भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.92

13.92.1

मुह्यामीति निशम्याद्य चिन्तयानः पुनःपुनः ।
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् ॥

13.92.2

प्राप्य राज्यानि शतशो महीं जित्वाऽपि भारत ।
कोटिशः पुरुषान्हत्वा परितप्ये पितामह ॥

13.92.3

का नु तासां वरस्त्रीणामवस्थाऽद्य भविष्यति ।
या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा ॥

13.92.4

वयं हि तान्कुरुन्हत्वा ज्ञातींश्च सुहृदोऽपि च ।
अवाक्शीर्षाः पतिष्यामो नरके नात्रं संशयः ॥

13.92.5

शरीरं योक्तुमिच्छामि तपसोग्रेण भारत ।
उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशाम्पते ॥
वैशम्पायन उवाच ।

13.92.6

युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः ।
परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत ॥

13.92.7

रहस्यमद्भुतं चैव शृणु वक्ष्यामि भारत ।
या गतिः प्राप्यते वेन प्रेत्यभावे विशाम्पते ॥

13.92.8

तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ।
आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो ॥

13.92.9

ज्ञानं विज्ञानमारोग्यं रूपं सम्पत्तथैव च ।
सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ॥

13.92.10

धं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति ।
उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ॥

13.92.11

अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले ।
फलमूलाशनाद्राज्यं स्वर्गः पर्णशनाद्भवेत् ॥

13.92.12

पयोभक्षो दिवं याति दानेन द्रविणाधिकः ।
गुरुशुश्रूषया विद्या नित्यश्राद्धेन सन्ततिः ॥

13.92.13

गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् ।
स्त्रियस्त्रिषवण्सनानाद्वायुं पीत्वा क्रतुं लभेत् ॥

13.92.14

नित्यस्नायी दीर्घजीवी सन्ध्ये तु द्वे जपन्द्विजः ।
मन्त्रं साधयतो राजन्नाकपृष्ठमनाशने ॥

13.92.15

स्थण्डिलेषु शयानानां गृहाणि शयनानि च ।
चीरवल्कलवासोभिर्वासांस्याभाणानि च ॥

13.92.16

शय्यासनानि यानानि योगयुक्ते तपोधने ।
अग्निप्रवेशे नियतं ब्रह्मलोके महीयते ॥

13.92.17

रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति ।
आमिषप्रतिसंहारात्प्रजा ह्यायुष्मती भवेत् ॥

13.92.18

उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् ।
सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ॥

13.92.19

कीर्तिर्भवति दानेन तथाऽरोग्यमहिंसया ।
द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम् ॥

13.92.20

पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती ।
अन्नस्य तु प्रदानेन तृप्यन्ते कामभोगतः ॥

13.92.21

सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते ।
देवशुश्रूषया राज्यं दिव्यं रूपं निगच्छति ॥

13.92.22

दीपालोकप्रदानेन चक्षुष्मान्बुद्धिमान्भवेत् ।
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ॥

13.92.23

गन्धमाल्यप्रदानेन कीर्तिर्भवति पुष्कला ।
केशश्मश्रू धारंयतामग्र्या भवति सन्ततिः ॥

13.92.24

उपवासं च दीक्षां च अभिषेकं च पार्थिव ।
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥

13.92.25

दासीदासमलङ्कारान्क्षेत्राणि च गृहाणि च ।
ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ॥

13.92.26

क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत ।
लभते च शिवं ज्ञानं फलपुष्पप्रदो नरः ॥

13.92.27

सुवर्णशृङ्गैस्तु विराजितानां गवां सहस्रस्य नरः प्रदानात् ।
प्राप्नोति पुण्यं दिवि देवलोक- मित्येवमाहुर्दिवि वेदसङ्घाः ॥

13.92.28

प्रयच्छते यः कपिलां सवत्सां कांस्योपदोहां कनकाग्रशृङ्गीम् ।
तैस्तैर्गुणैः कामदुघाऽस्य भूत्वा नरं प्रदातारमुपैति सा गौः ॥

13.92.29

यावन्ति रोमाणि भवन्ति धेन्वा- स्तावत्फलं प्राप्य स गोप्रदानात् ।
पुत्रांश्च पौत्रांश्च कुलं च सर्व- मासप्तमं तारयते परत्र ॥

13.92.30

सदक्षिणां काञ्चनचारुशृङ्गीं कांस्योपदोहां द्रविणोत्तरीयाम् ।
धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति ॥

13.92.31

स्वकर्मभिर्मानवं सन्निरुद्धं तीव्रान्धकारे नरके पतन्तम् ।
मंहार्णवे नौरिव वायुयुक्ता दानं गवां तारयते परत्र ॥

13.92.32

यो ब्रह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे ।
ददाति चान्नं विधिवच्च यश्च स लोकमाप्नोति पुरन्दरस्य ॥

13.92.33

नैवेशिकं सर्वगुणोपपन्नं ददाति वै यस्तु नरो द्विजाय ।
स्वाध्यायचारित्र्यगुणान्विताय तस्यापि लोकाः कुरुषूत्तरेषु ॥

13.92.34

धुर्यप्रदानेन गवां तथा वै लोकानवाप्नोति नरो वसूनाम् ।
स्वर्गाय चाहुस्तु हिरण्यदानं ततो विशिष्टं कनकप्रदानम् ॥

13.92.35

छत्रप्रदानेन गृहं वरिष्ठं यानं तथोपानहसम्प्रदाने ।
वस्रप्रदानेन फलं सुरूपं गन्धप्रदानात्सुरभिर्नरः स्यात् ॥

13.92.36

पुष्पोपगं वाऽथ फलोपगं वा यः पादपं स्पर्शयते द्विजाय ।
सश्रीकमृद्धं बहुरत्नपूर्णं लभत्ययत्नोपगतं गृहं वै ॥

13.92.37

भक्ष्यान्नपानीयरसप्रदाता सर्वान्समाप्नोति रसान्प्रकामम् ।
प्रतिश्रयाच्छानसम्प्रदाता प्राप्नोति तान्येव न संशयोऽत्र ॥

13.92.38

स्रग्धूपगन्धाननुलेपनानि स्नानानि माल्यानि च मानवो यः ।
दद्याद्द्विजेभ्यः स भवेदरोग- स्तथाऽभिरूपश्च नरेन्द्रलोके ॥

13.92.39

बीजैरशून्यं शयनैरुपेतं दद्याद्गृहं यः पुरुषो द्विजाय ।
पुण्याभिरामं बहुरत्नपूर्णं लभत्यधिष्ठानवरं स राजन् ॥

13.92.40

सुगन्धचित्रास्तरणोपधानं दद्यान्नरो यः शयनं द्विजाय ।
रूपान्वितां पक्षवतीं मनोज्ञां भार्यामयत्नोपगतां लभेत्सः ॥

13.92.41

पितामहस्यानवरो वीरशायी भवेन्नरः ।
नाधिकं विद्यते यस्मादित्याहुः परमर्षयः ॥
वैशम्पायन उवाच ।

13.92.42

तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः ।
नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया ॥

13.92.43

ततो युधिष्ठिरः प्राह पाण्डवान्पुरुषर्षभ ।
पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ॥

13.92.44

ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी ।
युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc