नुयान्मोक्षं तस्मात्साद्युः स उच्यते ॥

14.115.46

आत्मा नदी भारतपुण्यतीर्थ- मात्मा तीर्थं सर्वतीर्थप्रधानम् ।
आत्मा यज्ञः सततं मन्यते वै स्वर्गो मोक्षः सर्वमात्मन्यधीनम् ॥

14.115.47

आचारनैर्मल्यमुपागतेन सत्यक्षमानिस्तुलशीतलेन ।
ज्ञानाम्बुना स्नाति हि नित्यमेवं किं तस्य भूयः सलिलेन तीर्थम् ॥
युधिष्ठिर उवाच ।

14.115.48

भगवन्सर्वपापघ्नं प्रायश्चित्तमदुष्करम् ।
त्वद्भक्तस्य सुरश्रेष्ठ मम त्वं वक्तुमर्हसि ॥
भगवानुवाच ।

14.115.49

रहलस्यमिदमत्यर्थमश्राव्यं पापकर्मणाम् ।
अधार्मिकाणामश्राव्यं प्रायश्चित्तं ब्रवीमि ते ॥

14.115.50

पावनं ब्राह्ममं दृष्ट्वा मद्गतेनान्तरात्मना ।
नमो ब्रह्मण्यदेवायेत्यभिवादनमाचरेत् ॥

14.115.51

प्रदक्षिणं च यः कुर्यात्पुनरष्टाक्षरेण तु ।
तेन तुष्टेन विप्रेणि तत्पापं क्षपयाम्यहम् ॥

14.115.52

पोत्रकृष्टां वराहस्य मृत्तिकां शिरसा वहन् ।
प्राणायामशतं कृत्वा नरः पापैः प्रमुच्यते ॥

14.115.53

दक्षिणावर्तशङ्खाद्वा कपिलाशृङ्गतोपि वा ।
प्राक्स्रोतसं नदीं गत्वा ममायतनसन्निधौ ॥

14.115.54

सलिलेन तु यः स्नायात्सकृदेव रविग्रहे ।
तस्य यत्सञ्चितं पापं तत्क्षणादेव नश्यति ॥

14.115.55

मस्तकान्निस्सृतैस्तोयैः कपिलाया युधिष्ठिर । गोमूत्रेणापि यः स्नायाद्रोहिण्यां मम वा दिने ।
विप्रपादच्युतैर्वाऽपि तोयैः पापं प्रणश्यति ॥

14.115.56

नमस्येद्यस्तु मद्भक्त्या शिंशुमारं प्रजापतिम् ।
चतुर्दशाङ्गसंयुक्तं तस्य पापं प्रणस्यति ॥

14.115.57

ततश्चतुर्दशाङ्गानि शृणु तस्य युधिष्ठिर ।
शिरो धर्मो हनुर्ब्रह्मा वृषावुत्तरदक्षिणौ ॥

14.115.58

हृदयं तु भवेद्विष्णुरंसौ स्यातां तथाऽश्विनौ ।
अत्रिर्मध्यं भवेद्राजँल्लिङ्गं संवत्सरं भवेत् ॥

14.115.59

मित्रावरुणकौ पादावूरुद्वन्द्वं हुताशनः ।
ततः पश्चाद्भवेदिन्द्रस्ततः पश्चात्प्रजापतिः ॥

14.115.60

अभयं च ततः पश्चात्स एव ध्रुवसञ्ज्ञिकः ।
एतान्यङ्गानि सर्वाणि शिंशुमारप्रजापतेः ॥

14.115.61

विबेत्तु पञ्चगव्यं यः पौर्णमास्यामुपोष्य तु ।
तस्य नश्यति यत्पापं तत्पापं पूर्वसञ्चितम् ॥
तथैव ब्रह्मकूर्च तु समन्त्रं तु पृथक्पृथक् ।

14.115.62

मासिमासि विबेद्यस्तु तस्य पापं प्रणश्यति ॥ पात्रं च ब्रह्मकूर्चं च शृणु तत्र च भारत ।

14.115.63

पालाशं पद्मपत्रं च ताम्रं वाऽथ हिरण्ययम् ।
सादयित्वा तु गृह्णीयात्तत्तु पात्रमुदाहृतम् ॥

14.115.64

गायत्र्या गृह्णते मूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राण्वेति वै दधि ॥

14.115.65

तेजोसिशुक्लमित्याज्यं देवस्यत्वेति कुशोदकम् ।
आपोहिष्ठेत्यृचा गृह्यि यवचूर्णं यथाविधि ॥

14.115.66

ब्रह्मणे च यथा हुत्वा समिद्धे च हुताशने ।
आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु ॥

14.115.67

उद्धृत्य प्रणवेनैव पिबेतु प्रणवेन तु ।
महताऽपि स पापेन त्वचेवाहिर्विमुच्यते ॥

14.115.68

भद्रं न हति यः पादं पठन्नृक्सहितां तदा ।
अन्तर्जले वाऽभ्यादित्ये तस्य पापं प्रणश्यति ॥

14.115.69

मम सूक्तं जपेद्यस्तु नित्यं मद्गतमानसः ।
न पापेन स लिप्येत पद्मपत्रमिवाम्भसा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc