भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.79

13.79.1

यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च ।
पितृदेवातिथीनां च तन्मे ब्रूहि पितामह ॥

13.79.2

अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ।
कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप ॥
भीष्म उवाच ।

13.79.3

शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च । अद्भिरेव प्रदातव्या कन्या गुणवते भवेत् ।
ब्राह्मणानां सतामेष नित्यं धर्मो युधिष्ठिर ॥

13.79.4

आवाह्यमावहेदेवं यो दद्यादनुकूलतः । शिष्टानां क्षत्रियाणां च धर्म एष सनातनः ॥

13.79.5

आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एष यः । अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर ।
गान्धर्वमिति तं धर्मं प्राहुर्वेदविदो जनाः ॥

13.79.6

धनेन बहुधा क्रीत्वा सम्प्रलोभ्य च बान्धवान् ।
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ॥

13.79.7

हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् ।
प्रसह्य हरणं तात राक्षसो विधिरुच्यते ॥

13.79.8

सुसां मत्तां प्रमत्तां वा रहो रात्रौ च गच्छति ।
स पापिष्ठो विवाहानां पैशाचः कथितोऽधमः ॥

13.79.9

पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर ।
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन ॥

13.79.10

ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ ।
पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः ॥

13.79.11

तिस्त्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु ।
वैश्यः स्वजात्यां विन्देत तास्वपत्यं हिताय हि ॥

13.79.12

द्विजस्य ब्राह्म्णी श्रेष्ठा क्षत्रिया क्षत्रियस्य तु ।
रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ॥

13.79.13

अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः ।
शूद्रायां जनयविन्प्रः प्रायश्चित्ती विधीयते ॥

13.79.14

नातिबालां वहन्त्यन्ते अनित्यत्वात्प्रजार्थिनः ।
वहन्ति कर्मिणस्तस्यामन्तः शुद्धिव्यपेक्षया ॥

13.79.15

अपरान्वयसम्भूतां संस्वप्नादिविवर्जिताम् ।
कामो यस्यां निषिद्धश्च केचिदिच्छन्ति चापदि ॥

13.79.16

त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् ।
एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ॥

13.79.17

यस्यास्तु न भवेद्भाता पिता वा भरतर्षभ ।
नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा ॥

13.79.18

त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती ।
चतुर्थेऽत्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत् ॥

13.79.19

प्रजा न हीयते तस्या रतिश्च भरतर्षभ ।
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ॥

13.79.20

असपिण्डा च या मातुरसगोत्रा च या पितुः ।
इत्येतामुपयच्छेत तं धर्मं मनुरब्रवीत् ॥
युधिष्ठिर उवाच ।

13.79.21

शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः ।
बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् ॥

13.79.22

पाणिग्रहीत्ता चान्यः स्यात्कस्य भार्या पितामह ।
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥
भीष्म उवाच ।

13.79.23

यत्किञ्चित्कर्म मानुष्यं संस्थानाय प्रदृश्यते ।
मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः ॥

13.79.24

भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च ।
मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ॥

13.79.25

नह्यकामेन संवादं मनुरेवं प्रशंसति ।
अयशस्यमधर्म्यं च यन्मृषा धर्मगोपनम् ॥

13.79.26

नैकान्तो दोष एकस्मिंस्तदा केनोपपद्यते ।
धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत ॥

13.79.27

बन्धुभिः समनुज्ञाते मन्त्रहोमौ प्रयोजयेत् ।
तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथञ्चन ॥

13.79.28

यस्त्वत्र मनित्रसमयो भार्यापत्योर्मिथः कृतः ।
तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः ॥

13.79.29

देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात् ।
स दैवीं मानुषीं वाचमनृतां पर्युदस्यति ॥
युधिष्ठिर उवाच ।

13.79.30

कन्यायां प्राप्तसुल्कायां ज्यायांश्चेदाव्रजेद्वरः ।
धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा ॥

13.79.31

तस्मिन्नुभयतो दोषे कुर्वञ्श्रेयः समाचरेत् ।
अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ॥

13.79.32

तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ।
तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ॥
भीष्म उवाच ।

13.79.33

नैव निष्ठाकरं शुल्कं ज्ञात्वाऽसीत्तेन नानृतम् । न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् ।
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः ॥

13.79.34

अलङ्कृत्वा वहस्वेति यो दद्यादनुकूलतः । यच्च तां च ददत्येवं न शुल्कं विक्रयो न सः ।
प्रतिगृह्य भवेद्देमेव धर्मः सनातनः ॥

13.79.35

दास्यामि भवते कन्यामिति पूर्वं नभाषितम् ।
ये चाहुर्ये च नाहुर्ये ये चावश्यं वदन्त्युत ॥

13.79.36

तस्मादाग्रहणात्पाणेर्याचयन्ति परस्परम् ।
कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् ॥

13.79.37

नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम् ।
तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ॥

13.79.38

समीक्ष्य च बहून्दोषान्संवासाद्विद्धि पाणयोः ।
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ॥

13.79.39

अहं विचित्रवीर्यस्य द्वे कन्ये समुदावहम् ।
जित्वाऽङ्गमागधान्सर्वान्काशीनथ च कोसलान् ॥

13.79.40

गृहीतपाणिरेकाऽसीत्प्राप्तशुल्काऽपराऽभवत् । कन्याऽगृहीता तत्रैव विसर्ज्या इति मे पिता ।
अब्रवीदितरां कन्यामावहेति स कौरवः ॥

13.79.41

अप्यन्याननुपप्रच्छ शङ्कमानः पितुर्वचः ।
अतीव ह्यस्य धर्मेच्छा पितुर्मेऽभ्यधिकाऽभवत् ॥

13.79.42

ततोहमब्रवं राजन्नाचारेप्सुरिदं वचः ।
आचारं तत्त्वतो वेत्तुमिच्छामि च पुनःपुनः ॥

13.79.43

ततो मयैवमुक्ते तु वाक्ये धर्मभृतावरः ॥
पिता मम महाराज बीह्लीको वाक्यमब्रवीत् ॥

13.79.44

यदि व शुल्कतो निष्ठा न पाणिग्रहणात्तथा ।
लाजान्तरमुपासीत प्राप्तशुल्क इति स्मृतिः ॥

13.79.45

न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् ।
येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ॥

13.79.46

प्रसिद्धं भाषितं दाने नैषां प्रत्यायकं पुनः ।
ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो नराः ॥

13.79.47

न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा ।
न ह्येव भार्या क्रेतव्या न विक्रय्यां कथञ्चन ॥

13.79.48

ये च क्रीणन्ति दासीवद्विक्रीणन्ति तथैव च ।
भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् ॥

13.79.49

अस्मिन्नर्थे सत्यवन्तं पर्यपृच्छन्त वै जनाः ।
कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः ॥

13.79.50

पाणिग्रहीता वाऽन्यः स्यादत्र नो धर्मसंशयः ।
तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसम्मतः ॥

13.79.51

तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ।
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत् ॥

13.79.52

यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा ।
कुर्वते जीवतोप्येवं मृते नैवास्ति संशयः ॥

13.79.53

देवरं प्रविशेत्कन्या तप्येद्वाऽपि तपः पुनः ।
तमेवानुगता भूत्वा पाणिग्राहस्य नाम सा ॥

13.79.54

लिखन्त्येव तु केषाञ्चिदपरेषां शनैरपि ।
इति ये संवदन्त्यत्र त एतं निश्चयं विदुः ॥

13.79.55

तत्पाणिग्रहणात्पूर्वमन्तरं यत्र वर्तते ।
सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः ॥

13.79.56

पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे ।
पाणिग्रहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते ॥

13.79.57

इति देयं वदन्त्यत्र त एतं निश्चयं विदुः । अनुकूलामनुवशां भ्रात्रा दत्तामुपाग्निकाम् ।
परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc