भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.107

14.107.1

इदं मे तत्वतो देव वक्तुमर्हस्यशेषतः ।
हिंसामकृत्वा यो मर्त्यो ब्रह्महत्यामवाप्नुयात् ॥
भगवानुवाच ।

14.107.2

ब्राह्मणं स्वयमाहूय भिक्षार्थं वृत्तिकर्शितम् ।
ब्रूयान्नास्तीति यः पश्चात्तमाहुर्ब्रह्मघातकम् ॥

14.107.3

मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत ।
वृत्तिं हरति दुर्बुद्धैस्तमाहुर्ब्रह्मघातकम् ॥

14.107.4

आश्रमे वाऽलये वाऽपि ग्रामे वा नगरेऽपि वा ।
अग्निं यः प्रक्षिपेत्क्रुद्धस्तमाहुर्ब्रह्मघातकम् ॥

14.107.5

गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप ।
उत्पादयति यो विघ्नं तमाहुर्ब्रह्मघातकम् ॥

14.107.6

यः प्रवृत्तां श्रुतिं सम्यक्छास्त्रं वा मुनिभिः कृतम् ।
दूषयत्यनभिज्ञाय तमाहुर्ब्रह्मघातकम् ॥

14.107.7

चक्षुषा वाऽपि हीनस्य पङ्गोर्वाऽपि जडस्य वा ।
हरेद्वै यस्तु सर्वस्वं तमाहुर्ब्रह्मघातकम् ॥

14.107.8

गुरुं त्वन्कृत्यं हुन्कृत्य अतिक्रम्य च शासनम् ।
वर्तते यस्तु मूढात्मा तमाहुर्ब्रह्मघातकम् ॥

14.107.9

क्रोधाद्वा यदि वा द्वेषादाक्रुष्टस्तर्जितोपि वा ।
ऋतौ स्त्रियं वा नोपेयात्तमाहुर्ब्रह्मघातकम् ॥

14.107.10

यावत्सारो भवेद्दीनस्तन्नाशे यस्य दुःस्थितिः ।
तत्सर्वस्वं हरेद्यो वै तमाहुर्ब्रह्मघातकम् ॥
युधिष्ठिर उवाच ।

14.107.11

सप्वेषामपि दानानां यत्तु दानं विशिष्यते ।
अभोज्यान्नाश्च ये विप्रास्तान्ब्रवीहि सुरोत्तम ॥
भगवानुवाच ।

14.107.12

अन्नमेव प्रशंसन्ति देवा ब्रह्मपुरस्सराः ।
अन्नेन सदृशं दानं न भूतं न भविष्यति ॥

14.107.13

अन्नमूर्जस्करं लोके ह्यन्नात्प्राणाः प्रतिष्ठिताः ।
अबोज्यान्नान्मया राजन्वक्ष्यमाणान्निबोध मे ॥

14.107.14

दीक्षितस्य कदर्यस्य क्रुद्धस्य निकृतस्य च ।
अभिशप्तस्य षण्डस्य पाकभेदकरस्य च ॥

14.107.15

चिकित्सकस्य दूतस्य तथा चोच्छिष्टभोजिनः ।
उग्रान्नं सूतकान्नं च शूद्रोच्छेषणमेव च ॥

14.107.16

द्विषदन्नं न भोक्तव्यं पतितान्नं च यच्छ्रुतम् ।
तथा च पिशुनस्यान्नं यज्ञविक्रयिणस्तथा ॥

14.107.17

शैलूषं तन्तुवायान्नं कृतघ्नस्यान्नमेव च ।
अम्बष्ठकनिषादानां रङ्गावतरकस्य च ॥

14.107.18

सुवर्णकर्तुर्वैणस्यि शस्त्रविक्रयिणस्तथा ।
सूताना शौण्डिकानां च वैद्यस्य रजकस्य च ॥

14.107.19

स्त्रीजितस्य नृशंसस्य तथा माहिषिकस्य च ।
अनिर्दशानां प्रेतानां गणिकानां तथैव च ॥

14.107.20

बन्दिनो द्यूतकर्तुश्च तथा द्यूतविदामपि ।
परिवित्तस्य यच्चान्नं परिवेत्तुस्तथैव च ॥

14.107.21

यश्चाग्रदिधिषुर्विप्रो दिधिषूपपिस्तथा ।
तयोरप्युभयोरन्नं राज्ञां चापि विवर्जयेत् ॥

14.107.22

राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।
आयुः सुवर्णकारान्नं यशश्चार्मावकृन्तिनः ॥

14.107.23

गणान्नं गणिकान्नं च लोकेभ्यः परिकीर्तितम् ।
पूयं चिकित्सकस्यान्नं शुक्लं तु वृषलीपतेः ॥

14.107.24

विष्ठा वार्धुषिकस्यान्नं तस्मात्तत्परिवर्जयेत् ।
तेषां त्वगस्थिरोमाणि भुङ्क्ते योऽन्नं तु भक्षयेत् ॥

14.107.25

अमात्यान्नमथैतेषां भुक्त्वा तु त्रियहं क्षिपेत् ।
मत्या भुक्त्वा सकृद्वाऽपि प्राजापत्यं चरेद्द्विजः ॥

14.107.26

दानानां च फलं यद्वै शृणु पाण्डव तत्वतः ।
जलदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः ॥

14.107.27

तिलदश्च प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ।
भूमदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः ॥

14.107.28

गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ।
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ॥

14.107.29

अनडुद्दः श्रियं जुष्टां गोदो गोलोकमश्नुते ।
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ॥

14.107.30

धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसाम्यताम् ।
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ॥

14.107.31

हिरण्यभूगवाश्वाजवस्त्रशय्यासनादिषु । योर्चितः प्रतिगृह्णाति दद्यादुचितमेव च ।
तावुभौ गच्छतः स्वर्गं नरकं च विपर्यये ॥

14.107.32

अनृतं न वदेद्विद्वांस्तपस्तप्त्वा न विस्मयेत् ।
नार्तोप्यभिभवेद्विप्रान्न दत्त्वा परिकीर्तयेत् ॥

14.107.33

यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
आयुर्विप्रावमानेन दानं तु परिकीर्तनात् ॥

14.107.34

एकः प्रजायते जन्तुरेक एव प्रमीयते ।
अकोऽनुभुङ्क्ते सुकृतमेकश्चाप्नोति दुष्कृतम् ॥

14.107.35

मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ ।
विमुखा बान्धवा यान्ति धर्मस्तमनुवर्तते ॥

14.107.36

अनागतानि कार्याणि कर्तुं गणयते मनः ।
शरीरकं समुद्दिश्य स्मयते नूनमन्तकः ॥

14.107.37

तस्माद्धर्मसहासस्तु धर्मं सञ्चिनुयात्सदा ।
धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥

14.107.38

येषां तटाकानि बहूदकानि सभाश्च कूपाश्च शुभाः प्रपाश्च ।
अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्विषया भवन्ति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc