भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.87

13.87.1

संशयो मे महाप्राज्ञ सुमहान्सागरोपम ।
तं मे शृणु महाबाहो श्रुत्वा व्याख्यातुमर्हसि ॥

13.87.2

कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो ।
रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि ॥

13.87.3

ब्राह्मे बले सुपूर्णानामेतेषां च्यवनादिनाम् । कथमेष समुत्पन्नो रामः सत्यपराक्रमः ।
कथं ब्रह्मर्षिवंशोऽयं क्षत्रधर्मा व्यजायत ॥

13.87.4

तदस्य सम्भवं राजन्निखिलेनानुकीर्तय ।
कौशिकश्च कथं वंशात्क्षात्राद्वै ब्राह्मणोऽभवत् ॥

13.87.5

अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः ।
रामस्य च नरव्याघ्र विश्वामित्रस्य चैव हि ॥

13.87.6

कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत् ।
एष दोषो महाप्राज्ञ तत्त्वं व्याख्यातुमर्हसि ॥
भीष्म उवाच ।

13.87.7

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
च्यवनस्य च संवादं कुशिकस्य च भारत ॥

13.87.8

एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा ।
आगामिनं महाबुद्धिः स्ववंशे मुनिसत्तमः ॥

13.87.9

निश्चित्य मनसा सर्वं गुणदोषबलाबलम् ।
दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः ॥

13.87.10

च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत् ।
वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ ॥
कुशिक उवाच ।

13.87.11

भगवन्सहधर्मोऽयं पण्डितैरिह चर्यते ।
प्रदानकाले कन्यानामुच्यते च सदा बुधैः ॥

13.87.12

यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन ।
तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि ॥
भीष्म उवाच ।

13.87.13

अथासनमुपादाय च्यवनस्य महामुनेः ।
कुशिको भार्यया सार्धमाजगाम यतो मुनिः ॥

13.87.14

प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् ।
कारयामास सर्वाश्च क्रियास्तस्य महात्मनः ॥

13.87.15

ततः स राजा च्यवनं मधुपर्कं यथाविधि ।
ग्राहयामास चाव्यग्रो महात्मा नियतव्रतः ॥

13.87.16

सत्कृत्य तं तथा विप्रमिदं पुनरथाब्रवीत् ।
भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे ॥

13.87.17

यदि राज्यं यदि धनं यदि गाः संशितव्रत ।
यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते ॥

13.87.18

इदं गृहमिदं राज्यमिदं धर्मासनं च ते ।
राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवान्स्त्रिया ॥

13.87.19

एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा ।
कुशिकं प्रत्युवाचेदं मुदा परमया युतः ॥

13.87.20

न राज्यं कामये राजन्न धनं न च योषितः ।
न च गा न च वै देशान्न यज्ञं श्रूयतामिदम् ॥

13.87.21

नियमं किञ्चिदारप्स्ये युवयोर्यदि रोचते ।
परिचर्योस्मि यत्ताभ्यां युवाभ्यामविशङ्कया ॥

13.87.22

एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः ।
प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत ॥

13.87.23

अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम् ।
गृहोद्देशं ततस्तस्य दर्शनीयमदर्शयत् ॥

13.87.24

इयं शय्या भगवतो यथाकाममिहोष्यताम् ।
प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन ॥

13.87.25

अथ सूर्योतिचक्राम तेषां संवदतां तथा ।
अथर्षिश्चोदयामास पानमन्नं तथैव च ॥

13.87.26

तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा ।
किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम् ॥

13.87.27

ततः स परया प्रीत्या प्रत्युवाच नराधिपम् ।
औपपत्तिकमाहारं प्रयच्छस्वेति भारत ॥

13.87.28

तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः ।
यथोपपन्नमाहारं तस्मै प्रादाज्जनाधिप ॥

13.87.29

ततः स भुक्त्वा भगवन्दम्पती प्राह धर्मवित् ।
स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो ॥

13.87.30

ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः ।
संविवेश नरेशस्तु सपत्नीकः स्थितोऽभवत् ॥

13.87.31

न प्रबोध्योस्मि संसुप्त इत्युवाचाथ भार्गवः ।
संवाहितव्यौ मे पादौ जागर्तव्यं च वां निशि ॥

13.87.32

अविशङ्कस्तु कुशिकस्तथेत्येवाह धर्मवित् ।
न प्राबोधयतां तौ च दम्पती रजनीक्षये ॥

13.87.33

यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा ।
बभूवतुर्महाराज प्रयतावथ दम्पती ॥

13.87.34

ततः स भगवान्विप्रः समादिश्य नराधिपम् ।
सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम् ॥

13.87.35

स तु राजा निराहारः सभार्यः कुरुनन्दन ।
पर्युपासत तं हृष्टश्च्यवनाराधने रतः ॥

13.87.36

भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः ।
अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः ॥

13.87.37

तमन्वगच्छतां तौ च क्षुधितौ श्रमकर्शितौ ।
भार्यापती मुनिश्रेष्ठस्तावेतौ नावलोकयत् ॥

13.87.38

तयोस्तु प्रेक्षतोऽरेव भार्गवाणां कुलोद्वहः ।
अन्तर्हितोभूद्राजेन्द्र ततो राजाऽपतत्क्षितौ ॥

13.87.39

ततो मुहूर्तादाश्वस्य सह देव्या महामुनेः ।
पुनरन्वेषणे यत्नमकरोत्स महीपतिः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc