भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.89

13.89.1

ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः ।
कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति ॥

13.89.2

ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् । मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् ।
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा ॥

13.89.3

पर्वतान्रूप्यसानूंश्च नलिनीश्च सपङ्कजाः । चित्रशालाश्च विविधास्तोरणानि च भारत ।
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् ॥

13.89.4

सहकारान्प्रफुल्लांश्च केतकोद्दालकान्वरान् ।
अशोकान्सहकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् ॥

13.89.5

चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि ।
पुष्पितान्कर्णिकारांश्च तत्रतत्र ददर्श ह ॥

13.89.6

श्यामान्वारणपुष्पांश्च तथाऽष्टपदिका लताः ।
तत्रतत्र परिक्लृप्ता ददर्श स महीपतिः ॥

13.89.7

रम्यान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा ।
विमानप्रतिमांश्चापि प्रासादाञ्शैलसन्निभान् ॥

13.89.8

शीतलानि च तोयानि क्वचिदुष्णानि भारत ।
आसनानि विचित्राणि शयनप्रवराणि च ॥

13.89.9

पर्यङ्कान्रत्नसौवर्णान्परार्ध्यास्तरणास्तृतान् ।
भक्ष्यं भोज्यमनन्तं च तत्रतत्रोपकल्पितम् ॥

13.89.10

वाणीवादाञ्छुकांश्चैव शारिका भृङ्गराजकान् ।
कोकिलाञ्छतपत्रांश्च सकोयष्टिककुक्कुभान् ॥

13.89.11

मयूरान्कुक्कुटांश्चापि दात्यूहाञ्जीवजीवकान् ।
चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् ॥

13.89.12

समन्ततः प्रणदतो ददर्श सुमनोहरान् ।
क्वचिदप्सरसां सङ्घान्गन्धर्वाणां च पार्थिव ॥

13.89.13

कान्ताभिरपरांस्तत्र परिष्वक्रान्ददर्श ह ।
न ददर्श च तान्भूयो ददर्श च पुनर्नृपः ॥

13.89.14

गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम् ।
हंसानसुमधुरांश्चापि तत्र शुश्राव पार्थिवः ॥

13.89.15

तं दृष्ट्वाऽत्यद्भुतं राजा मनसाऽचिन्तयत्तदा ।
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु ॥

13.89.16

अहो सह शरीरेण प्राप्तोस्मि परमां गतिम् ।
उत्तरान्वा कुरून्पुण्यानथवाऽप्यमरावतीम् ॥

13.89.17

किञ्चेदं महदाश्चर्यं सम्पश्यामीत्यचिन्तयत् ।
एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम् ॥

13.89.18

तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले ।
महार्हे शयने दिव्ये शयानं भृगुनन्दनम् ॥

13.89.19

तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया ।
अन्तर्हितस्ततो भूयश्च्यवनः शयनं व तत् ॥

13.89.20

ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् ।
कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् ॥

13.89.21

एवं योगबलाद्विप्रो मोहयामास पार्थिवम् ॥

13.89.22

क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः ।
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत ॥

13.89.23

निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप ।
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा ॥

13.89.24

ततः स राजा कुशिकः सभार्यस्तेन कर्मणा ।
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम् ॥

13.89.25

ततः प्रोवाच कुशिको भार्या हर्षसमन्वितः । पश्य भद्रे यथाभावाश्चित्रा दृष्टाः सुदुर्लभाः ।
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् ॥

13.89.26

तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः ।
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते ॥

13.89.27

तपसा हि सुतप्तेनि क्रीडत्येष तपोधनः ।
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः ॥

13.89.28

इच्छयैष तपोवीर्यादन्याँल्लोकान्सृजेदपि ।
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणा ॥

13.89.29

उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते ।
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः ॥

13.89.30

ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् ।
इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै ॥

13.89.31

सम्प्रेक्ष्योवाच नृपतिं क्षिप्रमागम्यतामिति ।
इत्युक्तः सहभार्यस्तु सोभ्यगच्छन्महामुनिम् ॥

13.89.32

शिरसा वन्दनीयं तमवन्दत च पार्थिवः । तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् ।
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभः ॥

13.89.33

ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम् ।
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत ॥

13.89.34

राजन्सम्यग्जितानीह पञ्चपञ्च स्वयं त्वया ।
मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोसि तेन वै ॥

13.89.35

सम्यगाराधितः पुत्र त्वयाऽहं वदतांवर ।
न हि ते वृजितं किञ्चित्सुसूक्ष्ममपि दृश्यते ॥

13.89.36

अनुजानीहि मां राजन्गमिष्यामि यथागतम् ।
प्रीतोस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् ॥
कुशिक उवाच ।

13.89.37

अग्निमध्ये गतेनेव भगवन्सन्निधौ मया ।
वर्तितं भृगुशार्दूल यन्न दग्धोस्मि तद्बहु ॥

13.89.38

एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन ।
यत्प्रीतोसि ममाचारैः कुलं त्रातं च मेऽनघ ॥

13.89.39

एथ मेऽन्द्रग्रहो विप्र जीविते च प्रयोजनम् ।
एतद्राज्यफलं चैव तपसश्च फलं मम ॥

13.89.40

यदि त्वं प्रीतिमान्विप्र मयि वै भृगुनन्दन ।
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc